अक्षर आकार:

षोडशायुधस्तोत्रम्

Shodashayudhastotram

षोडशायुधस्तोत्रम्

वेदान्तदेशिकविरचितम् । (श्रीसुदर्शनदेवस्य करस्थायुधस्तुतिः) स्वसङ्कल्पकलाकल्पैरायुधैरायुधेश्वरः । जुष्टः षोडशभिर्दिव्यैर्जुषतां वः परः पुमान् ॥ १॥ यदायत्तं जगच्चक्रं कालचक्रं च शाश्वतम् । पातु वस्त्वपरं चक्रं चक्ररूपस्य चक्रिणः ॥ २॥ यत्प्रसूतिशतैरासन् द्रुमाः परशुलाञ्छिताः । स दिव्यो हेतिराजस्य परशुः परिपातु वः ॥ ३॥ हेलया हेतिराजेन यस्मिन् दैत्याः समुद्धृते । शकुन्ता इव धावन्ति स कुन्तः पालयेत वः ॥ ४॥ दैत्यदानवमुख्यानां दण्ड्यानां येन दण्डनम् । हेतिदण्डेश दण्डोऽसौ भवतां दण्डयेद्विषः ॥ ५॥ अनन्यान्वयभक्तानां रुन्धन्नाशामतङ्गजान् । अनङ्कुशविहारो वः पातु हेतीश्वराङ्कुशः ॥ ६॥ सम्भूय शलभायन्ते यत्र पापानि देहिनाम् । स पातु शतवक्त्राग्निहेतिर्हेतीश्वरस्य वः ॥ ७॥ अविद्यां स्वप्रकाशेन विद्यारूपश्छिनत्ति यः । स सुदर्शननिस्त्रिंशः सौतु वस्तत्त्वदर्शनम् ॥ ८॥ क्रियाशक्तिगुणो विष्णोर्यो भवत्यतिशक्तिमान् । अकुण्ठशक्तिः सा शक्तिरशक्तिं वारयेत वः ॥ ९॥ तारत्वं यस्य संस्थाने शब्दे च परिदृश्यते । प्रभोः प्रहरणेन्द्रस्य पाञ्चजन्यः स पातु वः ॥ १०॥ यं सात्त्विकमहङ्कारमामनन्त्यक्षसायकम् । अव्याद्वश्चक्ररूपस्य तद्धनुः शार्ङ्गिधन्वनः ॥ ११॥ आयुधेन्द्रेण येनैव विश्वसर्गो विविच्यते । स वः सौदर्शनः कुर्यात्पाशः पाशविमोचनम् ॥ १२॥ विहारो येन देवस्य विश्वक्षेत्रकृषीवलः । व्यज्यते तेन सारेण नासीरविजयोऽस्तु वः ॥ १३॥ आयुधानामहं वज्रं इत्यगीयत यः स वः । अव्याद्धेतीश वज्रोऽसावदधीच्यस्थिसम्भवः ॥ १४॥ विश्वसंहृतिशक्तिर्या विश्रुता बुद्धिरूपिणी । सा वः सौदर्शनी भूयाद्गदप्रशमिनी गदा ॥ १५॥ यात्यतिक्षोदशालित्वं मुसलो येन तेन वः । हेतीश मुसलेनाशु भिद्यतां मोहमौसलम् ॥ १६॥ शूलिदृष्टमनोर्वाच्यो येन शूलयति द्विषः । भवतां तेन भवतात्त्रिशूलेन विशूलता ॥ १७॥ अस्त्रग्रामस्य कृत्स्नस्य प्रसूतिं यं प्रचक्षते । सोऽव्यात्सुदर्शनो विश्वमायुधैः षोडशायुधः ॥ १८॥ श्रीमद्वेङ्कटनाथेन श्रेयसे भूयसे सताम् । कृतेयमायुधेन्द्रस्य षोडशायुधसंस्तुतिः ॥ १९॥ इति वेदान्तदेशिकविरचितं षोडशायुधस्तोत्रं सम्पूर्णम् ।