अक्षर आकार:

अतिमानुषस्तवः

Atimanushastavah

अतिमानुषस्तवः

पञ्चस्तव्यां २ अतिमानुषस्तवः श्रीरस्तु । श्रीमते हयग्रीवायनमः । श्रीमते रामानुजाय नमः ॥ श्रीवत्सचिह्नमिश्रेभ्यो नमौक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ अतिमानुषशीलवृत्तवेषैरतिवृत्तामरविक्रमप्रतापैः । अतिलङ्घितसर्वलोकसाम्यं वरये वैष्णववैभवावतारम् ॥ १॥ श्रेयः किरन्तु किरणाश्चरणारविन्द- निष्यन्दमानमकरन्दरसौघदेश्याः । तज्जाः श्रुतेर्मधुन उत्स इति प्रतीता- माङ्गल्यरङ्गनिलयस्य परस्य धाम्नः ॥ २॥ श्रीमत्पराङ्कुशमुनीन्द्रमनोनिवासा- त्तज्जानुरागरसमज्जनमञ्जसाऽऽप्य । अद्याप्यनारततदुत्थितरागयोगं श्रीरङ्गराजचरणाम्बुजमुन्नयामः ॥ ३॥ वज्रध्वजाङ्कुशसुधाकलशातपत्र- पङ्केरुहाङ्कपरिकर्मपरीतमन्तः । आपादपङ्कजविश‍ृङ्खलदीप्रमौले- श्श्रीरङ्गिणश्चरणयोर्युगमाश्रयामः ॥ ४॥ श्रीरङ्गराजचरणौ प्रणुमो ययोः ख- ल्वेकस्त्रिविक्रमविधौ वसुधामशेषाम् । व्यक्रंस्त साचलकुलामपि विप्रकीर्ण- स्थूलावलग्नसिकतामिव निर्णतोच्चम् ॥ ५॥ ज्ञानं बलं विपुलमीशनवीर्यशक्ति- तेजांसि च त्रियुगभूयमुपागतानि । पूर्णानि षट् च परिगृह्य भवंश्चतुर्धा भक्तं जनं त्वमनुजग्रहिथानुरागात् ॥ ६॥ एकान्तमङ्गलगुणास्पदमस्तहेयं नित्यं पदं तव यतस्तत एव देव! । आम्नायते तदिह विश्वविरूपरूपं तेनैव नन्विदमशब्दमरूपमाहुः ॥ ७॥ शब्दादिहेय इह गोचर इन्द्रियाणां तत्प्रत्यनीकविभवस्त्वमतीन्द्रियोऽसि । तेनैव ते न बत दर्शनमस्ति किञ्चि- द्वाचो धियश्च तत एव न गोचरोऽसि ॥ ८॥ एवं स्थिते त्वदुपसंश्रयणाभ्युपायो मानेन केनचिदलप्स्यत नोपलब्धुम् । नो चेदमर्त्यमनुजादिषु योनिषु त्व- मिच्छाविहारविधिना समवातरिष्यः ॥ ९॥ शीलः क एष तव हन्त दयैकसिन्धो! क्षुद्रे पृथग्जनपदे जगदण्डमध्ये । क्षोदीयसोऽपि हि जनस्य कृते कृती त्व- मत्रावतीर्य ननु लोचनगोचरोऽभूः ॥ १०॥ यं पातकात्सुमहतोऽप्युदधारयस्त्वं त्वत्पादवारिपरिपूतशिराश्च योऽभूत् । तं वन्दसे किल ततश्च वरं वृणीषे क्रीडाविधिर्बत! विलक्षणलक्षणस्ते ॥ ११॥ क्रीडाविधेः परिकरस्तव या तु माया सा मोहनी न कतमस्य तु हन्त! जन्तोः । है मर्त्यसिंहवपुषस्तव तेजसोंऽशे शम्भुर्भवन् हि शरभश्शलभो बभूव ॥ १२॥ यस्यात्मतां त्रिपुरभङ्गविधावधास्त्वं त्वच्छक्तितेजितशरो विजयी च योऽभूत् । दक्षक्रतौ तु किल तेन विनिर्जितस्त्वं युक्तो विधेयविषयेषु हि कामचारः ॥ १३॥ मुग्धश्शिशुर्वटदले शयितोऽतितन्वा तन्वा जगन्ति बिभृषे सविकासमेव । ऐशीमिमां तु तव शक्तिमतर्कितव्या- मव्याजतः प्रथयसे किमिहावतीर्णः ॥ १४॥ ब्रह्मेशमध्यगणना गणनाऽर्कपङ्क्तौ इन्द्रानुजत्वमदितेस्तनयत्वयोगात् । इक्ष्वाकुवंशयदुवंशजनिश्च हन्त श्लाघ्यान्यमून्यनुपमस्य परस्य धाम्नः ॥ १५॥ त्वन्निर्मिता जठरगा च तव त्रिलोकी किं भिक्षणादियमृते भवता दुरापा । मध्ये कदा तु न विचक्रमिषे जगच्चेत् त्वद्विक्रमैः कथमिव श्रुतिरञ्चिता स्यात् ॥ १६॥ पृच्छामि किञ्चन यदा किल राघवत्वे मायामृगस्य वशगो मनुजत्वमौग्ध्यात् । सीतावियोगविवशो न च तद्गतिज्ञः प्रादास्तदा परगतिं हि कथं स्वगाय ॥ १७॥ अक्षुण्णयोगपथमग्र्यहतं जटायुं तिर्यञ्चमेव बत! मोक्षपथे नियोक्तुम् । शक्नोषि वेत्सि च यदा स तदा कथं त्वं देवीमवाप्तुमनलं व्यथितो विचिन्वन् ॥ १८॥ सालान् हि सप्त सगिरीन्सरसातलान्या- नेकेषुमन्दजवतो निरपत्रयस्त्वम् । तेष्वेकविव्यथनखिन्नकपिप्रणुन्नं शाखामृगं मृमयसे स्म कथं सहायम् ॥ १९॥ दासस्सखा समभवत्तव यः कपीन्द्र- स्तद्विद्विषं कपिममर्षवशाज्जिघांसुः । त्वत्स्नेहविक्लबधियं तमिमं कपीन्द्रं विस्रम्भयन् सपदि सालगिरीनविध्यः ॥ २०॥ यद्वा मृगं मृगयुवन्मृगयापथेन च्छन्नो जघन्थ न तु शत्रुवधाभिमुख्यात् । तद्युक्तमेव तव राघव वंशजस्य तिर्यक्षु नैव हि विपक्षतयोपचारः ॥ २१॥ मानुष्यकं चरितमाचरितुं प्रवृत्तो देवातिगं चरितमङ्ग! किमङ्ग्यकार्षीः । यत्सागरे बत बबन्धिथ नाथ! सेतुं शैलैःप्लवङ्गमसमिङ्गितसंप्रणुन्नैः ॥ २२॥ यो विक्रमेण मनुजत्वविभूषणेन देवं वरं वरुणराजमज! व्यजेष्ठाः । कृत्वोपदां दशरथं विधिरुद्रमुख्यै- र्देवैस्स्तुतश्च स किलेन्द्रजिता जितोऽसि ॥ २३॥ अब्धिं न तेरिथ न जिग्यिथ राक्षसेन्द्रं नैवास्य जज्ञिथ यदा च बलाबलं त्वम् । निस्संशयस्सपदि तस्य पदेऽभ्यषिञ्च- स्तस्यानुजं कथमिदं हि विभीषणं च ॥ २४॥ त्वं दक्षिणस्य निवसन्नुदधेस्तटेऽपि दूरान्तरोत्तरपयोधिमहान्तरीपे । दैत्यान्निजैकशरपारणयून् किमेतां लङ्कां स्थितोऽत्र कुरुषे किल न स्म भस्म ॥ २५॥ एतत्कथं कथय यन्मथितस्त्वयाऽसौ हित्वा स्वभावनियमं प्रथितं त्रिलोक्याम् । अश्वाप्सरोविषसुधाविधुपारिजात- लक्ष्म्यात्मना परिणतो जलधिर्बभूव ॥ २६॥ यत्तादृशागसमरिं रघुवीर! वीक्ष्य विश्रम्यतामिति मुमोचिथ मुग्धमाजौ । कोऽयं गुणः कतरकोटिगतः कियान्वा कस्य स्तुतेः पदमहो बत! कस्य भूमिः ॥ २७॥ यल्लक्ष्मणस्त्वदनुजो रिपुशक्तिमुग्ध- श्शत्रोर्गुरुर्हनुमतस्तु लघुर्बभूव । एतेन वै सुविदितोऽभवदिन्द्रशत्रो- र्मायास्त्रबन्धननिबन्धनजो विमोहः ॥ २८॥ हा हन्त हन्त ! भवतश्चरणारविन्द- द्वन्द्वं कदा नु भविता विषयो ममाक्ष्णोः । योऽहं निरर्गलविनिर्गलदन्धकारै- र्वृक्षैस्तृणैश्च सुलभं समयं व्यतीतः ॥ २९॥ वंशं रघोरनुजिघृक्षुरिहावतीर्णो दिव्यैर्ववर्षिथ तथाऽत्र भवद्गुणौघैः । त्वत्सन्निधिप्रभवशैत्यजुषो यथा हि वृक्षाश्च तान्तिमलभन्त भवद्वियोगे ॥ ३०॥ ये धर्ममाचरितुमभ्यसितुं च योगं बोद्धुं च किञ्चन न जात्वधिकारभाजः । तेऽपि त्वदाचरितभूतलबन्धगन्धा- द्बन्धातिगाः परगतिं गमितास्तृणाद्याः ॥ ३१॥ तादृग्गुणो ननु बभूविथ राघवत्वे यस्तावकं चरितमन्वहमन्वभुङ्क्तः । सोऽत्रैव हन्त हनुमान् परमां विमुक्तिं बुद्ध्याऽवधूय चरितं तव सेवतेऽसौ ॥ ३२॥ यत्त्वं कृतागसमपि प्रणतिप्रसक्तं तं वायसं परमया दययाऽक्षमिष्ठाः । तेनैव मादृशजनस्य महागसोऽपि युक्तं समाश्वसनमित्युपधारयामि ॥ ३३॥ सा पूतना शकटमर्जुनयोश्च युग्मं बाल्योचिताऽन्यपरचेष्टितविस्फुलिङ्गे । यस्यालभन्त शलभत्वमहो निगूढ- स्स त्वं व्रजे ववृधिषे किल कंसभीत्या ॥ ३४॥ पश्यत्सु सूरिषु सदा परमं पदं ते देव्या श्रिया सह वसन्परया विभूत्या । योगेन योगनिरतैः परिमृग्यमाणः किं त्वं व्रजेषु नवनीतमहो ! व्यमुष्णाः ॥ ३५॥ यं दुर्ग्रहं सुमनसो मनसाऽपि नित्यं बन्धच्छिदं परममीशमुदाहरन्ति । दाम्ना निबद्ध इति शुश्रुम तं भवन्तं नालं बभूविथ बत ! श्लथनाय तस्य ॥ ३६॥ ऐशं हि शैशवमपि व्यतिवेलखेलं यत्पूतना शकटमर्जुनयोश्च युग्मम् । बाल्योचितान्यपरसाचिविचेष्टितेन हन्तालभन्त शलभायितमोजसस्ते ॥ ३७॥ सत्येव गव्यनिवहे निजधाम्नि भूम्ना पर्यन्तसद्मसु किमर्थमचूचुरस्त्वम् । मुष्णंश्च किं व्यजघटो घटशेषमग्रे गोपीजनस्य परिहासपदं किमासीः ? ॥ ३८॥ यन्नाम नाथ नवनीतमचूचुरस्त्वं तच्छादनाय यदि ते मतिराविरासीत् । किं मुग्ध ! दिग्धममुना करपल्लवं ते गात्रे प्रमृज्य निरगाः किल निर्विशङ्कः ॥ ३९॥ त्वामन्यगोपगृहगव्यमुषं यशोदा गुर्वी त्वदीयमवमानममृष्यमाणा । प्रेम्णाऽथ दामपरिणामजुषा बबन्ध तादृङ् न ते चरितमार्यजनास्सहन्ते ॥ ४०॥ मात्रा यदि त्वमसि दामनि सन्निबद्ध- स्तच्छ्राविणामुदितचाक्षुषनिर्झराणाम् । बध्नासि हन्त हृदयं भगवन्कुतस्त- त्सर्वो हि वश्यविषये विवृणोति वीर्यम् ॥ ४१॥ कान्तालकान्तममलं कमलायताक्ष- मुद्भ्रूविलासमुदितस्मितमुन्नसं च । वक्त्रं वहन् परम ! गोपगृहेषु किं त्वं गोपीमनांसि नवनीतमुताभ्यमोषीः ॥ ४२॥ सर्वं गुणाय गुणिनामिति सत्यमेत- द्यत्खल्विहेतरजने मलिनत्वहेतुः । यद्गोपवेषविनिषेवणमुत्तमं ते गोपालनं च गणयन्ति गुणं गुणेषु ॥ ४३॥ गोपालपोतकतया निभृतं धरित्रीं आवस्तुकाम इव सन्नपि बाल्यलौल्यात् । ऐन्द्रं निहन्य मखमद्रिमथो दधानः किं तस्थिषे सुरगणाय सवासवाय ॥ ४४॥ वेणुक्वणप्रणयिनि त्वयि लोकनाथ! वृन्दावनं चरणसञ्चरणैः पुनाने । भावास्तदा वनभुवः किल कीदृशस्ते त्वद्गीतसिक्तसिकतासु वसुन्धरासु ॥ ४५॥ धन्यैश्श्रुतं तदिह तावकरासकाले गीतेन येन् हि शिलास्सलिलाम्बभूवुः । पञ्चापि किञ्च परिवृत्तगुणानि भूता- न्युर्वीकृशानुमरुदम्बरशम्बराणि ॥ ४६॥ तेभ्यः कृती न किल कश्चिदिहास्ति ये वै रासोत्सवोत्सुकधियस्तव काननान्ते । वेणुस्वनस्रुतरसौघपरिप्लुतान्ते स्वे सृक्वणी रसनया लिलिहुर्भुजङ्गाः ॥ ४७॥ अम्भोदनीलमरविन्ददलायताक्षं पिञ्छावतंसमुररीकृतवेणुपाणिम् । त्वां गोपवेषपरिकर्मितकायकान्तिं धन्यास्तदा ददृशुरुन्मथितान्यभावाः ॥ ४८॥ गोवर्धनो गिरिवरो यमुना नदी सा वृन्दावनं च मधुरा च पुरी पुराणी । अद्यापि हन्त सुलभाः कृतिनां जनाना- मेते भवच्चरणचारजुषः प्रदेशाः ॥ ४९॥ वृन्दावने स्थिरचरात्मककीटदूर्वा- पर्यन्तजन्तुनिचये बत ! ये तदानीम् । नैवालभामहि जनिं हतकास्त एते पापाः पदं तव कदा पुनराश्रयामः ॥ ५०॥ हा जन्म तासु सिकतासु मया न लब्धं रासे त्वया विरहिताः किल गोपकन्याः । यास्तावकीनपदपङ्क्तिजुषोऽजुषन्त निक्षिप्य तत्र निजमङ्गमनङ्गतप्तम् ॥ ५१॥ आचिन्वतः कुसुममंङ्घ्रिसरोरुहं ते ये भेजिरे बत ! वनस्पतयो लता वा । अद्यापि तत्कुलभुवः कुलदैवतं मे वृन्दावनं मम धियं च सनाथयन्ति ॥ ५२॥ यत्त्वत्प्रियं तदिह पुण्यमपुण्यमन्य- न्नान्यत्तयोर्भवति लक्षणमत्र जातु । धूर्तायितं तव हि यत्किल रासगोष्ठ्यां तत्कीर्तनं परमपावनमामनन्ति ॥ ५३॥ या कंसमुख्यनृपकीटनिबर्हणोत्था सा निर्जितत्रिजगतस्तव नैव कीर्तिः । गोपालनादि यदिदं भवदीयकर्मे- त्यार्द्रीकरोति विदुषां हृदयं तदेतत् ॥ ५४॥ गोपालवेषपरिकर्म परावरेशं यन्नाम धाम परमं तमसः परस्तात् । तत्पिञ्छलाञ्छनसुदामकृतोपवीतं गोधूलिधूसरितकुन्तलमन्तरास्ताम् ॥ ५५॥ यद्वै जरासुतभयाद्विपलायथास्त्वं तच्चेन्मनुष्यचरितानुविधानजं ते । तर्हि त्रिलोकगुरुमीश्वरमीश्वराणां बाणाहवे किमिति शम्भुमजृम्भयस्त्वम् ॥ ५६॥ जातं कुतस्तदकृतज्ञविचेष्टितं ते पुत्रीयया किल वरं ववृषेवृषाङ्कात् । अक्षेषु सक्तमतिना च निरादरेण वाराणसी हरपुरी भवता विदग्धा ॥ ५७॥ सञ्जीवयन्नपि मृतं सुतमुत्तराया- स्सान्दीपनेश्चिरमृतं सुतमानयंश्च । धाम्नो निजाद्द्विजसुतान्पुनरानयन्वा स्वामेव तां तनुमहो ! कथमानयस्त्वम् ॥ ५८॥ अद्यापि नास्म्युपरतस्त्रिविधापचारा- त्पापः परे निपतितोऽस्मि तमस्यपारे । एतादृशोऽहमगतिर्भवतो दयायाः पात्रं त्वदीयचरणौ शरणं प्रपद्ये ॥ ५९॥ विस्रम्भणं त्वयि न यद्यपि मेऽस्ति नापि श्रद्धा यथोक्तवचनार्थगता तथाऽपि । वाचं त्विमां सकृदथाप्यसकृन्मयोक्तां सत्यां कुरुष्व दययैव दयैकसिन्धो ॥ ६०॥ पापीयसोऽपि शरणागतशब्दभाजो नोपेक्षणं मम तवोचितमीश्वरस्य । त्वज्ज्ञानशक्तिकरुणासु सतीषु नेह पापं पराक्रमितुमर्हति मामकीनम् ॥ ६१॥ इति पञ्चस्तव्यां अतिमानुषस्तवः समाप्तः ।