अक्षर आकार:

भगवद्ध्यानसोपानम्

bhagavaddhyAnasopAnam

भगवद्ध्यानसोपानम्

श्रीगणेशाय नमः ॥ श्रीमते निगमान्तमहादेशिकाय नमः । श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ अन्तर्ज्योतिः किमपि यमिनामञ्जनं योगदृष्टे- श्चिन्तारत्नं सुलभमिह नः सिद्धिमोक्षानुरूपम् । दीनानाथव्यसनशमनं दैवतं दैवतानां दिव्यं चक्षुः श्रुतिपरिषदां दृश्यते रङ्गमध्ये ॥ १॥ वेदातीतश्रुतिपरिमलं वेधसां मौलिसेव्यं प्रादुर्भूतं कनकसरितः सैकते हंसजुष्टे । लक्ष्मीभूम्योः करसरसिजैलालितं रङ्गभर्तुः पादाम्भोजं प्रतिफलति मे भावनादीर्धिकायाम् ॥ २॥ चित्राकारां कटकरुचिभिश्चारुवृत्तानुपूर्वां काले दूत्यद्रुततरगतिं कान्तिलीलाकलाचीम् । जानुच्छायाद्विगुणसुभगां रङ्गभर्तुर्मदात्मा जङ्घां दृष्ट्वा जननपदवीजाङ्घिकत्वं जहाति ॥ ३॥ कामारामस्थिरकदलिकास्तम्भसम्भावनीयं क्षौमाश्लिष्टं किमपि कमलाभूमिनीलोपधानम् । न्यञ्चत्काञ्चीकिरणरुचिरं निर्विशत्यूरुयुग्मं लावण्यौघद्वयमिव मतिर्मामिका रङ्गयूनः ॥ ४॥ सम्प्रीणाति प्रतिकलमसौ मानसं मे सुजाता गम्भीरत्वात्क्कचन समये गूढनिक्षिप्तविश्वा । नालीकेन स्फुरितरजसा वेधसो निर्मिमाणा रम्यावर्तद्युतिसहचरी रङ्गनाथस्य नाभिः ॥ ५॥ श्रीवत्सेन प्रथितविभवं श्रीपदन्यासधन्यं मध्यं बाह्वोर्मणिवररुचा रञ्जितं रङ्गधाम्नः । सान्द्रच्छायं तरुणतुलसीचित्रया वैजयन्त्या सन्तापं मे शमयति धियश्चद्रिकोदारहारम् ॥ ६॥ एकं लीलोपहितमितरं बाहुमाजानुलम्बं प्राप्ता रङ्गे शयितुरखिलप्रार्थनापारिजातम् । दृप्ता सेयं दृढनियमिता रश्मिभिर्भूषणानां चिन्ताहस्तिन्यनुभवति मे चित्रमालानयन्त्रम् ॥ ७॥ साभिप्रायस्मितविकसितं चारुबिम्बाधरोष्ठं दुःखापायप्रणयिनि जने दूरदत्ताभिमुख्यम् । कान्तं वक्रं कनकतिलकालङ्कृतं रङ्गभर्तुः स्वान्ते गाढं विलगति मम स्वागतोदारनेत्रम् ॥ ८॥ माल्यैरन्तःस्थिरपरिमलैर्वल्लभास्पर्शमान्यैः कुप्यच्चोलीवचनकुटिलै कुन्तलैः श्लिष्टमूले । रत्नापीडद्युतिशबलिते रङ्गभर्तुः किरीटे राजन्वत्यः स्थितिमधिगता वृत्तयश्चेतसो मे ॥ ९॥ पादाम्भोजं स्पृशति भजते रङ्गनाथस्य जङ्घा- मूरुद्वन्द्वे विलगति शनैरूर्ध्वमभ्येति नाभिम् । वक्षस्यास्ते वलति भुजयोर्मामिकेयं मनीषा वक्त्राभिख्यां पिबति वहते वासनां मौलिबन्धे ॥ १०॥ कान्तोदाररयैरिह भुजैः कङ्कणज्याकिणाङ्कै- र्लक्ष्मीधाम्नः पृथुलपरिघैर्लक्षिता भीतिहेतिः । अग्रे किञ्चिद्भुजगशयनः स्वात्मनैवात्मनः सन् मध्येरङ्गं मम च हृदये वर्तते सावरोधः ॥ ११॥ रङ्गास्थाने रसिकमहिते रञ्जिताशेषचित्ते विद्वत्सेवाविमलमनसा बेङ्कटेशेन कॢप्तम् । अक्लेशेन प्रणिहितधियामारुरुक्षोरवस्थां भक्तिं गाढां दिशतु भगवद्ध्यानसोपानमेतत् ॥ १२॥ इति श्रीमद्वेङ्कटेशार्यप्रणीतं भगवद्ध्यानसोपानं सम्पूर्णम् ॥