अक्षर आकार:

चतुरशीतिवैष्णवनामावलीस्तोत्रम्

chaturashItivaiShNavanAmAvalIstotram

चतुरशीतिवैष्णवनामावलीस्तोत्रम्

श्रीविठ्ठलमहं वन्दे स्वकीयजनवल्लभम् । चतुरशीतिभक्तानां व्यक्तिं कुर्वे यथार्थतः ॥ १॥ दामोदरः कृष्णदासः पुनर्दामोदरस्तथा । पद्मनाभश्च तुलसा पार्वती रघुनायकः ॥ २॥ रजो पुरुषोत्तमो रुक्मिणी गोपालदासकः । सारस्वतो रामदासो गदाधरो महांस्तथा ॥ ३॥ वेणीमाधवदासश्च अम्माक्षत्राणी वैष्णवी । हरिदासश्च गोविन्दो क्षत्री गजनधावनः ॥ ४॥ नारायणो ब्रह्मचारी क्षत्राणीजीवदासकः । देवाकपूर क्षत्री च दिनकरः पुरुषोत्तमः ॥ ५॥ मकुन्दः प्रभुदासश्च प्रभुत्रिपुरादासकौ । पूर्णमल्लो यादवेन्द्रः काश्मीरो माधवस्तथा ॥ ६॥ गुसा‍ईदास-गोपालौ पद्मरावलकस्तथा । जोशी पुरुषोत्तमो ज्ञेयो जगन्नाथः समान्वयः ॥ ७॥ नरहरी राणाव्यासः क्षत्राणी-रामदासकौ । गोपालः कृष्णदासश्च प्रहितो रामदासकः ॥ ८॥ बुलामिश्र-रामानन्दौ विष्णु-जीवनदासकौ । सारस्वतो भगवान् भगवान्मुक्षसेवकः ॥ ९॥ गौडो ह्यच्युतदासश्च अच्युतश्चक्रतीर्थकः । कन्हैयालालक्षत्री च नरहरिदासकस्तथा ॥ १०॥ लघुपुरुषोत्तमो गोपालदास-जनार्दनौ । कविराजो गडुस्वामी उत्तमश्लोकदायकः ॥ ११॥ ईश्वरोत्तमश्लोकाख्यो राजामाधवकौ तथा । सिंहनन्दे सासुबहू परमानन्द सूरकः ॥ १२॥ बाबावेणुः कृष्णदासी छकडा वासुदेवकः । एका क्षत्राणी आनन्ददासो विश्वम्भरस्तथा ॥ १३॥ ब्रह्माणी रथका‍ईश्च नारायणीस्त्रीयरस्तथा । अन्यमार्गीयकायस्थदासो दामोदरस्तथा ॥ १४॥ सिंहनन्दे च क्षत्राणी जगदानन्दकस्तथा । इन्द्रप्रस्थे चैकक्षत्री जटा गोपालदासकः ॥ १५॥ कृष्णदासो रामदासो वाडवो बादरायणः । वैष्णवो सन्तदासश्च सुन्दरदास मावजी ॥ १६॥ नरहरिदास सन्न्यासी पाडे सदुभवानिका । श्रीमदाचार्यभक्तानां नामानि बहुशस्तथा ॥ १७॥ तथापि स्वात्मपाठार्थे लिखितानीति क्षम्यताम् । वार्तायां परिबोद्ध्यानि सर्वदा वैष्णविअर्जनैः ॥ १८॥ इति श्रीमद्गोकुलनाथजीकृता श्रीमद्वल्लभाचार्यचतुरशीतिभक्तानां नामावली सम्पूर्णा ।