अक्षर आकार:

आर्तत्राणनारायणाष्टादशकम्

ArtatrANanArAyaNAShTAdashakam

आर्तत्राणनारायणाष्टादशकम्

प्रह्लाद प्रभुरस्ति चेत्तव दृरिः सर्वत्र मे दर्शय स्तम्भे चैनमिति ब्रुवन्तमसुरं तत्राविरासीद्धरिः । वक्षस्तस्यविदारयन्निजनखैर्वात्सल्यमावेदयन्न्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १॥ श्रीरामाव विभीषणोयमधुना त्वार्तो भयादागतः सुग्रीवानय पालयेहमधुना पौलस्त्वयेवागतम् । एवं योऽभयमस्य सर्वविदितं लङ्काधिपत्यन्ददा- वार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २॥ नक्रग्रस्तपदं समुद्यतकरं ब्रह्मेश देवेश मां पाहीति प्रचुरार्तरावकरिणं देवेश शक्तीश च । मा शोचेति ररक्ष नक्रवदनाञ्चक्रश्रिया तत्क्षणाद्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३॥ हा कृष्णाच्युत हा कृपाजलनिधे हा पाण्डवानां सखे क्वासि क्वासि सुयोधनादवगतां हा रक्ष मां द्रौपदीम् । इत्युक्तोऽक्षयमस्त्ररक्षिततनुं योऽरक्षदापद्गणाद्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४॥ यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वसनं यन्नामामृतपूरणं च पिबतां सन्तापसंहारकम् । पाषाणश्च यदङ्घ्रितो निजवधूरूपं मुनेराप्तवान्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५॥ यन्नाम श्रुतिमात्रतोऽपरिमितं संसारवारान्निधिं त्यक्त्वा गच्छति दुर्जनोपि परमं विष्णोः पदं शाश्वतम् । तन्नैवाद्भुतकारणं त्रिजगतां नाथस्य दासोस्म्यहम्- आर्तत्राणपरायणः त्राणपरायणःस भगवान्नारायणो मे गतिः ॥ ६॥ पित्रा भ्रातरमुत्तमाङ्कगमितं भक्तोत्तमं यो ध्रुवं दृष्ट्वा तत्सममारुरुक्षुमुदितं मात्राऽवमानं गतम् । योदात्तं शरणागतं तु तपसा हेमाद्रिसिंहासनं ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ७॥ नाथेति श्रुतयो न तत्त्वमतयो घोषस्थिता गोपिका जारिण्यः कुलजातिधर्मविमुखा अध्यात्मभावं ययुः । भक्तिर्यस्य ददाति मुक्तिमतुलां जारस्य यः सद्गति- र्ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ८॥ क्षुत्तृष्णार्तसहस्रशिष्यसहितं दुर्वाससं क्षोभितं द्रौपद्याभय भक्तियुक्तमनसा शाकं स्वहस्तार्पितम् । भुक्त्वाऽतर्पयदात्मवृत्तिमखिलामावेदयन् यः पुमान् आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ९॥ येनाराक्षि रघूत्तमेन जलधेस्तीरे दशास्यानुज- स्त्वायातं शरणं रघूत्तम विभो रक्षातुर मामिति । पौलस्त्येन विराकृतोऽथ सदसि भ्रात्रा च लङ्कापुरे ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १०॥ येनावाहि महाहवे वसुमती संवर्तकाले महा- लीलाक्रोडवपुर्धरेण हरिणा नारायणेन स्वयम् । यःपापिद्रुमसम्प्रवर्तमचिराद्धत्त्वा च योगात् प्रियाम्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ११॥ योद्धासौ भुवनत्रये मधुपतिर्भर्ता नराणां बले राधाया अकरोद्रते रतिमनःपूर्तिः सुरेन्द्रानुजः । यो वा रक्षति दीनपाण्डुतनयान्नाथेति भीतिं गतान्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १२॥ यःसान्दीपिनिदेशतश्च तनयं लोकान्तरात्सन्नतं चानीय प्रतिपाद्य पुत्रमरणादुज्जृम्भमाणार्तये । सन्तोषं जनयन्नमेयमहिमा पुत्रार्थसम्पादनाद्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १३॥ यन्नामस्मरणादघौघसहितो विप्रः पुराऽजामिलः प्राणान्मुक्तिमशेषितामनु च यः पापौधदावातियुक् । सद्यो भागवतोत्तमात्मनिमतिं प्रापाम्बरीषाभिध- श्चार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १४॥ योरक्षद्वसनादिनित्यरहितं विप्रं कुचैलाभिधं दीनासनचकोरपालनपरः श्रीशङ्खचक्रोज्ज्वलः । तज्जीर्णाम्बरमुष्टिपात्रपृथुकानादाय भुक्त्वा क्षणाद्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १५॥ यत्कल्याणगुणाभिरामममलं मन्त्राणि संशिक्षते यत्संशेतिपतिप्रतिष्ठितमिदं विश्वं वदत्यागमः । यो योगीन्द्रमनःसरोरुहतमःप्रध्वंसविद्भानुमान्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १६॥ कालिन्दीहृदयाभिरामपुलिने पुण्ये जगन्मङ्गले चन्द्राम्भोजवटे पुटे परिसरे धात्रा समाराधिते । श्रीरङ्गे भुजगेन्द्रभोगशयने शेते सदा यः पुमान्- आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १७॥ वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणाद्- औदार्यादघशोषणादगणितश्रेयः पदप्रापणात् । सेव्यःश्रीपतिरेवसर्वजगतामेते हि तत्साक्षिण- प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्या ध्रुवः ॥ १८॥ इति श्रीमच्छङ्कराचार्यविरचितमार्तत्राणपरायण- नारायणाष्टादशकं सम्पूर्णम् ॥