अक्षर आकार:

श्रीकृष्णस्तोत्र ब्रह्मारचित

brahmA rachita kRiShNastotra

श्रीकृष्णस्तोत्र ब्रह्मारचित

श्री गणेशाय नमः । ब्रह्मोवाच । रक्ष रक्ष हरे मां च निमग्नं कामसागरे । दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसङ्कटे ॥ १॥ भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे । अतीव निर्मलज्ञानचक्षुःप्रच्छन्नकारणे ॥ २॥ जन्मोर्मिसङ्गसहिते योषिन्नक्रौधसङ्कुले । रतिस्रोतःसमायुक्ते गम्भीरे घोर एव च ॥ ३॥ प्रथमामृतरूपे च परिणामविषालये । यमालयप्रवेशाय मुक्तिद्वारातिविस्मृतौ ॥ ४॥ बुद्ध्या तरण्या विज्ञानैरुद्धरास्मानतः स्वयम् । स्वयं च त्व कर्णधारः प्रसीद मधुसूदन ॥ ५॥ मद्विधाः कतिचिन्नाथ नियोज्या भवकर्मणि । सन्ति विश्वेश विधयो हे विश्वेश्वर माधव ॥ ६॥ न कर्मक्षेत्रमेवेदं ब्रह्मलोकोऽयमीप्सितः । तथापि न स्पृहा कामे त्वद्भक्तिव्यवधायके ॥ ७॥ हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु । त्वं महेश महाज्ञाता दुःस्वप्नं मां न दर्शय ॥ ८॥ इत्युक्त्वा जगतां धाता विरराम सनातनः । ध्यायं ध्यायं मत्पदाब्जं शश्वत्सस्मार मामिति ॥ ९॥ ब्रह्मणा च कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् । स चैवाकर्मविषये न निमग्नो भवेद्ध्रुवम् ॥ १०॥ मम मायां विनिर्जित्य स ज्ञानं लभते ध्रुवम् । इह लोके भक्तियुक्तो मद्भक्तप्रवरो भवेत् ॥ ११॥ ॥ इति श्रीब्रह्मदेवकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ॥