अक्षर आकार:

श्रीबालकृष्णाष्टकम्

shrIbAlakRRiShNAShTakam

श्रीबालकृष्णाष्टकम्

यत्कृपादृष्टिसद्वृष्टिसिक्ता भक्ता निरन्तरम् । भवन्ति सुखिनः स्निग्धास्तं श्रीबालहरिं भजे ॥ १॥ प्रतिपक्षक्षयात्क्षोण्यामङ्क्षु जातं महद्यशः । यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ २॥ स्वीयविश्लेषजक्लेशो नष्टः पुष्टः सुखोदितः । यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ३॥ सुस्थिरं सुदृढं पूर्णं प्रियं प्राप्येत सत्वरम् । यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ४॥ सुसम्पदा सत्कलया सद्विद्यावृद्धिगामिनी । यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ५॥ अनन्याऽहैतुकी पूर्णा स भक्तिः सुदृढा भवेत् । यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ६॥ इयत्तारहितो नित्य आनन्दः प्राप्यतेऽनिशम् । यत्कृपालेशमात्रेण तं श्रीबालहरि भजे ॥ ७॥ श्रीवल्लभेशपादाब्जे रतिः स्याद्विमला परा । यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ८॥ अष्टकं श्रीबालहरेरिदं मङ्गलकृत्प्रियम् । पठेद्वा श‍ृणुयाद्भक्त्या फलं विन्देत्स वाञ्छितम् ॥ ९॥ इति श्रीमद्वल्लभाचार्यचरणैकतान- श्रीमद्गोकुलोत्सवात्मजश्रीजीवनेशजीविरचितं श्रीबालकृष्णाष्टकं समाप्तम् ।