अक्षर आकार:

बिन्दुमाधवाष्टकम्

bindumAdhavAShTakam

बिन्दुमाधवाष्टकम्

श्री गणेशाय नमः । कलिन्दजातटाटवीलतानिकेतनान्तर- प्रगल्भवल्लविस्फुरद्रतिप्रसङ्गसङ्गतम् । सुधारसार्द्रवेणुनादमोदमाधुरीमद- प्रमत्तगोपगोव्रजं भजामि बिन्दुमाधवम् ॥ १॥ गदारिशङ्खचक्रशार्ङ्गभृच्चतुष्करं कृपा- कटाक्षवीक्षणामृताक्षितामरेन्द्रनन्दनम् । सनन्दनादिमौनिमानसारविन्दमन्दिरं जगत्पवित्रकीर्तिदं भजामि बिन्दुमाधवम् ॥ २॥ दिगीशमौलिनूत्नरत्ननिःसरत्प्रभावली- विराजितांघ्रिपङ्कजं नवेन्दुशेखराब्जजम् । दयामरन्दतुन्दिलारविन्दपत्रलोचनं विरोधियूथभेदनं भजामि बिन्दुमाधवम् ॥ ३॥ पयः पयोधिवीचिकावलीपयःपृषन्मिलद्भुजङ्ग- पुङ्गवाङ्गकल्पपुष्पतल्पशायिनम् । कटीतटिस्फुटीभवत्प्रतप्तहाटकाम्बरं निशाटकोटिपाटनं भजामि बिन्दुमाधवम् ॥ ४॥ अनुश्रवापहारकावलेपलोपनैपुणी- पयश्चरावतारतोषितारविन्दसम्भवम् । महाभवाब्धिमध्यमग्रदीनलोकतारकं विहङ्गराट्तुरङ्गमं भजामि बिन्दुमाधवम् ॥ ५॥ समुद्रतोयमध्यदेवदानवोत्क्षिपद्धरा- धरेन्द्रमूलधारणक्षमादिकूर्मविग्रहम् । दुराग्रहावलिप्तहाटकाक्षनाशसूकरं हिरण्यदानवान्तकं भजामि बिन्दुमाधवम् ॥ ६॥ विरोचनात्मसम्भवोत्तमाङ्गकृत्पदक्रमं परश्वधोपसंहृताखिलावनीशमण्डलम् । कठोरनीलकण्ठकार्मुकप्रदर्शितादि- दोर्बलान्वितक्षितीसुतं भजामि बिन्दुमाधवम् ॥ ७॥ यमानुजोदकप्रवाहसत्त्वराभिजित्वरं पुरासुराङ्गनाभिमाननूपभूपनायकम् । स्वमण्डलाग्रखण्डनीययावनारिमण्डलं बलानुजं गदाग्रजं भजामि बिन्दुमाधवम् ॥ ८॥ प्रशस्तपञ्चचामराख्यवृत्तभेदभासितं दशावतारवर्णनं नृसिंहभक्तवर्णितम् । प्रसिद्धबिन्दुमाधवाष्टकं पठन्ति ये भृशं नरा सुदुर्लभं भजन्ति ते मनोरथं निरन्तम् ॥ ९॥ ॥ इति श्रीबिन्दुमाधवाष्टकं सम्पूर्णम् ॥