अक्षर आकार:

चतुःश्लोकी २

chatuHshlokI 2

चतुःश्लोकी २

निजाचार्येषु सततं मनस्तत्प्रियसूनुषु । स्थापनीयं न चान्येषु सममत्या कदाचन ॥ १॥ विधेया कृष्णसेवैव स्वमार्गेण स्वभावतः । अन्याश्रयः परित्याज्यो ह्यसमर्पितभक्षणम् ॥ २॥ स्वमार्गे वसतामेव सतां सङ्गो विधीयताम् । मनसा नाऽसता कार्यो बलवद्बाधकत्वतः ॥ ३॥ निवेदनानुसन्धानं देहादेरन्ययोगतः । जातान्यथाभावबाधभावाय क्रियतां वशी ॥ ४॥ इति श्रीहरिदासोदिता चतुःश्लोकी समाप्ता ।