अक्षर आकार:

श्रीबालकृष्णाष्टकम् २

Shri Balakrishnashtakam 2

श्रीबालकृष्णाष्टकम् २

श्रीकृष्णदासकृतं श्रीमन्नन्दयशोदाहृदयस्थितभावतत्परो भगवान् । पुत्रीकृतनिजरूपः स जयति पुरतः कृपालुर्बालकृष्णः ॥ १॥ कथमपि रिङ्गणमकरोदङ्गणगतजानुघर्षणोद्युक्तः । कटितटकिङ्किणिजालस्वनशङ्कितमानसः सदा ह्यास्ते ॥ २॥ विकसितपङ्कजनयनः प्रकटितहर्षः सदैव धूसराङ्गः । परिगच्छति कटिभङ्गप्रसरीकृतपाणियुग्माभ्याम् ॥ ३॥ उपलक्षितदधिभाण्डः स्फुरितब्रह्माण्डविग्रहो भुङ्क्ते । मुष्टीकृतनवनीतः परमपुनीतो मुग्धभावात्मा ॥ ४॥ नम्रीकृतविधुवदनः प्रकटीकृतचौर्यगोपनायासः । स्वाम्बोत्सङ्गविलासः क्षुधितः सम्प्रति दृश्यते स्तनार्थी ॥ ५॥ सिंहनखाकृतिभूषणभूषितहृदयः सुशोभते नित्यम् । कुण्डलमण्डितगण्डः साञ्जननयनो निरञ्जनः शेते ॥ ६॥ कार्यासक्तयशोदागृहकर्मावरोधकः सदाऽऽस्ते । तस्याः स्वान्तनिविष्टप्रणयप्रभाजनो यतोऽयम् ॥ ७॥ इत्थं व्रजपतितरुणी नमनीयं ब्रह्मरुद्राद्यैः । कमनीयं निजसूनुं लालयति स्म प्रत्यहं प्रीत्या ॥ ८॥ श्रीमद्वल्लभकृपया विशदीकृतमेतदष्टकं पठेद्यः । तस्य दयानिधिकृष्णे भक्तिः प्रेमैकलक्षणा शीघ्रम् ॥ ९॥ इति श्रीकृष्णदासकृतं बालकृष्णाष्टकं सम्पूर्णम् ।