अक्षर आकार:

श्रीबद्रीनाथाष्टकम्

shrIbadrInAthAShTakam

श्रीबद्रीनाथाष्टकम्

भू-वैकुण्ठकृतावासं देवदेवं जगत्पतिम् । चतुर्वर्गप्रदातारं श्रीबद्रीशं नमाम्यहम् ॥ १॥ तापत्रयहरं साक्षाच्छान्तिपुष्टिबलप्रदम् । परमानन्ददातारं श्रीबद्रीशं नमाम्यहम् ॥ २॥ सद्यः पापक्षयकरं सद्यः कैवल्यदायकम् । लोकत्रयविधातारं श्रीबद्रीशं नमाम्यहम् ॥ ३॥ भक्तवाञ्छाकल्पतरुं करुणारसविग्रहम् । भवाब्धिपारकर्तारं श्रीबद्रीशं नमाम्यहम् ॥ ४॥ सर्वदेवनुतं शश्वत् सर्वतीर्थपदं विभुम् । लीलयोपात्तवपुषं श्रीबद्रीशं नमाम्यहम् ॥ ५॥ अनादिनिधनं कालकालं भीमयमच्युतम् । सर्वाश्चर्यमयं देवं श्रीबद्रीशं नमाम्यहम् ॥ ६॥ गन्धमादनकूटस्थं नरनारायणात्मकम् । बदरीखण्डमध्यस्थं श्रीबद्रीशं नमाम्यहम् ॥ ७॥ शत्रूदासीनमित्राणां सर्वज्ञं समदर्शिनम् । ब्रह्मानन्दचिदाभासं श्रीबद्रीशं नमाम्यहम् ॥ ८॥ श्रीबद्रीशाष्टकमिदं यः पठेत्प्रयतः शुचिः । सर्वपापविनिमुक्तः स शान्तिं लभते पराम् ॥ ९॥ इति श्रीबद्रीनाथाष्टकं सम्पूर्णम् ॥