अक्षर आकार:

अमृतसञ्जीवनस्तोत्रम्

amRRitasanjIvanastotram

अमृतसञ्जीवनस्तोत्रम्

अथापरमहं वक्ष्येऽमृतसञ्जीवनं स्तवम् । यस्यानुष्ठानमात्रेण मृत्युर्दूरात्पलायते ॥ १॥ असाध्याः कष्टसाध्याश्च महारोगा भयङ्कराः । शीघ्रं नश्यन्ति पठनादस्यायुश्च प्रवर्धते ॥ २॥ शाकिनीडाकिनीदोषाः कुदृष्टिग्रहशत्रुजाः । प्रेतवेतालयक्षोत्था बाधा नश्यन्ति चाखिलाः ॥ ३॥ दुरितानि समस्तानि नानाजन्मोद्भवानि च । संसर्गजविकाराणि विलीयन्तेऽस्य पाठतः ॥ ४॥ सर्वोपद्रवनाशाय सर्वबाधाप्रशान्तये । आयुःप्रवृद्धये चैतत्स्तोत्रं परममद्भुतम् ॥ ५॥ बालग्रहाभिभूतानां बालानां सुखदायकम् । सर्वारिष्टहरं चैतद्बलपुष्टिकरं परम् ॥ ६॥ बालानां जीवनायैतत्स्तोत्रं दिव्यं सुधोपमम् । मृतवत्सतवत्त्वहरणं चिरजीवित्वकारकम् ॥ ७॥ महारोगाभिभूतानां भयव्याकुलितात्मनाम् । सर्वाधिव्याधिहरणं भयघ्नममृतोपमम् ॥ ८॥ अल्पमृत्युश्चापमृत्युः पाठादस्य प्रणश्यति । जलाग्निविषशस्त्रारिनखिश‍ृङ्गिभयं तथा ॥ ९॥ गर्भरक्षाकरं स्त्रीणां बालानां जीवनप्रदम् । महारोगहरं नॄणामल्पमृत्युहरं परम् ॥ १०॥ बाला वृद्धाश्च तरुणा नरा नार्यश्च दुःखिताः । भवन्ति सुखिनः पाठादस्य लोके चिरायुषः ॥ ११॥ अस्मात्परतरं नास्ति जीवनोपाय ऐहिकः । तस्मात्सर्वप्रयत्नेन पाठमस्य समाचरेत् ॥ १२॥ अयुतावृत्तिकं वाथ सहस्रावृत्तिकं तथा । तदर्धं वा तदर्धं वा पठेदेतच्च भक्तितः ॥ १३॥ कलशे विष्णुमाराध्य दीपं प्रज्वाल्य यत्नतः । सायं प्रातश्च विधिवत्स्तोत्रमेतत्पठेत्सुधीः ॥ १४॥ सर्पिषा हविषा वाऽपि संयावेनाथ भक्तितः । दशांशमानतो होमङ्कुर्यात्सर्वार्थसिद्धये ॥ १५॥ नमो नमो विश्वविभावनाय नमो नमो लोकसुखप्रदाय । नमो नमो विश्वसृजेश्वराय नमो नमो मुक्तिवरप्रदाय ॥ १६॥ नमो नमस्तेऽखिललोकपाय नमो नमस्तेऽखिलकामदाय । नमो नमस्तेऽखिलकारणाय नमो नमस्तेऽखिलरक्षकाय ॥ १७॥ नमो नमस्ते सकलार्तिहर्त्रे नमो नमस्ते विरुजप्रकर्त्रे । नमो नमस्तेऽखिलविश्वधर्त्रे नमो नमस्तेऽखिललोकभर्त्रे ॥ १८॥ सृष्टं देव चराचरं जगदिदं ब्रह्मस्वरूपेण ते सर्वं तत्परिपाल्यते जगदिदं विष्णुस्वरूपेण ते । विश्वं संह्रियते तदेव निखिलं रुद्रस्वरूपेण ते संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ १९॥ यो धन्वन्तरिसंज्ञया निगदितः क्षीराब्धितो निःसृतो हस्ताभ्यां जनजीवनाय कलशं पीयूषपूर्णं दधत् । आयुर्वेदमरीरचन्द्ररतरुजां नाशाय स त्वं मुदा संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ २०॥ स्त्रीरूपं वरभूणाम्बरधरं त्रैलोक्यसम्मोहनं कृत्वा पाययति स्म यः सुरगणान्पीयूषमत्युत्तमम् ॥ चक्रे दैन्यगणान्सुधाविरहितान्सम्मोह्य स त्वं मुदा संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ २१॥ चाक्षुषोदधिसप्लावभूवेदप क्षषाकृते । सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ २२॥ पृष्ठमन्दरनिर्घूर्णनिद्राक्ष कमठाकृते । सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ २३॥ याच्ञाछलबलित्रासमुक्तनिर्जर वामन । सिश्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ २४॥ धरोद्धारहिरण्याक्षघातक्रोडाकृते प्रभो । सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ २५॥ भक्तत्रासविनाशात्तचह्यहत्व नृहरे विभो । सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ २६॥ क्षत्रियारण्यसञ्छेदकुठारकर रैणुक । सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ २७॥ रक्षोराजप्रतापाब्धिशोषणाशुग राघव । सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ २८॥ भूभारासुरसन्दोहकालाग्ने रुक्मिणीपते । सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ २९॥ वेदमार्गरतानर्हविभ्रान्त्यै बुद्धरूपधृक् । सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ ३०॥ कलिवर्णाश्रमास्पष्टधर्मर्द्ध्यै कल्किरूपभाक् । सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ ३१॥ असाध्याः कष्टसाध्या ये महारोगा भयङ्कराः । छिन्धि तानाशु चक्रेण चिरं जीवय जीवय ॥ ३२॥ अल्पमृत्युं चापमृत्युं महोत्पातानुपद्रवान् । भिन्धि भिन्धि गदाघातैश्चिरं जीवय जीवय ॥ ३३॥ अहं न जाने किमपि त्वदन्यत्समाश्रये नाथ पदाम्बुजं ते । कुरुष्व तद्यन्मनसीप्सितं ते सुकर्मणा केन समक्षमीयाम् ॥ ३४॥ त्वमेव तातो जननी त्वमेव त्वमेव नाथश्च त्वमेव बन्धुः । विद्याधनागारकुलं त्वमेव त्वमेव सर्वं मम देवदेव ॥ ३५॥ न मेऽपराधं प्रविलोकय प्रभोऽपराधसिन्धोश्च दयानिधिस्त्वम् । तातेन दुष्टोऽपि सुतः सुरक्ष्यते दयालुता तेऽवतु सर्वदाऽस्मान् ॥ ३६॥ अहह विस्मर नाथ च मां सदा करुणया निजया परिपूरितः । भुवि भवान् यदि मे नहि रक्षकः कथमहो मम जीवनमत्र वै ॥ ३७॥ दह दह कृपया त्वं व्याधिजालं विशालं हर हर करवालं चाल्पमृत्योः करालम् । निजजनपरिपालं त्वां भजे भावयालं कुरु कुरु बहुकालं जीवितं मे सदाऽलम् ॥ ३८॥ न यत्र धर्माचरणं च दानं व्रतं न यागो न च विष्णुचर्चा । न पितृगोविप्रवरामरार्चा स्वल्पायुषस्तत्र जना भवन्ति ॥ ३९॥ क्लीं श्रीं क्लीं श्रीं नमो भगवते जनार्दनाय सकलदुरितानि नाशय नाशय क्ष्रौं आमारोग्यं कुरु कुरु ह्रीं दीर्घमायुर्देहि देहि स्वाहा । अस्य धारणतो जापादल्पमृत्युः प्रशाम्यति । गर्भरक्षाकरं स्त्रीणां बालानां जीवनं परम् ॥ ४०॥ शतं पञ्चाशतं शक्त्याथवा पञ्चाधिविंशतिम् । पुस्तकानां द्धिजेभ्यस्तु दद्याद्दीर्घायुषाप्तये ॥ ४१॥ भूर्जपत्रे विलिख्येदं कण्ठे वा बाहुमूलके । सन्धारयेद्गर्भरक्षा बालरक्षा च जायते ॥ ४२॥ सर्वे रोगा विनश्यन्ति सर्वा बाधा प्रशाम्यति । कुदृष्टिजं भयं नश्येत्तथा प्रेतादिजं भयम् ॥ ४३॥ मया कथितमेतत्तेऽमृतसञ्जीवनं परम् । अल्पमृत्युहरं स्तोत्रं मृतवत्सत्त्वनाशनम् ॥ ४४॥ इति श्रीसुदर्शनसंहितान्तर्गतं अमृतसञ्जीवनस्तोत्रं सम्पूर्णम् ।