अक्षर आकार:

श्रीभूसूक्तम्

shrIbhUsUktam

श्रीभूसूक्तम्

मेदिनीदेवी वसुन्धरा स्याद्वसुधादेवि वासवी । ब्रह्मवर्चसः पितृणां श्रोत्रं चक्षुर्मनः । देवी हिरण्यगर्भिणी, देवी प्रसोवरी । सदने सत्यायने सीद । समुद्रवती सावित्रीह नो देवी मह्यङ्गी । महीधरणी महोव्यथिष्ठा-श्श‍ृङ्गे श‍ृङ्गे यज्ञे यज्ञे विभीषणी । इन्द्रपत्नी व्यापिनी सुरसरिदिह । वायुमती जलशयनी श्रियन्धाराजा सत्यन्तोपरिमेदिनी । श्वोपरिधत्तं परिगाया ॥ विष्णुपत्नीं महीं देवीं माधवीं माधवप्रियाम् । लक्ष्मीप्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥ ॐ धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि । तन्नो धरा प्रचोदयात् । महीं देवीं विष्णुपत्नीमजुर्याम् । प्रतीचीं मेनाग्ं हविषा यजामः । त्रेधा विष्णुरुरुगायो विचक्रमे । मबीं दिवं पृथिवीमन्तरिक्षम् । तचछ्रोणैतिश्रव-इचछमाना । पुण्यग्ग्श्लोकं यजमानाय कृण्वती ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इक्षुशालि यवसस्य फलाढ्यै, पारिजाततरुशोभितमूले । स्वर्णरत्नमणिमण्डपमध्ये, चिन्तयेत्सकललोकधरित्रीम् ॥ श्यामां विचित्रांशुकरत्नभूषितां चतुर्भुजां तुङ्गपयोधरान्विताम् । इन्दीवराक्षीन्नवशालिमञ्जरीं सुखं दधानां शरणं भजाम्यहम् ॥ विष्णुशक्तिसमाभूते शङ्खवर्णस्तु मेदिनी ॥ अनेकरत्न सञ्छन्ने भूमिदेवि नमोऽस्तु ते ॥ इति भूसूक्तं सम्पूर्णम् ।