अक्षर आकार:

श्रीभगवद्ध्यानम्

shrIbhagavaddhyAnam

श्रीभगवद्ध्यानम्

श्रीगणेशाय नमः ॥ मङ्गलं भगवान् विष्णुर्भगलं मधुसूदनः । मङ्गलं पुण्डरीकाक्षो मङ्गलं गरुडध्वजः ॥ १॥ सञ्चिन्तयेद्भगवतश्चरणारविन्दं वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् । उत्तुङ्गरक्तविलसन्नखचक्रवालज्योत्स्नाभिराहतमहद्धृदयान्धकारम् ॥ १॥ यच्छौचनिःसृतसरित्प्रवरोदकेन तीर्थेन मूर्ध्न्यभिधुतेन शिवः शिवोऽभूत् । ध्यातुर्मनःशमलशैलनिसृष्टवज्रं ध्यायेच्चिरं भगवतश्चरणारविन्दम् ॥ २॥ ऊरू सुपर्णभुजयोरधिशोभमाना- वोजोनिधीस्वतसिकाकुसुमावभासौ । व्यालम्बिपीतवरदाससिवर्तमान- काञ्चीकलापपरिरम्भिनितम्बमम्ब ॥ ३॥ नाभिह्रदं भुवनकोशगुहोदरस्थं यत्रात्मयोनिधिषणाखिललोकपद्मम् । व्यूढं हरिन्मणिमुषस्तनयोरमुष्य ध्यायेद्द्वयं विततहारमयूखगौरम् ॥ ४॥ वक्षोऽधिवासमृषभस्य महाविभूतेः पुंसां मनोनयननिर्वृतिमादधानम् । कण्ठं च कौस्तुभमणेरधिभूषणार्थं कुर्यान्मनस्यखिललोकनमस्कृतस्य ॥ ५॥ बाहूंश्च मन्दरगिरेः परिवर्तनेन निर्णिक्तबाहुवलयानधिलोकपालान् । सञ्चिन्तयेद्दशशतारमसह्यतेजः शङ्खं च तत्करसरोरुहराजहंसम् ॥ ६॥ कौमोदकीं भगवतो दयितां स्मरेत दिग्धामरातिभटशोणितकर्दमेन । मालां मधुव्रतवरूथगिरोपघुष्टां चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ ७॥ भृत्यानुकम्पितधियेह गृहीतमूर्तेः सञ्चिन्तयेद्भगवतो वदनारविन्दम् । यद्विस्फुरन्मकरकुण्डलवल्गितेन विद्योतितामलकपोलमुदारहासम् ॥ ८॥ यच्छ्रीनिकेतमलिभिः परिसेव्यमानं भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् । मीनद्वयश्रियमधिक्षिपदब्जनेत्रं ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रूः ॥ ९॥ तस्यावलोकमधिकं कृपयातिघोर- तापत्रयोपशमनाय निसृष्टमक्ष्णोः । स्निग्धस्मितानुगुणितं विपुलप्रसादं ध्यायेच्चिरं विततभावनया गुहायाम् ॥ १०॥ हासं हरेरवनताखिललोकतीव्र- शोकाश्रुसागरविशोषणमत्युदारम् । सम्मोहनाय रचितं निजमाययास्य भूमण्डलं मनुसुते मकरध्वजस्य ॥ ११॥ ध्यानायनं रहसि तद्बहुलाधरोष्ठ- भासारुणायिततनुद्विजकुन्दपङ्क्तिम् । ध्यायेत्स्वहृत्कुहरके वसितस्य विष्णो- र्भक्त्याऽऽर्द्रयार्पितमना न पृथग्दिदृक्षेत् ॥ १२॥ इति श्रीभगवद्ध्यानं सम्पूर्णम् ।