अक्षर आकार:

बुद्धस्तवः

Buddhastavah

बुद्धस्तवः

षट्चक्रे क्रमभावनापरिगतं हृत्पद्ममध्यस्थितं सम्पश्यच्छिवरूपिणं लयवशादात्मानमध्याश्रितः । युष्माकं मधुसूदनो बुधवपुर्धारी स भूयान्मुदे यस्तिष्ठेत्कमलासने कृतरुचिर्बुद्धैकलिङ्गाकृतिः ॥ १॥ रेतोरक्तमयान्यमूनि भविनां विण्मूत्रपूर्णोदरा- ण्यालोक्येव कलेवराणि विगलत्तोयार्द्ररन्ध्राणि यः । मायाजालनियन्त्रितानि घृणया नोन्मीलयत्यक्षिणी निर्व्याजप्रणिधाननिश्चलमतिर्बुद्‍ध्यै स बुद्धोऽस्तु वः ॥ २॥ ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं पश्यानङ्गशरातुरं जनमिमं त्रातापि नो रक्षसि । मिथ्याकारुणिकोऽसि निर्घृणतरस्त्वत्तः कुतोऽन्यः पुमान् शश्वन्मारवधूभिरित्यभिहितो बुद्धो जिनः पातु वः ॥ ३॥ आबाहूद्गतमण्डलाग्ररुचयः सन्नद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः । उत्सृष्टाम्बरदृष्टिविभ्रमभरा यस्य स्मराग्रेसरा योधा वारवधूस्तनाश्च न दधुः क्षोभं स वोऽव्याज्जिनः ॥ ४॥ बद्ध्वा पद्मासनं यो नयनयुगमिदं न्यस्य नासाग्रदेशे धृत्वा मूर्तौ च शान्तौ समरसमिलितौ चन्द्रसूर्याख्यवातौ । पश्यन्नन्तर्विशुद्धं किमपि च परमं ज्योतिराकारहीनं सौख्याम्भोधौ निमग्नः स दिशतु भवतां ज्ञानबोधं बुधोऽयम् ॥ ५॥ कामेनाकृष्य चापं हतपटुपटहं वल्गुभिर्मारवीयैः भ्रूभङ्गोत्क्षेपजृम्भास्मितललितदृशा दिव्यनारीजनेन । सिद्धैः प्रह्वोत्तमाङ्गैः पुलकितवपुषा विस्मयाद्वासवेन ध्यायन्यो योगपीठादचलित इति वः पातु दृष्टो मुनीन्द्रः ॥ ६॥ किं स्याद्भास्वान्न भानोरमृतघनरसस्यन्दनः सन्ति पादाः किं वा राकाशशाङ्को न हि तुहिनरुचिः कुत्रचिन्निष्कलङ्कः । साक्षाच्चिन्तामणिः किं विपुलफलमणेः सौकुमार्यं कुतस्त्यं सन्देहान्मुग्धधीभिः प्रथममिति मुनेः पातु दृष्टं वपुर्वः ॥ ७॥ इति बुद्धस्तवः सम्पूर्णः ।