अक्षर आकार:

अलङ्करणमालिकास्तुतिः

AlankaranamalikastutiH

अलङ्करणमालिकास्तुतिः

अलङ्करणमालिकास्तुतिः । कमलवनावळिभोग्यं कलशपयोराशिराजसौभाग्यम् । किमपि हयाननभाग्यं कलयतु मां स्वगुणविनुतिकृतियोग्यम् ॥ १॥ हरणायाखिलविपदां करणान्येकादशापि विनियम्य । श्लोकैरेकादशभिर्लोकेशित्रीं स्तुवे प्रसीदतु सा ॥ २॥ अं (ब वि) धूमणि भवतीमम्बुरुहाक्षोऽपि वक्षसि बिभर्ति । किम्बहुनाऽखिलजगतां त्वं बहुमान्या सुधाम्बुनिधिकन्या ॥ ३॥ निरुपमवरतमसुगुणाङ्कुरनिकुरुं(बालवा) लभूतां त्वाम् । तुरगवदनस्य तरुणीं तरुणाम्बुजलोचनां श्रये शरणम् ॥ ४॥ शुभदाय(कौलव) णिमप्रभवौ ननु जननि तव विदितविभवौ । पादौ वितीर्णमोदौ श्रीदौ स्यातां ममाब्जदायादौ ॥ ५॥ हरिदर्शनसविकसनं हारि ममामोदिषट्पदोल्लसनम् । हृदयाम्बुजं शरण्याहयमुखदायि (तैतुल) लितलावण्या ॥ ६॥ शिशिरमयूखावरजं वसितहयग्रीवममृतसा(गरज)म् । भजतां भवभरतापं नयतां नः किमपि धाम तल्लोकम् ॥ ७॥ कञ्चि(द्वणिग्ज)न इव न्यासधनी मौग्ध्यमम्ब तव वीक्ष्य । त्वयि विक्रीयाणुतमं स्वमहो लभते महाविभूतिं त्वत् ॥ ८॥ भुवनावनतिर्निद्रा सवनाशननाथकृतनुतिकृपार्द्रा । धुवतात्काचिन्मुद्रा भवतापं भव्यदायिनी (भद्रा) ॥ ९॥ (शकुनि) ध्वजाविभाज्यं सकलं तत्किमपि तस्य साम्राज्यम् । दत्तां विभवं प्राज्यं तत्तादृशमखिलविबुधपरिपूज्यम् ॥ १०॥ सुचतुरमतिरपि यस्ते नचरणकमलद्वयीं नमेज्जातु । अ(चतुष्पा) त्वर एव स नच विशयोऽत्रास्ति वचननिचयैः किम् ॥ (नागव) रभोगवाहौ रागवती भगवतीह वागीशे । द्रागवतात्प्रचुरभवोद्वेगवतोऽस्मान्कृपाझरी काऽपि ॥ १२॥ भवभरतपर्तुतापा भवन्ति तेऽमी चिरं न साटोपाः । कमलापाङ्गामानसके (किंस्तुघ्नं) त्यमून्घनस्मेराः ॥ १३॥ कल्याणगुणस्यूतां कान्त्याश्लेषेण सन्ततं स्फीताम् । तनुतां हृद्यां जगतां माताऽलङ्करणमालिकामेताम् ॥ १४॥ एषां महिशूरेश्वरकृष्णक्ष्मापालरत्नवंशगुरोः । उदिता कृतिर्विजयतां श्रीकृष्णब्रह्मतन्त्रपरकालात् ॥ १५॥ इत्यलङ्करणमालिकास्तुतिस्सम्पूर्णा ।