अक्षर आकार:

बवर्णादि श्रीबुद्धाष्टोत्तरशतनामस्तोत्रम्

bavarNAdi shrI buddhAShTottarashatanAmastotram

बवर्णादि श्रीबुद्धाष्टोत्तरशतनामस्तोत्रम्

श्री हयग्रीवाय नमः । हरिः ॐ बुद्धो बुधजनानन्दी बुद्धिमान् बुद्धिचोदनः । बुद्धप्रियो बुद्धषट्को बोधिताद्वैतसंहितः ॥ १॥ बुद्धिदूरो बोधरूपो बुद्धसर्वो बुधान्तरः । बुद्धिकृत्बुद्धिविद्बुद्धिर्बुद्धिभिद्बुद्धिसत्बुधः ॥ २॥ बुद्ध्यालयो बुद्धिलयो बुद्धिगम्यो बुधेश्वरः । बुद्ध्यकामो बुद्धवपुर्बुद्धिभोक्ता बुधावनः ॥ ३॥ बुद्धिप्रतिगतानन्दो बुद्धिमुद्बुद्धिभासकः । बुद्धिप्रियो बुद्ध्यवश्यो बुद्धिशोधी बुधाशयः ॥ ४॥ बुद्धीश्वरो बुद्धिसखो बुद्धिदो बुद्धिबान्धवः । बुद्धिनिर्मितभूतौघो बुद्धिसाक्षी बुधोत्तमः ॥ ५॥ बहुरूपो बहुगुणो बहुमायो बहुक्रियः । बहुभोगो बहुमतो बहुनामा बहुप्रदः ॥ ६॥ बुधेतरवराचार्यो बहुभद्रो बहुप्रधः । बृन्दारकावनो ब्रह्म ब्रह्मदूषणकैतवः ॥ ७॥ बह्वैश्वर्यो बहुबलो बहुवीर्यो बहुप्रभः । बहुवैराग्यभरितो बहुश्री बहुधर्मवित् ॥ ८॥ बहुलोकजयी बन्धमोचको बाधितस्मरः । बृहस्पतिगुरुर्ब्रह्मस्तुतो ब्रह्मादिनायकः ॥ ९॥ ब्रह्माण्डनायको ब्रध्नभास्वरो ब्रह्मतत्परः । बलभद्रसखो बद्धसुभद्रो बहुजीवनः ॥ १०॥ बहुभुग्बहिरन्तस्थो बहिरिन्द्रियदुर्गमः । बलाहकाभो बाधाच्छिद्बिसपुष्पाभलोचनः ॥ ११॥ बृहद्वक्षा बृहत्क्रीडो बृहद्रामो बृहत्प्रियः । बृहत्तृप्तो ब्रह्मरथो ब्रह्मविद्ब्रह्मपारकृत् ॥ १२॥ बाधितद्वैतविषयो बहुवर्णविभागहृत् । बृहज्जगद्भेददूषी बह्वाश्चर्यरसोदधिः ॥ १३॥ बृहत्क्षमो बहुकृपो बहुशीलो बलिप्रियः । बाधिताशिष्टनिकरो बाधातीतो बहूदयः ॥ १४॥ बाधितान्तश्शत्रुजालो बद्धचित्तहयोत्तमः । बहुधर्मप्रवचनो बहुमन्तव्यभाषितः ॥ १५॥ बर्हिर्मुखशरण्यं ब्रह्मण्यो ब्राह्मणप्रियः । ब्रह्मस्तुतो ब्रह्मबन्धुर्ब्रह्मसूर्ब्रह्मशोऽवतु ॥ १६॥ ॥ इति बकारादि श्री बुद्धावताराष्टोत्तरशतनामावलिः रियं पराभव श्रावणबहुल द्वितीयायां रामेण लिखिता समर्पिता च श्री हयग्रीवायदेवाय विजयतान्तराम् ॥ Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu