अक्षर आकार:

बवर्णादि श्रीबुद्धाष्टोत्तरशतनामावलिः

bavarNAdi shrI buddhAShTottarashatanAmAvaliH

बवर्णादि श्रीबुद्धाष्टोत्तरशतनामावलिः

श्री हयग्रीवाय नमः । हरिः ॐ ॐ बुद्धाय नमः । ॐ बुधजनानन्दिने नमः । ॐ बुद्धिमते नमः । ॐ बुद्धिचोदनाय नमः । ॐ बुद्धप्रियाय नमः । ॐ बुद्धषट्काय नमः । ॐ बोधिताद्वैतसंहिताय नमः । ॐ बुद्धिदूराय नमः । ॐ बोधरूपाय नमः । ॐ बुद्धसर्वाय नमः । १० ॐ बुधान्तराय नमः । ॐ बुद्धिकृते नमः । ॐ बुद्धिविदे नमः । ॐ बुद्धये नमः । ॐ बुद्धिभिदे नमः । ॐ बुद्धिपते नमः । ॐ बुधाय नमः । ॐ बुद्ध्यालयाय नमः । ॐ बुद्धिलयाय नमः । ॐ बुद्धिगम्याय नमः । २० ॐ बुधेश्वराय नमः । ॐ बुद्ध्यकामाय नमः । ॐ बुद्धवपुषे नमः । ॐ बुद्धिभोक्त्रे नमः । ॐ बुधावनाय नमः । ॐ बुद्धिप्रतिगतानन्दाय नमः । ॐ बुद्धिमुषे नमः । ॐ बुद्धिभासकाय नमः । ॐ बुद्धिप्रियाय नमः । ॐ बुद्ध्यवश्याय नमः । ३० ॐ बुद्धिशोधिने नमः । ॐ बुधाशयाय नमः । ॐ बुद्धीश्वराय नमः । ॐ बुद्धिसखाय नमः । ॐ बुद्धिदाय नमः । ॐ बुद्धिबान्धवाय नमः । ॐ बुद्धिनिर्मितभूतौघाय नमः । ॐ बुद्धिसाक्षिणे नमः । ॐ बुधोत्तमाय नमः । ॐ बहुरूपाय नमः । ४० ॐ बहुगुणाय नमः । ॐ बहुमायाय नमः । ॐ बहुक्रियाय नमः । ॐ बहुभोगाय नमः । ॐ बहुमताय नमः । ॐ बहुनाम्ने नमः । ॐ बहुप्रदाय नमः । ॐ बुधेतरवराचार्याय नमः । ॐ बहुभद्राय नमः । ॐ बहुप्रधाय नमः । ५० ॐ बृन्दारकावनाय नमः । ॐ ब्रह्मणे नमः । ॐ ब्रह्मदूषणकैतवाय नमः । ॐ ब्रह्मैश्वर्याय नमः । ॐ बहुबलाय नमः । ॐ बहुवीर्याय नमः । ॐ बहुप्रभाय नमः । ॐ बहुवैराग्यभरिताय नमः । ॐ बहुश्रिये नमः । ॐ बहुधर्मविदे नमः । ६० ॐ बहुलोकजयिने नमः । ॐ बन्धमोचकाय नमः । ॐ बाधितस्मराय नमः । ॐ बृहस्पतिगुरवे नमः । ॐ ब्रह्मस्तुताय नमः । ॐ ब्रह्मादिनायकाय नमः । ॐ ब्रह्माण्डनायकाय नमः । ॐ ब्रध्नभास्वराय नमः । ॐ ब्रह्मतत्पराय नमः । ॐ बलभद्रसखाय नमः । ७० ॐ बद्धसुभद्राय नमः । ॐ बहुजीवनाय नमः । ॐ बहुभुजे नमः । ॐ बहिरन्तस्थाय नमः । ॐ बहिरिन्द्रियदुर्गमाय नमः । ॐ बलाहकाभाय नमः । ॐ बाधाच्छिदे नमः । ॐ बिसपुष्पाभलोचनाय नमः । ॐ बृहद्वक्षसे नमः । ॐ बृहत्क्रीडाय नमः । ८० ॐ बृहद्रुमाय नमः । ॐ बृहत्प्रियाय नमः । ॐ बृहत्तृप्ताय नमः । ॐ ब्रह्मरथाय नमः । ॐ ब्रह्मविदे नमः । ॐ ब्रह्मपारकृते नमः । ॐ बाधितद्वैतविषयाय नमः । ॐ बहुवर्णविभागहृते नमः । ॐ बृहज्जगद्भेददूषिणे नमः । ॐ बह्वाश्चर्यरसोदधये नमः । ९० ॐ बृहत्क्षमाय नमः । ॐ बहुकृपाय नमः । ॐ बहुशीलाय नमः । ॐ बलिप्रियाय नमः । ॐ बाधिताशिष्टनिकराय नमः । ॐ बाधातीताय नमः । ॐ बहूदयाय नमः । ॐ बाधितान्तश्शत्रुजालाय नमः । ॐ बद्धचित्तहयोत्तमाय नमः । ॐ बहुधर्मप्रवचनाय नमः । १०० ॐ बहुमन्तव्यभाषिताय नमः । ॐ बर्हिर्मुखशरण्याय नमः । ॐ ब्रह्मण्याय नमः । ॐ ब्राह्मणप्रियाय नमः । ॐ ब्रह्मस्तुताय नमः । ॐ ब्रह्मबन्धवे नमः । ॐ ब्रह्मसुवे नमः । ॐ ब्रह्मशाय नमः । १०८ ॥ इति बकारादि श्री बुद्धावताराष्टोत्तरशतनामावलि रियं रामेण रचिता पराभव श्रावणबहुल द्वितीयायां समर्पिता च श्री हयग्रीवायदेवाय ॥ Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu