अक्षर आकार:

शिवकृतं भगवत्स्तोत्रम्

shivakRitaM bhagavatstotram

शिवकृतं भगवत्स्तोत्रम्

श्रीगणेशाय नमः । शिव उवाच । जितं त आत्मविद्धुर्य स्वस्तये स्वस्तिरस्तु मे । भवता राधसा राद्धे सर्वस्मा आत्मने नमः ॥ १॥ अमः पङ्क्रजनाभाय भूतसूक्ष्मेन्द्रियात्मने । वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ॥ २॥ सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च । नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने ॥ ३॥ नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्भने । नमः परमहंसाय पूर्णाय निभृतात्मने ॥ ४॥ स्वर्गापवर्गद्वाराय नित्यं शुचिपदे नमः । नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥ ५॥ नम ऊर्जैषेत्रय्याःपतये यज्ञरेतसे । तृप्तिदाय च जीवानां नमः सर्वरसात्मने ॥ ६॥ सर्वसत्वात्मदेहाय विशेषाय स्थवीयसे । नभस्त्रैंलोक्यपालाय सहओजोबलाय च ॥ ७॥ अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने । नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे ॥ ८॥ प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे । नमो धर्मविपाकाय मृत्यवे दुःखदाय च ॥ ९॥ नमस्त आशिषामीश मनवे कारणात्मने । नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे । पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च ॥ १०॥ शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्भने । चेतआकूतिरूपाय मनोवाचोविभूतये ॥ ११॥ दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् । रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥ १२॥ स्निग्धप्रावृड्घनश्यामं सर्वसौन्दर्यसङ्ग्रहम् । चार्वायतचतुर्बाहुं सुजातरुचिराननम् ॥ १३॥ पद्मकाशपलाशाक्षं सुन्दरभ्रु सुनासिकम् । सुद्विजं सूकपोलास्यं समकर्णविभूषणम् ॥ १४॥ प्रीतिप्रहसितापाङ्गमलकैरुपशोभितम् । लसत्पङ्कजकिञ्जल्कदुकूलं मृष्टकुडलम् ॥ १५॥ स्फुरत्किरीटवलयहारनूपुरमेखलम् । शङ्खचक्रगदापद्ममालामण्युत्तमर्धिमत् ॥ १६॥ सिंहस्कन्धत्विषो बिभ्रत्सौभाग्यग्रीवकौस्तुभम् । श्रियानपायिन्याक्षिप्तनिकषाश्मोरसोल्लसत् ॥ १७॥ पूररेचकसंविग्नवलिवल्गुदलोदरम् । प्रतिसङ्क्रामयद्विश्वं नाभ्यावर्तगभीरया ॥ १८॥ श्यामश्रोण्याधिरोचिष्णु दुकूलस्वर्णमेखलम् । समचार्वङ्घ्रिजघोरुनिम्नजानुसुदर्शनम् ॥ १९॥ पदा शरत्पद्मपलाशरोचिषा नखद्युभिर्नोऽन्तरधं विधुन्वता । प्रदर्शय स्वीयमपास्तसाध्वसं पदं गुरो मार्गगुरुस्तमोजुषाम् ॥ २०॥ एतद्रूपमनुध्येयमात्मशुद्धिमभीप्सताम् । यद्भक्तियोगोऽभयदः स्वधर्ममनुतिष्ठताम् ॥ २१॥ भवान् भक्तिमता लभ्यो दुर्लभः सर्वदेहिनाम् । स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गतिः ॥ २२॥ तं दुराराध्यमाराध्यं सतामपि दुरापया । एकान्तभक्त्या को वाञ्छेत्पादमूलं विना बहिः ॥ २३॥ यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते । विश्वं विध्वंसयन् वीर्यशौर्यविस्फूर्जितभ्रुवा ॥ २४॥ क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ २५॥ अथानधाङ्घ्रेस्तव कीर्तितीर्थयोरतर्बहिःस्नानविधूपतपाप्मनाम् । भूतेष्वनुक्रोशसुसत्त्वशालिनां स्यात्सङ्गमोऽनुग्रह एष नस्तव ॥ २६॥ न यस्य चित्तं बहिरर्थविभ्रमं तमोगुहायां च विशुद्धमाविशत् । यद्भक्तियोगानुगृहीतमजसा मुनिर्विचष्टे ननु तत्र ते गतिम् ॥ २७॥ यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् । तत्त्वं ब्रह्म परं ज्योतिराकाशमिव विस्तृतम् ॥ २८॥ यो माययेदं पुरुरूपयाऽसृजद्बिभर्ति भूयः क्षपयत्यविक्रियः । यद्भेदबुद्धिः स दिवात्मदुःस्थया तमात्मतन्त्रं भगवन् प्रतीमहि ॥ २९॥ क्रियाकलापैरिदमेव योगिनः श्रद्धान्विताः साधु जयन्ति सिद्धये । भूतेन्द्रियातःकरणोपलक्षितं वेदे च तन्त्रे च त एव कोविदाः ॥ ३०॥ त्वमेक आद्यः पुरुषः सुप्तशक्तिस्तया रजःसत्त्वतमो विभिद्यते । महानहं खं मरुदग्निवार्धराः सुरर्षयो भूतगणा इदं यतः ॥ ३१॥ सृष्टं स्वशक्त्येदमनुप्रविष्टश्चतुर्विधं पुरमात्मांशकेन । अथो विदुस्तं पुरुषं सन्तमन्तर्भुक्ते हृषीकैर्मधु सारघं यः ॥ ३२॥ स एष लोकानतिचण्डवेगो विकर्षसि त्वं खलु कालयानः । भूतानि भूतैरनुमेयतत्त्वो घनावलीवायुरिवाविषह्यः ॥ ३३॥ प्रमत्तमुच्चैरितिकृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम् । त्वमप्रमत्तः सहसाभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तकः ॥ ३४॥ कस्त्वत्पदाब्जं विजहाति पण्डितो यस्तेऽवमानव्ययमानकेतनः । विशङ्कयास्मद्गुरुरर्चति स्म यद्विनोपपत्तिं मनवश्चतुर्दश ॥ ३५॥ अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम् । विश्वं रुद्रभयध्वस्तमकुतश्चिद्भया गतिः ॥ ३६,॥ इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः । स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशयाः ॥ ३७॥ तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् । पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥ ३८॥ इदमाह पुरास्माकं भगवान् विश्वसृक्पतिः । भृग्वादीनामात्मजानां सिसृक्षुः संसिसृक्षताम् ॥ ३९॥ ते वयं नोदिताः सर्वे प्रजासर्गे प्रजेश्वराः । अनेन ध्वस्ततमसः सिसृक्ष्मो विधिधाः प्रजाः ॥ ४०॥ य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम् । अधीयानो दुराराध्यं हरिमाराधयत्यसौ ॥ ४१॥ विन्दते पुरुषोऽमुष्माद्यद्यदिच्छत्यसत्वरम् । मद्गीतगीतात्सुप्रीताच्छ्रेयसामेकवल्लभात् ॥ ४२॥ इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धान्वितः । श‍ृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्मबन्धनैः ॥ ४३॥ इति शिवकृतं भगवत्स्तोत्रं सम्पूर्णम् ॥