अक्षर आकार:

डोलानवरत्नमालिका

Dolanavaratnamalika

डोलानवरत्नमालिका

श्रीधरवेङ्कटेशार्यकृता श्रीमद्भिरक्षिवलनैः परितस्सरोज- श्रेणीं किरन्नधिहिरण्मयदिव्यडोलम् । यः श्रीधराकलितमाकलयन् मुदा त- दान्दोळनं स्फुरति नन्दशिशुं तमीडे ॥ १॥ आन्दोळनेन मणिसुन्दरडोळिकायां स श्रीधरोपकलितानि समश्नुवानः । मन्दस्मितेन मधुरेण निजान् विधिन्वन् नन्दार्भको भवतु मे नयनाध्वनीनः ॥ २॥ माणिक्यकुण्डलमनोहरतारहारा- द्युद्दामभूषमुपबर्हनिविष्टबाहुम् । तं श्रीधराश्रितपदं श्रितदिव्यडोलं बालं नुमः कमपि वासवरत्ननीलम् ॥ ३॥ यः श्रीधरस्मरहरादिविलोचनाञ्ज- ल्यादीयमानपवनो रमतेऽधिडोलम् । आन्दोळनेन जननीकलितेन नन्दन् मन्दं हसन्मनसि मेऽस्तु स नन्दसूनुः ॥ ४॥ अत्रामृतं प्रविचकास्त्यमृतार्थिनां त- दासेव्यमेतदिति बोधयितुं पदं स्वम् । आस्ये निधाय रसयन्नधिरत्नडोलं अग्रेऽस्तु मेऽभ्ररुचिरार्भकसार्वभौमः ॥ ५॥ डोलाधिरूढमुपबर्हधृतापराङ्गं फालान्तराकलितहीरललन्तिकाढ्यम् । वैयाघ्रचारुनखराञ्चितमभ्रनीलं बालं कदा ननु पिबानि दृशा विशङ्कम् ॥ ६॥ डोलां गतस्तदनुषञ्जितरत्नगुच्छे दृष्ट्वा स्वबिम्बमपरार्भकविभ्रमेण । अव्यक्तजल्पदरहासमुखैर्विलासैः दीव्यन्ममास्तु हृदि दिव्यशिशुः सलीलम् ॥ ७॥ आकल्पितैणमदचित्रकभूतिरेख- फालं कपोलतलबिम्बितकर्णभूषम् । डोलां गतं व्रजवधूपरि चुम्ब्यमान- श्रीमन्मुखं कमपि दिव्यशिशुं स्मरामः ॥ ८॥ आभीरपुण्यविभवावतरोऽधिडोलं यः श्रीधराकलिततच्चलनैः प्रहृष्यन् । अत्येधितैः कलशसिन्धुतरङ्गडोला- न्दोलैरिवास्तु हृदि मे स किशोरमौलिः ॥ ९॥ श्रीबालकृष्णविनुतिं नवरत्नमाला- ख्यानामिमां परिपठत्युदितादरो यः । सत्पुत्रसम्पदमियादचलाञ्च लक्ष्मीं श्रीकृष्णभक्ततिलकश्च भवेत्स धन्यः ॥ १०॥ इति श्रीधरवेङ्कटेशार्यकृता डोलानवरत्नमालिका समाप्ता ।