अक्षर आकार:

श्रीअनन्ताष्टोत्तरशतनामावलिः

shrIanantAShTottarashatanAmAvaliH

श्रीअनन्ताष्टोत्तरशतनामावलिः

ॐ अनन्ताय नमः । अच्युताय । अद्भुतकर्मणे । अमितविक्रमाय । अपराजिताय । अखण्डाय । अग्निनेत्राय । अग्निवपुषे । अदृश्याय । अत्रिपुत्राय । अदृहासाय । अनाकुलाय । अघनाशिने । अनघाय । अप्सुनिलयाय । अर्हाय । अष्टमूर्तये । अनिरुद्धाय । अनिर्विण्णाय । अचञ्चलाय नभः ॥ २० ॐ अष्टदिक्पालमूर्तये नमः । अखिलमूर्तये । अव्यक्ताय । अरूपाय । अनन्तरूपाय । अभयङ्कराय । अक्षराय । अभ्रवपुषे । अयोनिजाय । अरविन्दाक्षाय । अशनवर्जिताय । अधोक्षजाय । अत्रिपुत्राय । अम्बिकापतिपूर्वजाय । अपस्मारनाशिने । अव्ययाय । अनादिनिधनाय । अप्रमेयाय । अघशत्रवे । अमरारिघ्ने नमः ॥ ४० ॐ अमरविघ्नहन्त्रे नमः । अनीश्वराय । अजाय । अनादये । अमरप्रभवे । अग्राह्याय । अक्रूराय । अनुत्तमाय । अह्ने । अमोघाय । अक्षयाय । अमृताय । अघोरवीर्याय । अव्यङ्गाय । अविघ्नाय । अतीन्द्रियाय । अमिततेजसे । अष्टाङ्गन्यस्तरूपाय । अनिलाय । अवशाय नमः ॥ ६० ॐ अणोरणीयसे नमः । अशोकाय । अनुकूलाय । अभिताशनाय । अरण्यवासिने । अप्रमत्ताय । अनलाय । अनिर्देश्यवपुषे । अहोरात्राय । अमृत्यवे । अकारादिहकारान्ताय । अनिमिषाय । अस्त्ररूपाय । अग्रगण्याय । अप्रथिताय । असङ्ख्याय । अमरवर्याय । अन्नपतये । अमृतपतये । अजिताय नमः ॥ ८० ॐ अपां निधये । अपां पतये । असुरघातिने । अमरप्रियाय । अधिष्ठानाय । अरविन्दप्रियाय । अरविन्दोद्भवाय । अष्टसिद्धिदाय । अनन्तशयनाय । अनन्तब्रह्माण्डपतये । अशिववर्जिताय । अतिभूषणाय । अविद्याहराय । अतिप्रियाय । अकल्मषाय । अकल्पाय । अब्ददिकाय । अचलरूपाय । अघोराय । अक्षोभ्याय नमः ॥ १०० ॐ अलक्ष्मीशमनाय नमः । अतिसुन्दराय । अमोघौघाधिपतये । अक्षताय । अमितप्रभावाय । अवनीपतये । अर्चिष्मते । अपवर्गप्रदाय नमः ॥ १०८ इति अनन्ताष्टोत्तरशतनामावलिः समाप्ता ।