अक्षर आकार:

अष्टभुजाष्टकम्

Ashtabhujashtakam

अष्टभुजाष्टकम्

वेदान्तदेशिककृतम् । (काञ्च्यां) गजेन्द्ररक्षात्वरितं भवन्तं ग्राहैरिवाहं विषयैर्विकृष्टः । अपारविज्ञानदयानुभावमाप्तं सतामष्टभुजं प्रपद्ये ॥ १॥ त्वदेकशेषोऽहमनात्मतन्त्रस्त्वत्पादलिप्सां दिशता त्वयैव । असत्समोऽप्यष्टभुजास्पदेश सत्तामिदानीमुपलम्भितोऽस्मि ॥ २॥ स्वरूपरूपास्त्रविभूषणाद्यैः परत्वचिन्तां त्वयि दुर्निवाराम् । भोगे मृदूपक्रमतामभीप्सन् शीलादिभिर्वारयसीव पुंसाम् ॥ ३॥ शक्तिं शरण्यान्तरशब्दभाजां सारं च सन्तोल्य फलान्तराणाम् । त्वद्दास्यहेतोस्त्वयि निर्विशङ्कं न्यस्तात्मनां नाथ विभर्षि भारम् ॥ ४॥ अभीतिहेतोरनुवर्तनीयं नाथ त्वदन्यं न विभावयामि । भयं कुतः स्यात्त्वयि सानुकम्पे रक्षा कुतः स्यात्त्वयि जातरोषे ॥ ५॥ त्वदेकतन्त्रं कमलासहाय स्वेनैव मां रक्षितुमर्हसि त्वम् । त्वयि प्रवृत्ते मम किं प्रयासैस्त्वय्यप्रवृत्ते मम किं प्रयासैः ॥ ६॥ समाधिभङ्गेष्वपि सम्पतत्सु शरण्यभूते त्वयि बद्धकक्ष्ये । अपत्रपे सोढुमकिञ्चनोऽहं दूराधिरोहं पतनं च नाथ ॥ ७॥ प्राप्ताभिलाषं त्वदनुग्रहान्मां पद्मानिषेव्ये तव पादपद्मे । आदेहपातादपराधदूरमात्मान्तकैङ्कर्यरसं विधेयाः ॥ ८॥ प्रपन्नजनपाथेयं प्रपित्सूनां रसायनम् । श्रेयसे जगतामेतच्छ्रीमदष्टभुजाष्टकम् ॥ ९॥ शरणागतसन्त्राणत्वरा द्विगुणबाहुना । हरिणा वेङ्कटेशीया स्तुतिः स्वीक्रियतामियम् ॥ १०॥ इति वेदान्तदेशिककृतं अष्टभुजाष्टकं सम्पूर्णम् ।