अक्षर आकार:

चतुःश्लोकी १

chatuHshlokI 1

चतुःश्लोकी १

सर्वदा सर्वभावेन भजनीयो व्रजाधिपः । स्वस्यायमेव धर्मो हि नान्यः क्वापि कदाचन ॥ १॥ एवं सदा स्म कर्तव्यं स्वयमेव करिष्यति । प्रभुः सर्वसमर्थो हि ततो निश्चिन्ततां व्रजेत् ॥ २॥ यदि श्रीगोकुलाधीशो धृतः सर्वात्मना हृदि । ततः किमपरं ब्रूहि लौकिकैर्वैदिकैरपि ॥ ३॥ अतः सर्वात्मना शश्वद्गोकुलेश्वरपादयोः । स्मरणं भजनं चापि न त्याज्यमिति मे मतिः ॥ ४॥ इति श्रीवल्लभाचार्यविरचिता चतुःश्लोकी १ समाप्ता ।