अक्षर आकार:

अष्टपदी

aShTapadI

अष्टपदी

(राग भैरव) जयति निजघोषभुवि गोपमणिभूषणम् । युवतिकलधौतरतिजटितमविदूषणम् ॥ ध्रुवपदम् ॥ विकचशरदम्बुरुहरुचिरमुखतोऽनिशम् । जिघ्रतादमलमधुमदशालिनी भृशम् ॥ १॥ तरलदलसापाङ्गविभ्रमभ्रामितम् । निःस्थिरीभवितुमिच्छतु हृदितकामितम् ॥ २॥ मधुरमृदुहासकलिताधरच्युतरसम् । पिबतु रसनाऽपि मुहुरुदितरतिलालसम् ॥ ३॥ अमृतमयशिशिरवचनेषु नवसूत्सुकम् । श्रवणपुटयुगलमनुभवतु चिरसूत्सुकम् ॥ ४॥ विपुलवक्षस्थले स्पर्शरसपूरितम् । तुङ्गकुचकलशयुगमस्तु मदनेरितम् ॥ ५॥ मृदिततमकायदेवद्रुमालम्बिता । हर्षमतिशयितमुपयातु तनुलता ६॥ पुष्परसपुष्टपरपुष्टभृङ्गीमये । वसतिरपि भवतु मम निभृतकुञ्जालये ॥ ७॥ गीतमिदमेवमुरुभावगर्भितपदम् । रोचयतु कृष्णमिह सरससम्पदम् ॥ ८॥ इति श्रीदेवकीनन्दनजीकृताऽष्टपदी समाप्ता ।