अक्षर आकार:

श्रीकृष्णस्तोत्रं बालकृतम् अथवा दावानल संहरण स्तोत्रम्

bAlakRitaM kRiShNastotram OR dAvAnala saMharaNa stotram

श्रीकृष्णस्तोत्रं बालकृतम् अथवा दावानल संहरण स्तोत्रम्

बाला ऊचुः - यथा सुरक्षित ब्रह्मन् सर्वापत्स्वेव नः कुलम् । तथा रक्षां कुरु पुनर्दावाग्नेर्मधुसूदन ॥ १॥ त्वमिष्टदेवताऽस्माकं त्वमेव कुलदेवता । स्रष्टा पाता च संहर्ता जगतां च जगत्पते ॥ २॥ वह्निर्वा वरूणो वाऽपि चन्द्रो वा सूर्य एव च । नमः कुबेरः पवन ईशानाद्याश्च देवता ॥ ३॥ ब्रह्मेश-शेष-धर्मेन्द्रा मुनीन्द्रा मनवः स्मृताः । मानवाश्च तथा दैत्या यक्ष-राक्षस-किन्नराः ॥ ४॥ ये ये चराऽचराश्चैव सर्वे तव विभूतयः । आविर्भावस्तिरोभावः सर्वेषां च तवेच्छया ॥ ५॥ अभयं देहि गोविंद वह्निसंहरणं कुरु । वयं त्वां शरणं यामो रक्ष नः शरणागतान् ॥ ६॥ इत्येवमुक्त्वा ते सर्वे तस्थुर्ध्यात्वा पदाम्बुजम् । दूरीभूतस्तु दावाग्निः श्रीकृष्णामृतदृष्टितः ॥ ७॥ दूरीभूते च दावाग्नौ ननृतुस्ते मुदान्विताः । सर्वापदः प्रणश्यन्ति हरिस्मरणमात्रतः ॥ ८॥ इदं स्तोत्रं महापुण्यं प्रातरूत्थाय यः पठेत् । वह्नितो न भवेत्तस्य भयं जन्मनि जन्मनि ॥ ९॥ शत्रुग्रस्ते च दावाग्नौ विपत्तौ प्राणसंकटे । स्तोत्रमेतत् पठित्वा तु मुच्यते नाऽत्र संशयः ॥ १०॥ शत्रुसैन्यं क्षयं याति सर्वत्र विजयी भवेत् । इह लोके हरेर्भक्तिमन्ते दास्यं लभेध्रुवम् ॥ ११॥ ॥ इति श्रीब्रह्मवैवर्ते श्रीकृष्णजन्मखण्डे बालकृतं कृष्णस्तोत्रं अथवा दावानल संहरण स्तोत्रम् सम्पूर्णम् ॥