अक्षर आकार:

श्रीचक्रपाणिस्तोत्रम्

Shri Chakrapanistotram

श्रीचक्रपाणिस्तोत्रम्

सूर्यकृतं (कुम्भकोणे सुदर्शन-नरसिंह-घटित चक्रपाणिमूर्तेः स्तोत्रम् ।) देवदेव जगन्नाथ नमस्ते भक्तवत्सल । प्रपन्नं पाहि मां विष्णो कृपया पुरुषोत्तम ॥ १॥ अपराधं क्षमस्वाद्य मयाऽज्ञानकृतं प्रभो । त्वां विना शरणं नास्ति त्वमेव शरणं मम ॥ २॥ चक्राम्बुजे समासीनं चक्राद्यायुधभूषणम् । चक्रमन्त्राधिदेवेशं चक्रराजमहं भजे ॥ ३॥ सर्वावयवसम्पूर्णमष्टबाहुं त्रिलोचनम् । दंष्ट्राकरालवदनं भयस्यापि भयङ्करम् ॥ ४॥ उग्रपिङ्गलकेशाढ्यं ज्वालामालापरिष्कृतम् । अप्रदृश्यमनिर्देश्यं ब्रह्माण्डव्याप्तविग्रहम् ॥ ५॥ अष्टायुधपरीवारं अष्टशक्तिसमन्वितम् । अष्टारं चक्रमत्युग्रं मुसलं चाङ्कुशं तथा ॥ ६॥ पद्मं दक्षिणपार्श्वे तु चतुर्भिर्बाहुभिर्वृतम् । वामतः शङ्खसशरचापपाशगदाधरम् ॥ ७॥ रक्तवस्त्रधरं देवं रक्तमाल्योपाशोभितम् । रक्तचन्दनलिप्ताङ्गं रत्नमालाविभूषितम् ॥ ८॥ दिव्यरत्नविचित्रेण मकुटेन विराजितम् । दुष्टनिग्रहकर्तारं भक्तानुग्रहरूपिणम् । सुदर्शनाभिधानं त्वामात्मनोऽभिमुखं भजे ॥ ९॥ अव्याद्भास्करसप्रभाभिरखिलाभाभिर्दिशो भासयन् भीमाक्षस्फुरदट्टहासविलसद्दंष्ट्रः प्रदीप्ताननः । दोर्भिश्चक्रदरौ गदाब्जमुसलान् शार्ङ्गं च पाशाङ्कुशौ बिभ्रत्पिङ्गशिरोरुहोऽतिधवलश्चक्राभिधानो हरिः ॥ १०॥ मध्याह्नसूर्यप्रतिमप्रकाशं पिशङ्गकेशं स्फुरदट्टहासम् । त्रिरूपदीप्ताम्बरमुग्रमीडे चक्रस्थितं चक्रिणमष्टबाहुम् ॥ ११॥ कल्पान्तार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयन्तं रक्ताक्षं पिङ्गकेशं रिपुकुलदहनं भीमदंष्ट्राट्टहासम् । शङ्खं चक्रं गदाब्जे पृथुतरमुसलं चापपाशाङ्कुशादीन् बिभ्राणं दोर्भिरीड्यं मनसि मुररिपुं भावये चक्रपाणिम् ॥ १२॥ त्रिणेत्रं चतुश्चक्रसंशोभिहस्तं स्थितं तञ्च पङ्केरुहे योगपीठे । महोग्राकृतिं कालविद्युत्सकाशं नृसिंहं भजे चक्रपश्चात्सुसंस्थम् ॥ १३॥ इति सूर्यकृतं चक्रपाणिस्तोत्रं सम्पूर्णम् ।