अक्षर आकार:

श्रीबालकृष्णप्रार्थनाष्टकम्

shrIbAlakRRiShNaprArthanAShTakam

श्रीबालकृष्णप्रार्थनाष्टकम्

श्रीमद्यशोदाङ्कविहारदक्षे तत्स्तन्यसक्ते निजभक्तरक्ते । गोवर्धनप्रीतिकरे परेऽस्मिन् श्रीबालकृष्णे रतिरस्तु नित्यम् ॥ १॥ श्रीनन्दराजाङ्गणरन्तरश्मि- ?? किर्मीरिताङ्गद्युतिरम्यरम्ये । ?? तत्रानिशं क्रीडनतत्परेऽस्मिन् श्रीबालकृष्णे रतिरस्तु नित्यम् ॥ २॥ मुखामृतं प्राश्य पदामृतं किं वाञ्छन्ति निश्चेतुमतीव भक्ताः । आस्ये पदाङ्गुष्ठधरे ममास्मिन् श्रीबालकृष्णे रतिरस्तु नित्यम् ॥ ३॥ नानामणिव्रातविभूषणानां चापल्यतो मञ्चुलसिञ्जितैस्तैः । स्थिताञ्जितास्ये कृतमुग्धलास्ये श्रीबालकृष्णे रतिरस्तु नित्यम् ॥ ४॥ घोषेषु गोपङ्कयुतेषु गत्या प्रत्यङ्गमालिन्यविशेषहृद्ये । बाल्यात्कलालापमनोहरेऽस्मिन् श्रीबालकृष्णे रतिरस्तु नित्यम् ॥ ५॥ स्निग्धामलाकुञ्चितकुन्तलस्पृग्- वक्त्रेण भङ्गावृतपद्मशोभाम् । जहन्ति तस्मिन् मम नन्दसूनौ श्रीबालकृष्णे रतिस्तु नित्यम् ॥ ६॥ दन्तद्वयेनार्जितकुन्दकोशे द्वन्द्वोत्थशोभे नवनीरदाभे । हैयङ्गवीनाङ्कलितैकहस्ते श्रीबालकृष्णे रतिरस्तु नित्यम् ॥ ७॥ हस्तेन नेत्रादपसारितेन स्निग्धाञ्जनेनाक्तकपालदेशे । व्रजाङ्गनास्नेहसुधासुपात्रे श्रीबालकृष्णे रतिरस्तु नित्यम् ॥ ८॥ इति श्रीबालकृष्णस्य वर्णनप्रार्थनाष्टकम् । वर्णितं जीवनाख्येन गोकुलोत्सवसूनुना ॥ इति श्रीवल्लभचरणैकतान श्रीमद्गोकुलोत्सवतनूद्भव- श्रीजीवनेशविरचितं श्रीबालकृष्णशरणाष्टकं सम्पूर्णम् ।