अक्षर आकार:

अभीतिस्तवः

abhItistavaH

अभीतिस्तवः

श्रीगणेशाय नमः । अभीतिरिह यज्जुषां यदवधीरितानां भयं भयाभयविधायिनो जगति यन्निदेशे स्थिताः । तदेतदतिलङ्घितद्रुहिणशम्भुशक्रादिकं रमासखमधीमहे किमपि रङ्गधुर्यं महः ॥ १॥ दयाशिशिरिताशया मनसि मे सदा जागृयुः श्रियाध्युषितवक्षसः श्रितमरुद्वृधा सैकताः । जगद्दुरितघस्मरा जलधिडिम्भडम्भस्पृहः सकृत्प्रणतरक्षणप्रथितसंविदः संविदः ॥ २॥ यदद्य मितबुद्धिना बहुलमोहभाजा मया गुणग्रथितकायवाङ्मनसि वृत्तिवैचित्र्यतः । अतर्कितहिताहितक्रमविशेषमारभ्यते तदप्युचितमर्चनं परिगृहाण रङ्गेश्वर ॥ ३॥ मरुत्तरणिपावकत्रिदशनाथकालादयः स्वकृत्यमधिकुर्वते त्वदपराधतो बिभ्यतः । महत्किमपि वज्रमुद्यतमिवेति यच्छ्रयते तरत्यनध यद्भयं य इह तावकस्तावकः ॥ ४॥ भवन्तमिह यः सुधीर्नियतचेतनाचेतनं पनायति नमस्यति स्मरति वक्ति पर्येति वा । गुणं कमपि वेत्ति वा तव गुणेश गोपायितुः कदाचन कुतश्चन क्वचन तस्य न स्याद्भयम् ॥ ५॥ स्थिते मनसि विग्रहे गुणिनि धातुसाम्ये सति स्मरेदखिलदेहिनं य इह जातुचित्त्वामजम् । तयैव खलु सन्धया तमथ दीर्घनिद्रावशं स्वयं विहितसंस्मृतिर्नयसि धाम नैःश्रेयसम् ॥ ६॥ रमादयित रङ्गभूरमण कृष्ण विष्णो हरे त्रिविक्रम जनार्दन त्रियुगनाथ नारायण । इतीव शुभदानि यः पठति नामधेयानि ते न तस्य यमवश्यता नरकपातभीतिः कुतः ॥ ७॥ कदाचिदपि रङ्गभूरसिक यत्र देशे वशी त्वदेकनियताशयस्त्रिदशवन्दितो वर्तते । तदक्षततपोवनं तव च राजधानी स्थिरा सुखस्य सुखमास्पदं सुचरितस्य दुर्गं महत् ॥ ८॥ त्रिवर्गपथवर्तिनां त्रिगुणलङ्घनोद्योगिनां द्विषत्प्रमथनार्थिनामपि च रङ्गदृश्योदयाः । स्खलत्समयकातरीहरणजागरूकाः प्रभो करग्रहणदीक्षिताः क इह तेन दिव्या गुणाः ॥ ९॥ बिभेति भवभृत्प्रभो त्वदुपदेशतीव्रौषधात्- कदध्वरसदुर्विषे बडिशभक्ष्यवत्प्रीयते । अपथ्यपरिहारधीविमुखमित्थमाकस्मिकी तमप्यवसरे क्रमादवति वत्सला त्वद्दया ॥ १०॥ अपार्थ इति निश्चितः प्रहरणादियोगस्तव स्वयं वदसि निर्भयस्तदपि रङ्ग पृथ्वीपते । स्वरक्षणमिवाभवत्प्रणतरक्षणं तावकं यदात्थ परमार्थविन्नियतमन्तरात्मेति ते ॥ ११॥ लघिष्ठसुखसङ्गतैः स्वकृतकर्मनिर्वर्तितैः कलत्रसुतसोदरानुचरबन्धुसंवन्धिभिः । धनप्रभृतिकैरषि प्रचुरभीतिभेदोत्तरै- र्न बिभ्रति धृतिं बिभो त्सदनुभूतिभोगार्थिनः ॥ १२॥ न वक्तुमपि शक्यते नरकगर्भवासादिकं वपुश्च वहुधातुकं निपुणचिन्तने तादृशम् । त्रिविष्टपमुखं तथा तव पदस्य देदीप्यतः किमत्र न भयास्पदं भवति रङ्ग पृथ्वीपते ॥ १३॥ भवन्ति मुखभेदतो भयनिदानमेव प्रभो शुभाशुभविकल्पिता जगति देशकालादयः । इति प्रचुरसाध्वसे मयि दयिष्यसे त्वं न चे- त्क इत्थमनुकम्पिता त्वदनुकम्पनीयश्च कः ॥ १४॥ सकृत्प्रपदनस्पृशामभयदाननित्यव्रती न च द्विरभिभाषसे त्वमिति विश्रुतः स्वोक्तितः । यथोक्तकरर्णै विदुस्तव तु यातुधानादयः कथं वितथमस्तु तत्कृपणसार्वभौमे मयि ॥ १५॥ अनुक्षणसमुत्थिते दुरितवारिधौ दुस्तरे यदि क्वचन निष्कृतिर्भवति सापि दोषाविला । तदित्थमगतौ मयि प्रतिविधानमाधीयतां स्वबुद्धिपरिकल्पितं किमपि रङ्गधुर्य त्वया ॥ १६॥ विषादबहुलादहं विषयवर्गतो दुर्जया- द्बिभेमि वृजिनोत्तरस्त्वदनुभूतिविच्छेदतः । मया नियतनाथवानयमिति त्वमर्थापयन् दयाधन जगत्पते दयित रङ्ग संरक्ष माम् ॥ १७॥ निसर्गनिरनिष्ठता तव निरम्भसः श्रूयते ततस्त्रियुगसृष्टिवद्भवति संहृतिः क्रीडितम् । तथापि शरणागतप्रणयभङ्गभीतो भवान् मदिष्टमिह यद्भवेत्किमपि मा स्म तज्जह्यपः ॥ १८॥ कयाधुसुतवायसद्विरदपुङ्गवद्रौपदी- विभीषणभुजङ्गमव्रजगणाम्बरीषादयः । भवत्पदसमाश्रिता भयविमुक्तिमापुर्यथा लभेमहि तथा वयं सपदि रङ्गधुर्य त्वया ॥ १९॥ भयं शमय रङ्गधाम्न्यनितराभिलाषस्पृशां श्रियं बहुलय प्रभो श्रितविपक्षमुन्मूलय । स्वयं समुदितं वपुस्तव निशामयन्तः सदा वयं त्रिदशनिर्वृतिं भुवि मुकुन्द विन्देमहि ॥ २०॥ श्रियः परिवृढे त्वयि श्रितजनस्य संरक्षके सदद्भुतगुणोदधाविति समर्पितोऽयं भरः । प्रतिक्षणमतः परं प्रथय रङ्गधामादिधु प्रभुत्वमनुपाधिकं प्रथितहेतिभिर्हेतिभिः ॥ २१॥ कलिप्रणिधिलक्षणैः कलितशाक्यलोकायतै- स्तुरुष्कयवनादिभिर्जगति जृम्भमाणं भयम् । प्रकृष्टनिजशक्तिभिः प्रसभमायुधैः पञ्चभिः क्षितित्रिदशरक्षकैः क्षपय रङ्गनाथ क्षणात् ॥ २२॥ दितिप्रभवदेहभिद्दहनसोमसूर्यात्मकं तमःप्रमथनं प्रभो समुदितास्त्रवृन्दं स्वतः । स्ववृत्तिवशवर्ति तत्त्रिदशवृत्ति चक्रं पुनः- प्रवर्तयतु धाम्नि ते महति धर्मचक्रस्थितिम् ॥ २३॥ मनुप्रभृतिमानिते महति रङ्गधामादिके दनुप्रभवदारुणैर्दरमुदीर्यमाणं परैः । प्रकृष्टगुणकः श्रिया वसुधया च सन्धुक्षितः प्रयुक्तकरुणोदधे प्रशमय स्वशक्त्या स्वयम् ॥ २४॥ भुजङ्गमविहङ्गमप्रवरसैन्यनाथाः प्रभो तथैव कुमुदादयो नगरगोपुरद्वारपाः । अचिन्त्यबलविक्रमास्त्वमिव रङ्ग संरक्षका जितं त इति वादिनो जगदनुग्रहे जाग्रतु ॥ २५॥ विधिस्त्रिपुरमर्दनस्त्रिदशपुङ्गवः पावको यमप्रभृतयोऽपि यद्विमतरक्षणे न क्षमाः । रिरक्षिषति यत्र च प्रतिभयं न किञ्चित्क्वचित्- स नः प्रतिभटान् प्रभो शमथ रङ्गधामादिषु ॥ २६॥ स कैटभतमोरविर्मधुपरागझञ्झामरु- द्धिरण्यगिरिदारणत्रुटितकालनेमिद्रुमः । किमत्र बहुना भजद्भवपयोधिमुष्टिन्धय- स्त्रिविक्रम भवत्क्रमः क्षिपतु मक्षु रङ्गद्विषः ॥ २७॥ यतिप्रवरभारतीरसभरेण नीतं वयः प्रफुल्लपलितं शिरः पदमिह क्षमं प्रार्थये । निरस्तरिपुसम्भवे क्वचन रङ्गमुख्ये विभो परस्परहितैषिणां परिसरेषु मां वर्तय ॥ २८। प्रबुद्धगुरुवीक्षणप्रश्रितवेङ्कटेशोद्भवा- मिमामभयसिद्धये पठत रङ्गभर्तुः स्तुतिम् । भयं त्यजत भद्रमित्यभिदधत्स वः केशवः स्वयं घनघृणानिधिर्गुणगणेन गोपायति ॥ २९॥ इति श्रीवेदान्तदेशिकप्रणीतः श्रीमद्वेङ्कटनाथप्रणीतोऽभीतिस्तवः सम्पूर्णः । (श्रीरङ्गक्षेत्रे)