अक्षर आकार:

श्रीचतुर्विंशत्यवतारस्तोत्रम्

shrIchaturviMshatyavatArastotram

श्रीचतुर्विंशत्यवतारस्तोत्रम्

श्रीगणेशाय नमः । पातालगं क्षितितलं सुरवृन्दपाता हत्वाऽऽदिदैत्यमुदधेर्निदधौ जलोर्ध्वम् । उद्धृत्य चातनुत यस्तनुतो यजूंषि तं सूकरं प्रथमप्रथमं नमामि ॥ १॥ var तं शङ्करं स्वायम्भुवं मनुमपाच्च भुवं समस्तां भूत्वा तदीयतनयातनयोऽथ हत्वा ॥ यः स्वात्मजैः सुरगणैरसुरव्रजं तं यज्ञं द्वितीयमभवाय भजेऽद्वितीयम् ॥ २॥ प्रादुर्बभूव भवदुर्बलचित्तवृत्तीन् ज्ञानोपदेशरहितानुपदेष्टुकामः । यो देववन्द्यचरणो ननु देवहूत्यां वन्देऽवगाहकपिशं कपिलं तृतीयम् ॥ ३॥ यः सूनुकामुकमसूनुपरोधयन्तं सन्तोषयन् स्वजनकं स्वजनार्तिहात्रिम् । जज्ञे विधूतभवभीरवधूतवेषो दत्तो भवप्रभवदुःखहरोऽस्तु तुर्यः ॥ ४॥ सङ्कल्पमात्रकरणाद्गतकल्पनष्टं गूढं स्वतत्त्वनिगमं सुगमं करिष्यन् । धातुर्विचारचतुरोऽजनि यश्चतुर्धा सेवस्व पञ्चममपञ्चशरं कुमारम् ॥ ५॥ सत्कारमर्हति सतामपकारकोऽपीत्येवंविधामृषिगिरं विशदां विद्यास्यन् । योऽशेषदोषसदने मदनेऽदयिष्ट नारायणो विजयदो जयतात् स षष्ठः ॥ ६॥ यः केशवेऽकृतरतिं किल शैशवेऽपि दृष्ट्वा स्वदुःखहरणं शरणं तदेव । तस्मै सुनीतितनयाय नयान्विताय नित्यं ध्रुवाय वरदं वरयेऽश्वसंख्यम् ॥ ७॥ किं वेनमुत्पथगतं पुपुवे न भूमिं किं दुग्धरूपमथ सारमदुग्ध यो न । तं वै हिताय जगतां विहितावतारं वन्देऽष्टमं पृथुमहं पृथुलप्रतापम् ॥ ८॥ पूर्वं निजाचरणतो गृहिणामपूर्वं धर्मं जनाय निदिदेश जनान्तरज्ञः । योऽन्ते तथैव विरजस्तमसां विरज्यन्नत्यर्षभोऽस्तु नवमो नवसिद्धिदः सः ॥ ९॥ निद्रान्वितस्य मुखतो हि चतुर्मुखस्य स्रस्ता जले प्रतिददेऽप्रितमः श्रुतीर्यः । हत्वा तुरङ्गवदनं चतुरं रणे तं सौख्येहया किल भजे दशमं हयास्यम् ॥ १०॥ सत्यव्रताय निजभक्तिरताय नित्यं गुह्यं पुरा विविदिषुः स्वपुराणतत्त्वम् । योऽकालजे प्रलयकालजले व्यहार्षीदेकादशो जगति मे गतिरस्तु मत्स्यः ॥ ११॥ पृष्ठेन मन्दरममन्दभरं गिरिं यः क्षीरोदधावमरदैत्यकृते दधार । निःश्वासनर्तिततरङ्गसुरङ्गलुब्धः स द्वादशोऽस्तु कुदशोपशमाय कूर्मः ॥ १२॥ सर्वं जगद्धरिमयं जगतीति वाक्यं तथ्यं विधातुमथ चित्रतनूं विधाय । स्तम्भादजायत सदा यततां दुरापः सोऽस्तु त्रियुक्तदशमः शमदो नृसिंहः ॥ १३॥ वात्सल्यमात्मपुरुषेषु पुरुप्रतापः सन्दर्शयन्नविरतं निरतं स्वभक्तौ । ग्राहादमोचयदमोघबलो गजेन्द्रं भूत्यै हरिर्मनुमितोऽस्त्वमितोपमः सः ॥ १४॥ सर्वस्वमेव बलयेऽर्पयते स्वमेष प्रत्यर्पयत्तदपरं न तदर्हमग्र्यम् । लोकत्रये किमपि वस्तु विलोकमानः श्रिवामनो वसतु पञ्चदशो मनोऽब्जे ॥ १५॥ पृष्टान्निगूढविषयान् सुविषण्णचित्ते जाते विधातरि विधातृसुतैः सुविज्ञैः । उद्भूय सुष्ठुतरमुत्तरयाञ्चकार स्यात् षोडशः परमहंसगतिः स हंसः ॥ १६॥ आविर्बभूव भुवि भूवलयं प्रपातुं यः सज्जनेषु किल कल्पपलाशिकल्पः । दुष्टव्रजस्य दहने दहनोऽद्वितीयस्तं त्वां मनुं पुरुषसप्तदशं मनुष्व ॥ १७॥ योऽर्थाय विष्णुरुदघेरुदभूत् सुराणां नानाविधामयविनाशविधानविज्ञः । पीयूषयूषपरिपूर्णघटं गृहीत्वा धन्वन्तरिः सुखकरोऽस्तु करोनविंशः ॥ १८॥ राजन्यकं प्रवरराजगुणैर्विहीनं गर्वात्स्वधर्मपरधर्मविचारशून्यम् । योऽनेकवारमवधीदवधीरितस्तमेकोनविंशमवबुध्यति को न रामम् ॥ १९॥ पित्र्यं नियोगमतिदीर्घवियोगदायि सम्मानयन् मनुसमा व्यनयद्वनेषु । यः स्वीयरक्षणकृते विहितक्षणस्तं श्रीराममाश्रयवरं श्रय चित्त विंशम् ॥ २०॥ सम्पीडितां मनुजपैर्दनुजस्वभावैरुज्जीवयन् वसुमतीं वसुदेवगेहे । आविर्बभूव जनतापरितापहृत् स कृष्णोऽस्तु मेऽपि गदहा गदयैकविंशः ॥ २१॥ कालेन नष्टधिषणान् प्रबलेन वीक्ष्य लोकान् पराशरमुनेः शरणेऽवतीर्णः । भक्तप्रियः श्रुतिगणं बहुधा व्यभंक्त व्यासोऽस्तु मे शिवकरः करनेत्रसंख्यः ॥ २२॥ लोके मखादिमिषतस्त्वसुखादिबीजां व्याप्तां प्रभूतकरणेऽमितभूतहिंसाम् । यो मूलतः किल विमूलयितुं प्रजज्ञे चित्ते त्रिनेत्रकलनं कलयामि बुद्धम् ॥ २३॥ प्राप्तेषु सत्सु तनुतां प्रचुरेष्वसत्सु धर्मे तिरोहितवति प्रसृते त्वधर्मे । जज्ञेऽथ विष्णुयशसो निलये यशस्वी कल्की प्रसिद्धचरितोऽवतु सिद्धसंख्यः ॥ २४॥ ॥ इति श्री चतुर्विंशत्यवतारस्तोत्रं सम्पूर्णम् ॥ This stotram praises the 24 important incarnations of Vishnu as described in Srimad Bhagavatam Canto-sarga 1 chapter-adhyAya 3 and Canto 2 chapter 7 with some variations.