अक्षर आकार:

चतुर्विंशतिमूर्तिस्तोत्रम्

chaturviMshatimUrtistotram

चतुर्विंशतिमूर्तिस्तोत्रम्

श्रीभगवानुवाच - ॐरूपः केशवः पद्मशङ्खचक्रगदाधरः । नारायणः शङ्खपद्मगदाचक्री प्रदक्षिणम् ॥ १॥ ततो गदी माधवोऽरिशङ्खपद्मी नमामि तम् । चक्रकौमोदकीपद्मशङ्खी गोविन्द ऊर्जितः ॥ २॥ मोक्षदः श्रीगदी पद्मी शङ्खी विष्णुश्च चक्रधृक् । शङ्खचक्राब्जगदिनं मधुसूदनमानमे ॥ ३॥ भक्त्या त्रिविक्रमः पद्मगदी चक्री च शङ्ख्यपि । शङ्खचक्रगदापद्मी वामनः पातु मां सदा ॥ ४॥ गदितः श्रीधरः पद्मी चक्रशार्ङ्गी च शङ्ख्यपि । हृषीकेशो गदा चक्री पद्मी शङ्खी च पातु नः ॥ ५॥ वरदः पद्मनाभस्तु शङ्खाब्जारिगदाधरः । दामोदरः पद्मशङ्खगदाचक्री नमामि तम् ॥ ६॥ तेने गदी शङ्खचक्री वासुदेवोऽब्जभृज्जगत् । सङ्कर्षणो गदी शङ्खी पद्मी चक्री च पातु वः ॥ ७॥ गदी चक्री शङ्खगदी प्रद्युम्नः पद्मभृत्प्रभुः । अनिरुद्धश्चक्रगदी शङ्खी पद्मी च पातु नः ॥ ८॥ सुरेशोऽर्यब्जशङ्खाढ्यः श्रीगदी पुरुषोत्तमः । अधोऽक्षजः पद्मगदी शङ्खी चक्री च पातु वः ॥ ९॥ देवो नृसिंहश्चक्राब्जगदी शङ्खी नमामि तम् । अच्युतः श्रीगदी पद्मी चक्री शङ्खी च पातु वः ॥ १०॥ बालरूपी शङ्खगदी उपेन्द्रश्चक्रपद्म्यपि । जनार्दनः पद्मचक्री शङ्खधारी गदाधरः ॥ ११॥ शङ्खी पद्मी च चक्री च हरिः कौमोदकीधरः । कृष्णः शङ्खी गदी पद्मी चक्री मे भुक्तिमुक्तिदः ॥ १२॥ आदिमूर्तिर्वासुदेवस्तस्मात्सङ्कर्षणोऽभवत् । सङ्कर्षणाच्च प्रद्युम्नः प्रद्युम्नादनिरुद्धकः ॥ १३॥ केशवादिप्रभेदेन ऐकैकः स्यात्त्रिधा क्रमात् । द्वादशाक्षरकं स्तोत्रं चतुर्विंशतिमूर्तिमत् । यः पठेच्छृणुयाद्वापि निर्मलः सर्वमाप्नुयात् ॥ १४॥ इत्यादिमहापुराणे आग्नेये चतुर्विंशतिमूर्तिस्तोत्रं नाम अष्टाचत्वारिंशोऽध्यायः ॥ ४८॥