अक्षर आकार:

भगवत्स्तोत्रं वासुकिकृत

bhagavatstotramvAsukinIlamate

भगवत्स्तोत्रं वासुकिकृत

भक्ष्यमाणेषु नागेषु गरुडेन महात्मना । वासुकिः शरणं प्रायाद्देवदेवं जनार्दनम् ॥ १॥ वासुकिरुवाच । नमोऽस्तु ते देववराप्रमेय नमोऽस्तु ते शार्ङ्गगदासिपाणे । नमोऽस्तु ते दानवनाशनाय नमोऽस्तु ते पद्मजसंस्तुताय ॥ २॥ नमोऽस्तु ते लोकहिते रताय नमोऽस्तु ते वासवनन्दनाय । नमोऽस्तु ते भक्तवरप्रदाय नमोऽस्तु ते सत्पथदर्शनाय ॥ ३॥ उन्निद्रनीलनलिनद्युतिचारुवर्णं सन्तप्तहाटकनिभे वसने वसानम् । सद्रत्नचुम्बितकिरीटविराजमानं दामोदरं सुरगुरुं प्रणतोऽस्मि नित्यम् ॥ ४॥ क्षीरोदकन्यार्पितपादपद्मं हरिं प्रपन्नोऽस्म्यनघं वरेण्यम् । परं पुराणं परमं सनातनं तमादिदेवं प्रणतोऽस्मि भक्त्या ॥ ५॥ फणावलीरत्नसहस्रचित्रे शेषस्य भोगे विमले शयानम् । तमादिदेवं पुरुषं पुराणं नमामि भक्त्या परया रमेशम् ॥ ६॥ भूमेः समुद्धारणबद्धचित्तो दैत्येन्द्रानर्घात विधानदक्षः । लोकस्य सर्वस्य तु चिन्तयानः शुभाशुभं रक्ष ममाऽद्यदेव ॥ ७॥ खगपतिरतिभीमचण्डवेगो मम कुलमाशु विनाशयत्यनन्त । करुमुनिवरसंस्तुताद्यरक्षां पवनबलं विनिवारयस्व तार्क्ष्यम् ॥ ८॥ इति नीलमते वासुकिकृत भगवत्स्तोत्रम् ॥ From Nilamata Purana verses 97-104