अक्षर आकार:

श्रीवादिराजतीर्थगुरुवर्यविरचिता चक्रस्तुतिः

chakrastutiH by shrIvAdirAjatIrtha guruvarya

श्रीवादिराजतीर्थगुरुवर्यविरचिता चक्रस्तुतिः

दोषौघवारणं यस्य धारणं मोक्षकारणम् । न वैदिकं तप्तचक्रधारणं यदि मनसे ॥ १॥ ग्रन्थादौ मङ्गलं तर्हि कस्मान्नावैदिकं तव । शिष्टाचारात् स्मृतिः कल्प्या स्मृतेश्च श्रुतिकल्पना ॥ २॥ यदि तत्र तथैतस्मिन् किन्न कल्पयसि श्रुतिम् । द्वारकायायिभिः सर्वैरद्यापि प्राक्प्रवेशतः ॥ ३॥ निम्बादित्यानुगैः प्राज्ञैर्मायावाद्येकदेशिभिः । विष्णुस्वामिमतस्थैश्च रामानुजमताश्रयैः ॥ ४॥ तत्त्ववादिजनाचार्यैः शिष्टश्रेष्ठैरनुष्ठिते । कैश्चिच्चीर्णमिदं नोचेत्त्यक्तं तदपि नास्तिकैः ॥ ५॥ बहुशिष्टजनाचारः प्रमाणमुभयत्र च । स्वमूलग्रन्थभागेषु तथा प्रकरणेषु च ॥ ६॥ निबन्धेषु च सर्वेषु केनापीदं न दूषितम् । अनाचारस्तु केषाञ्चिदनाचारः प्रकल्प्यताम् ॥ ७॥ त्यजेदेकं कुलस्यार्थमिति न्यायं विजानत । नृसिंहपरिचर्यायां रामार्चाचन्द्रिकादिषु ॥ ८॥ श्रुतिस्मृतिपुराणोक्त्या तैरपीदं प्रसाधितम् । न नः पूर्वैः पराक्रान्तं सर्वसंप्रतिपत्तितः ॥ ९॥ इदातीनीमाग्रहादेव विवदन्ते क्वचित् क्वचित् । दुराग्रहग्रहं तेषां केषाञ्चिन्मनसि स्थितम् ॥ १०॥ निवर्तयेत्सुप्रयुक्तः श्रौतो मन्त्रो महात्मभिः । अवैदिकमिदं चेत्ते ब्रह्मैक्यं वैदिक कुतः ॥ ११॥ श्रुतयस्तत्र चेत् सन्ति न सन्ति किमिहागमाः । यद्येतेषामितोन्योर्थः कल्प्यते स्वकफोलतः ॥ १२॥ श्रुतिस्मृतिसमाख्यातस्तत्रान्यार्थो न किं श्रुतः । आग्रहोयं परेषां चेत्तथायं किन्तु नाग्रहः ॥ १३॥ वादिविप्रतिपन्नाभिः श्रौतत्वं तूभयोः समम् । यद्यश्रौतमिदं कर्म यज्ञोश्रौतः कथं न ते ॥ १४॥ तन्मूलभूतवेदानामतत्वावेदकत्वतः । अन्यार्थकल्पनेनापि तत्त्ववेदकता गता ॥ १५॥ तेनैवावेदकत्वं चेदध्वरस्य कथं न तत् । अधुना बाधवैधुर्याद्व्यावहारिकमानता ॥ १६॥ समोभयत्र केषाञ्चिन्मते बाधोत्र तत्र च । वेदाप्रामाण्यशंसित्वादशिष्टौ तावुभावपि ॥ १७॥ व्यावहारिकमानत्वं मूढाप्रामाण्यमेव हि । अतप्तधारणं चेत्स्यात्तन्मूलेनैतदागतम् ॥ १८॥ सदा तदुक्तलाभार्थमिदं प्राज्ञैर्हिरण्मयी । पवित्रमुद्रेव कुशश्रुतिमूला प्रधार्यते ॥ १९॥ किमग्निनापराद्धं ते किं चक्रेण मुरद्विषः । किं वा सद्भिरनिर्भीतैः किं पुराणैस्त्रयीगिरा ॥ २०॥ निषेधवाक्याद्भीतिस्तु तप्तातप्ताङ्कयोः समा । तत्सर्वं तप्तगं कुर्वन् समः स्वार्थपरार्थयोः ॥ २१॥ अमन्त्राहोममूलाङ्कविषयं कुरु लाघवात् । शिष्टाचारविरुद्धोर्थः स्वसारं चाधिरोहति ॥ २२॥ इत्यादौ त्यज्यते वेदे किं पुनः स्मृतिकोणगः । यदि स्मतिमनादृत्य श्रुतावनुदितत्वतः ॥ २३॥ विधिं न मानयस्येनं निषेधः केन मान्यते । नहि श्रुतिसती धर्ममिमं क्यापि निषेधति ॥ २४॥ सुदर्शनकृतोद्योगनिष्कण्टकितपद्धतिः । तूष्णीं स्थितेपि लोकेस्मिन्नङ्गीकार इतीर्यते ॥ २५॥ शास्त्रेप्यप्रतिषिद्धं चेद्गीयतेनुमतं त्विति । यदि स्मृत्युक्तमाचारमश्रौतं मन्यते भवान् ॥ २६॥ शौचादौ दिग्विभागं च वैचित्र्यं मृत्तिकाग्रहे । योग्यायोग्यदिनत्वं च दन्तधावनकर्मणि ॥ २७॥ काष्ठे ग्राह्याग्राह्यतां च तथाचमनपद्धतिम् । गृह्योक्तं पार्वणविधिं भोज्याभोज्यपदार्थताम् ॥ २८॥ क्रमं षोडशसंस्कारे श्राद्धादीनां दिनान्यपि । तर्हि त्यक्त्वा व्रात्यदशामाश्रय त्वविशङ्कितः ॥ २९॥ सर्वधर्मान् परित्यज्येत्यादिवाक्यमुपाश्रितः । नारदीये बृहति ते बलं वाक्यचतुष्टयम् ॥ ३०॥ पाद्मगारुडमुख्येषु सन्त्यस्माकं सहस्रशः । द्वैधे बहूनां वचनमिति न्यायेन तत्र्यजन् ॥ ३१॥ अङ्गीकुरु हरेश्चक्रधृतिं मुक्तिसृतिं पराम् । अष्टादशपुराणस्थान्यस्मद्वाक्यानि सर्वशः ॥ ३२॥ मुख्यान्युपपुराणस्थवाक्येभ्यो नहि बिभ्यति पञ्चरात्रस्य विष्णूक्तेः सर्वैः प्रामाण्यमिष्यते ॥ ३३॥ प्रतिष्ठापर्वपूजाद्या देवानां स्युः कथं न चेत् । श्रुतिप्रतीकं सङ्गृह्य पवित्राख्यां प्रदाय च ॥ ३४॥ तत्र प्रथमसंस्कारस्तप्तचक्राङ्क ईर्यते । तद्विरुद्धमृषिप्रोक्तं दुरुक्तमिति गृह्यते ॥ ३५॥ उभयोः कलहे साक्षी विजातीयो हि मान्यते । यच्छास्त्रं लिङ्गपारम्यं परं देवमुमापतिम् ॥ ३६॥ तमःप्रवर्तकं वक्ति तामसं तत्प्रचक्षते । इति गारुडवाक्येन तथा पाद्मगतेन च ॥ ३७॥ विष्ण्वाधिक्यविरोधित्वे पुराणस्मृतिविद्ययोः । अपि तामसतैवोक्ता ततोप्यन्यदुपेक्षताम् ॥ ३८॥ नहि तामसमाश्रित्य तमः प्राप्तुं त्वमर्हसि । श्रीमद्भागवतं सर्वैः पूर्वैर्नो भवतामपि ॥ ३९॥ पुराणेषूत्तमत्वेन श्रुतं मतमुपाश्रितम् । तत्रापि विष्णुमाहात्म्यरसायनविरोधिनाम् ॥ ४०॥ शैवोक्तिविषबिन्दूनां तामसत्वमुदाहृतम् । १वाचं हीनां मया रक्षन् दुःखदुःखी भवेदिति ॥ ४१॥ श‍ृण्वन्ति येन्यविषयाः कुकथा मतिनाशिनीः । ते तमः प्राप्नुवन्तीति वन्ध्यां न बिभृयाद्गिरम्२॥ ४२ ॥ इत्यादौ तेन चोक्तं नः सर्वं चार्वेव गम्यते । मल्लक्षणमिमं कायं कृत्वा मद्धर्ममाश्रितः ॥ ४३॥ स्वलिङ्गधारणेनेति तत्रोक्तं चक्रलाञ्छनम् । श्रुतितात्पर्यसिद्ध्यर्थे विरोधं कुर्वती स्मृतिः ॥ ४४॥ विरोधे त्वनपेक्षं स्यादित्यमानत्वमेष्यति । पवित्रं त इति ह्येका गोविन्दुर्बिभ्रदायुधम् ॥ ४५॥ येन देवाः पवित्रेण आत्मानं पुनते सदा । तेन सहस्रधारेण पावमान्यः पुनन्तु माम् ॥ ४६॥ इत्याद्यृचि यजुर्वेदे लोकस्य द्वारमित्यपि । चरणं पूतमिति च तथा साम्नि स्फुटं वचः ॥ ४७॥ नेमिना तप्तसुतनुः सायुज्यं प्राप्नु यादिति । उरुक्रमाङ्कैः सुभगा वयमेभिरिहाङ्किताः ॥ ४८॥ इत्यथर्वगतं वाक्यं तथा श्रुतिशिरस्यपि । अद्यापि गौर्जरैर्विप्रैः पठ्यमाने गुरोर्मुखात् ॥ ४९॥ धृतोर्ध्वपुण्ड्रः श्रितसच्चक्रधारी हरिं परम् । यो ध्यायेत्स महात्मेति स्पष्टमर्थान्तरोज्जितम् ॥ ५०॥ सन्ति स्मृतीतिहासाद्याः पुराणानि च कोटिशः । सुदर्शनस्य मीमांसा कृता ह्यस्मत्पुरातनैःः ॥ ५१॥ तत्रोद्धैतेषु वाक्येषु कथमेतेषु संशयः । यदि वाक्यं स्वयं कृत्वा प्रावक्ष्यन् पूर्वसूरयः ॥ ५२॥ तर्ह्यर्च्यनेकभेदायां कुतो वाक्यं निजेच्छया । व्याकरिष्यन्नतिस्पष्टमनर्थान्तरसम्भवम् ॥ ५३॥ प्रावर्तन्त कथं पूर्वे सर्वेऽप्यास्तिकमौलयः । स्पष्टैर्वाक्यैर्नचेत् सर्वविप्लवः स्याज्जिनोक्तितः ॥ ५४॥ स वक्ति सर्वमाम्नायं रक्षसा केनचित् कृतम् । पवित्रर चरणं' चक्रं लोकद्वारं सुदर्शनम् ॥ ५५॥ पर्यायवाचका ह्यैते चक्रस्य परमात्मनः । पुराणोक्तिरियं चक्रं पवित्राद्याख्ययाह हि ॥ ५६॥ मर्त्यानुशासनं ग्राह्यं किं पुनः स्मार्तशासनम् । पविवत्त्रायते लोकानिति व्युत्पत्तिसम्भवात् ॥ ५७॥ योगरूढिबलायाता पवित्राख्या सुदर्शने । इमां श्रुतिमुपादाय पुराणान्येव सर्वशः ॥ ५८॥ प्रमाणयन्ति स्वोक्तेस्मिंस्तप्तचक्राङ्कधारणे । अतोन्यार्थः श्रुतेरस्याः कथं शक्यो मनीषिभिः ॥ ५९॥ सति नेतरि मार्गस्य किमन्धोक्तः क्रमो भवेत् । पवित्रपदनिर्दिष्टमर्थं वेदस्तमेव हि ॥ ६०॥ सहस्रधारनामोक्त्या चक्रत्वं स्पष्टयत्यहो । षट्कोणत्वाभिधां चक्रच्छायामद्याप्युपाददत् ॥ ६१॥ कुशग्रन्थिरसपि ह्यासीत्पवित्राख्यो महीतले । यथा चित्रस्थसिंहस्य सिंहसादृश्यमात्रतः ॥ ६२॥ सिंहतायां मुख्यसिंहो वन्य एवेति निर्णयः । तथा पवित्रनामै तच्चक्रस्यैवेति गम्यते ॥ ६३॥ षट्कोणता सर्वमते चक्रस्यैव हि लक्षणम् । आगमोक्तं पवित्रं च षट्कोणग्रन्थितोभवत् ॥ ६४॥ अतोन्यार्थकथा वाताहता शुष्यलताभवत् । तत्पवित्रमिदं व्याप्तं यत्त्वं पर्येषि विश्वतः ॥ ६५॥ इति श्रुत्युदितं विष्णुव्याप्त्या व्याप्तत्वमेव च । चक्रवोचितं विप्रकुशस्यात्यन्तबाधितम् ॥ ६६॥ प्राक्प्रसक्तपवित्रेण तप्तातप्तत्वमिष्यते । पञ्चाग्निकृततापोक्तौ दूषणद्वयवागतम् ॥ ६७॥ प्रसक्तस्य परित्यागो ह्यप्रसक्तपरिग्रहः । आमत्वोक्त्या तप्तचक्रदाहाभावो हि दूष्यते ॥ ६८॥ अग्नि दूरसमीपस्थवस्तुन्यात्मत्वसाम्यतः ॥ श‍ृतास इति शब्दार्था दाहवन्तो न तापसाः ॥ ६९॥ पादोक्तौ स्यात् पवित्रेणेत्येतद्व्यर्थं पदान्तरम् । चक्रं प्रयुज्य निबिडं तमो निर्भिद्य रन्ध्रतः ॥ ७०॥ अनन्तासनलोकं स्वं प्राप कृष्णः सहार्जुनः । इति पौराणिकख्यात्या लोकस्य द्वारतापि च ॥ ७१॥ चक्रस्यैवोचितान्यत्र शक्योतोर्थो न शङ्कितुम् । अपि चार्थद्वये प्राप्ते समाख्यैकार्थसाधिका ॥ ७२॥ तत्पुराणसमाख्यानादर्थोयमवधार्यते । मीमांसाभिधविख्यातसीमासाम्राज्यकारिभिः ॥ ७३॥ यद्यप्याम्नायमार्गेस्मिन् वक्तुं बहु च शक्यते । तथाप्यल्परणोद्योगे योद्धुः शूरस्य नोचितं महाप्राकारकरणमिति मत्वोपरम्यते ॥ ७४॥ कुमतध्वान्तनिर्भेदी स्वमताम्भोधीसम्भ्रमः । हयग्रीवोल्लसच्चन्द्रपादः खेदापहोस्तु नः ॥ ७५॥ हयग्रीवपदद्वन्द्वचिन्तनासक्तचेतसा ॥ यतिना वादिराजेन चक्रस्तुतिरियं कृता ॥ ७६॥ ॥ इति श्रीमद्वादिराजपूज्यचरणविरचिता चक्रस्तुतिः सम्पूर्णा ॥ भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । Footnotes १ गां दुग्धदोहामसतीं च भार्या देहं पराधीनमसत्प्रजां च । वित्तं त्वतीर्थीकृतमङ्गवाचं हीनां मया रक्षति दुःखदुःखी ॥ २ यस्यां न मे पावनमङ्ग कर्म स्थित्युद्भवप्राणनिरोधमस्य । लीलावतरेप्सितजन्म ना स्याद्वन्ध्यां गिरं तां बिभ्रयान्न धीरः ॥ -श्रीमद्भागवत (११/११/१९,२०)