अक्षर आकार:

आह्निकस्तोत्रम्

Ahnikastotram

आह्निकस्तोत्रम्

वैशम्पायन उवाच - अत्राश्चर्यात्मकं स्तोत्रमाह्निकं जयतां वर । प्रद्युम्ने द्वारकां प्राप्ते हत्वा तं कालशम्बरम् ॥ १॥ बलदेवेन रक्षार्थं प्रोक्तमाह्निकमुच्यते । यञ्जप्त्वा तु नृपश्रेष्ठ सायं पूतात्मतां व्रजेत् ॥ २॥ कीर्तितं बलदेवेन विष्णुना चैव कीर्तितम् । धर्मकामैश्च मुनिभिरृषिभिश्चापि कीर्तितम् ॥ ३॥ कर्हिचिद् रुक्मिणीपुत्रो हलिना संयुतो गृहे । उपविष्टः प्रणम्याथ तमुवाच कृताञ्जलिः ॥ ४॥ प्रद्युम्न उवाच - कृष्णानुज महाभाग रोहिणीतनय प्रभो । किञ्चित्स्तोत्रं मम ब्रूहि यज्जप्त्वा निर्भयोऽभवम् ॥ ५॥ श्रीबलदेव उवाच - सुरासुरगुरुर्ब्रह्मा पातु मां जगतः पतिः । अथोङ्कारवषट्कारौ सावित्री विधयस्त्रयः ॥ ६॥ ऋचो यजूंषि सामानि छन्दांस्याथर्वणानि च । चत्वारस्त्वखिला वेदाः सरहस्याः सविस्तराः ॥ ७॥ पुराणमितिहासश्चाखिलान्युपखिलानि च । अङ्गान्युपाङ्गानि तथा व्याख्यातानि च पान्तु माम् ॥ ८॥ पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् । इन्द्रियाणि मनो बुद्धिस्तथा सत्त्वं रजस्तमः ॥ ९॥ व्यानोदानौ समानश्च प्राणोऽपानश्च पञ्चमः । वायवः सप्त चैवान्ये येष्वायत्तमिदं जगत् ॥ १०॥ मरीचिरङ्गि रात्रिश्च पुलस्त्यः पुलहः क्रतुः । भृगुर्वसिष्ठो भगवान् पान्तु ते मां महर्षयः ॥ ११॥ कश्यपाद्याश्च मुनयश्चतुर्दश दिशो दश । नरनारायणौ देवौ सगणौ पान्तु मां सदा ॥ १२॥ रुद्राश्चैकादश प्रोक्ता आदित्या द्वादशैव तु । अष्टौ च वसवो देवा अश्विनौ द्वौ प्रकीर्तितौ ॥ १३॥ ह्रीः श्रीर्लक्ष्मीः स्वधा पुष्टिर्मेधा तुष्टिः स्मृतिर्धृतिः । अदितिर्दितिर्दनुश्चैव सिंहिका दैत्यमातरः ॥ १४॥ हिमवान् हेमकूटश्च निषधः श्वेतपर्वतः । ऋषभः पारियात्रश्च विन्ध्यो वैडूर्यपर्वतः ॥ १५॥ सह्योदयश्च मलयो मेरुमन्दरदर्दुराः । क्रौञ्चकैलासमैनाकाः पान्तु मां धरणीधराः ॥ १६॥ शेषश्च वासुकिश्चैव विशालाक्षश्च तक्षकः । एलापत्रः शुक्लवर्णः कम्बलाश्वतरावुभौ ॥ १७॥ हस्तिभद्रः पिटरकः कर्कोटकधनञ्जयौ । तथा पूरणकश्चैव नागश्च करवीरकः ॥ १८॥ सुमनास्यो दधिमुखस्तथा श‍ृङ्गारपिण्डकः । मणिनागश्च भगवांस्त्रिषु लोकेषु विश्रुतः ॥ १९॥ नागराडधिकर्णश्च तथा हारिद्रकोऽपरः । एते चान्ये च बहवो ये चान्ये नानुकीर्तिताः ॥ २०॥ भूधराः सत्यधर्माणः पान्तु मां भुजगेश्वराः । समुद्राः पान्तु चत्वारो गङ्गा च सरितां वरा ॥ २१॥ सरस्वती चन्द्रभागा शतद्रुर्देविका शिवा । द्वारावती विपाशा च सरयूर्यमुना तथा ॥ २२॥ कल्माषी च रथोष्मा च बाहुदा च हिरण्यदा । प्लक्षा चेक्षुमती चैव स्रवन्ती च बृहद्रथा ॥ २३॥ ख्याता चर्मण्वती चैव पुण्या चैव वधूसरा । एताश्चान्याश्च सरितो याश्चान्या नानुकीर्तिताः ॥ २४॥ उत्तरापथगामिन्यः सलिलैः स्नपयन्तु माम् । वेणी गोदावरी सीता कावेरी कौङ्कणावती ॥ २५॥ कृष्णा वेणा शुक्तिमती तमसा पुष्पवाहिनी । ताम्रपर्णी ज्योतिरथा उत्फलोदुम्बरावती ॥ २६॥ नदी वैतरणी पुण्या विदर्भा नर्मदा शुभा । वितस्ता भीमरथ्या च ऐला चैव महानदी ॥ २७॥ कालिन्दी गोमती पुण्या नदः शोणश्च विश्रुतः । एताश्चान्याश्च वै नद्यो याश्चान्या न तु कीर्तिताः ॥ २८॥ दक्षिणापथवाहिन्यः सलिलैः स्नपयन्तु माम् । क्षिप्रा चर्मण्वती पुण्या मही शुभ्रवती तथा ॥ २९॥ सिन्धुर्वेत्रवती चैव भोजान्ता वनमालिका । पूर्वभद्रा पराभद्रा ऊर्मिला च परद्रुमा ॥ ३०॥ ख्याता वेत्रवती चैव चापदासीति विश्रुता । प्रस्थावती कुण्डनदी नदी पुण्या सरस्वती ॥ ३१॥ चित्रघ्नी चेन्दुमाला च तथा मधुमती नदी । उमा गुरुनदी चैव तापी च विमलोदका ॥ ३२॥ विमला विमलोदा च मत्तगङ्गा पयस्विनी । एताश्चान्याश्च वै नद्यो याश्चान्या नानुकीर्तिताः ॥ ३३॥ ता मां समभिषिञ्चन्तु पश्चिमामाश्रिता दिशम् । भागीरथी पुण्यजला प्राच्यां दिशि समाश्रिता ॥ ३४॥ सा तु दहतु मे पापं कीर्तिता शम्भुना धृता । प्रभासं च प्रयागं च नैमिषं पुष्कराणि च ॥ ३५॥ गङ्गातीर्थं कुरुक्षेत्रं श्रीकण्ठं गौतमाश्रमम् । रामह्रदं विनशनं रामतीर्थं तथैव च ॥ ३६॥ गङ्गाद्वारं कनखलं सोमो वै यत्र चोत्थितः । कपालमोचनं तीर्थं जम्बूमार्गं च विश्रुतम् ॥ ३७॥ सुवर्णबिन्दुं विख्यातं तथा कनकपिङ्गलम् । दशाश्वमेधिकं चैव पुण्याश्रमविभूषितम् ॥ ३८॥ बदरी चैव विख्याता नरनारायणाश्रमः । विख्यातं फल्गुतीर्थं च तीर्थं चन्द्रवटं तथा ॥ ३९॥ कोकामुखं पुण्यतमं गङ्गासागरमेव च । मगधेषु तपोदश्च गङ्गोद्भेदश्च विश्रुतः ॥ ४०॥ तीर्थान्येतानि पुण्यानि सेवितानि महर्षिभिः । मां प्लावयन्तु सलिलैः यानि मे कीर्तितानि वै ॥ ४१॥ सूकरं योगमार्गं च श्वेतद्वीपं तथैव च । ब्रह्मतीर्थं रामतीर्थं वाजिमेधशतोपमम् ॥ ४२॥ धारासम्पातसंयुक्ता गङ्गा किल्बिषनाशिनी । गङ्गा वैकुण्ठकेदारं सूकरोदभेदनं परम् । तच्छापमोचनं तीर्थं पुनन्त्वेतानि किल्बिषात् ॥ ४३॥ धर्मार्थकामविषयो यशःप्राप्तिः शमो दमः । वरुणेशोऽथ धनदो यमो नियम एव च ॥ ४४॥ कालो नयः सन्नतिश्च क्रोधो मोहः क्षमा धृतिः । विद्युतोऽभ्राण्यथौषध्यः प्रमादोन्मादविग्रहाः ॥ ४५॥ यक्षाः पिशाचा गन्धर्वाः किन्नराः सिद्धचारणाः । नक्तञ्चराः खेचरिणो दंष्ट्रिणः प्रियविग्रहाः ॥ ४६॥ लम्बोदराश्च बलिनः पिङ्गाक्षा विश्वरूपिणः । मरुतः सहपर्जन्याः कलात्रुटिलवाः क्षणाः ॥ ४७॥ नक्षत्राणि ग्रहाश्चैव ऋतवः शिशिरादयः । मासाहोरात्रयश्चैव सूर्याचन्द्रमसौ तथा ॥ ४८॥ आमोदश्च प्रमोदश्च प्रहर्षः शोक एव च । रजस्तमस्तपः सत्यं शुद्धिर्बुद्धिर्धृतिः श्रुतिः ॥ ४९॥ रुद्राणी भद्रकाली च भद्रा ज्येष्ठा तु वारुणी । भासी च कालिका चैव शाण्डिली चेति विश्रुताः ॥ ५०॥ आर्या कुहूः सिनीवाली भीमा चित्ररथी रतिः । एकानंशा च कूष्माण्डी देवी कात्यायनी च या ॥ ५१॥ लोहित्या जनमाता च देवकन्यास्तु याः स्मृताः । गोनन्दा देवपत्नी च मां रक्षन्तु सबान्धवम् ॥ ५२॥ नानाभरणवेशाश्च नानारूपाङ्किताननाः । नानादेशविचारिण्यो नानाशस्त्रोपशोभिताः ॥ ५३॥ मेदोमज्जाप्रियाश्चैव मद्यमांसवसाप्रियाः । मार्जारद्वीपिवक्त्राश्च गजसिंहनिभाननाः ॥ ५४॥ कङ्कवायसगृध्राणां क्रौञ्चतुल्याननास्तथा । व्यालयज्ञोपवीताश्च चर्मप्रावरणास्तद्या ॥ ५५॥ क्षतजोक्षितवक्त्राश्च खरभेरीसमस्वनाः । मत्सराः क्रोधनाश्चैव प्रासादा रुचिरालयाः ॥ ५६॥ मत्तोन्मत्तप्रमत्ताश्च प्रहरन्त्यश्च धिष्ठिताः । पिङ्गाक्षाः पिङ्गकेशाश्च ततोऽन्या लूनमूर्धजाः ॥ ५७॥ ऊर्ध्वकेश्यः कृष्णकेश्यः श्वेतकेश्यस्तथावराः । नागायुतबलाश्चैव वायुवेगास्तथापराः ॥ ५८॥ एकहस्ता एकपादा एकाक्षाः पिङ्गला मताः । बहुपुत्राल्पपुत्राश्च द्विपुत्राः पुत्रमण्डिकाः ॥ ५९॥ मुखमण्डी बिडाली च पूतना गन्धपूतना । शीतवातोष्णवेताली रेवती ग्रहसंज्ञिताः ॥ ६०॥ प्रियहास्याः प्रियक्रोधाः प्रियवासाः प्रियंवदाः । सुखप्रदाश्चासुखदाः सदा द्विजजनप्रियाः ॥ ६१॥ नक्तञ्चराः सुखोदर्काः सदा पर्वणि दारुणाः । मातरो मातृवत्पुत्रं रञ्जन्तु मम नित्यशः ॥ ६२॥ पितामहमुखोद्भूता रौद्रा रुद्राङ्गसम्भवाः । कुमारस्वेदजाश्चैव ज्वरा वै वैष्णवादयः ॥ ६३॥ महाभीमा महावीर्या दर्पोदभूता महाबलाः । क्रोधनाक्रोधनाः क्रूराः सुरविग्रहकारिणः ॥ ६४॥ नक्तञ्चराः केसरिणो दंष्ट्रिणः प्रियविग्रहाः । लम्बोदरा जघनिनः पिङ्गाक्षा विश्वरूपिणः ॥ ६५॥ शक्त्यृष्टिशूलपरिघप्रासचर्मासिपाणयः । पिनाकवज्रमुसलब्रह्मदण्डायुधप्रियाः ॥ ६६॥ दण्डिनः कुण्डिनः शूरा जटामुकुटधारिणः । वेदवेदाङ्गकुशला नित्ययज्ञोपवीतिनः ॥ ६७॥ व्यालापीडाः कुण्डलिनो वीराः केयूरधारिणः । नानावस्वनसंवीताश्चित्रमाल्यानुलेपनाः ॥ ६८॥ गजाश्वोष्ट्रर्क्षमार्जारसिंहव्याघ्रनिभाननाः । वराहोलूकगोमायुमृगाखुमहिषाननाः ॥ ६९॥ वामना विकटाः कुब्जाः कराला लूनमूर्धजाः । सहस्रशतशश्चान्ये सहस्रजटधारिणः ॥ ७०॥ श्वेताः कैलाससङ्काशाः केचिद् दिनकरप्रभाः । केचिज्जलदवर्णाभा नीलाञ्जनचयोपमाः ॥ ७१॥ एकपादा द्विपादाश्च तथा द्विशिरसोऽपरे । निर्मांसाः स्थूलजङ्घाश्च व्यादितास्या भयङ्कराः ॥ ७२॥ वापीतडागकूपेषु समुद्रेषु सरित्सु च । श्मशानशैलवृक्षेषु शून्यागारनिवासिनः ॥ ७३॥ एते ग्रहाश्च सततं रक्षन्तु मम सर्वतः । महागणपतिर्नन्दी महाकालो महाबलः । माहेश्वरो वैष्णवश्च ज्वरौ लोकभयावहौ ॥ ७४॥ ग्रामणीश्चैव गोपालो भृङ्गरीटिर्गणेश्वरः । देवश्च वामदेवश्च घण्टाकर्णः करन्धमः ॥ ७५॥ श्वेतमोदः कपाली च जम्भकः शत्रुतापनः । मज्जनोन्मज्जनौ चोभौ सन्तापनविलापनौ ॥ ७६॥ निजघासोऽघसश्चैव स्थूणाकर्णः प्रशोषणः । उल्कामाली धमधमो ज्वालामाली प्रमर्दनः ॥ ७७॥ सङ्घट्टनः सङ्कुटनः काष्ठभूतः शिवङ्करः । कूष्माण्डः कुम्भमूर्धा च रोचनो वैकृतो ग्रहः ॥ ७८॥ अनिकेतः सुरारिघ्नः शिवश्चाशिव एव च । क्षेमकः पिशिताशी च सुरारिर्हरिलोचनः ॥ ७९॥ भीमको ग्राहकश्चैव तथैवाग्रमयो ग्रहः । उपग्रहोऽर्यकश्चैव तथा स्कन्दग्रहोऽपरः ॥ ८०॥ चपलोऽसमवेतालस्तामसः सुमहाकपिः । हृदयोद्वर्तनश्चैडः कुण्डाशी कङ्कणप्रियः ॥ ८१॥ हरिश्मश्रुर्गरुत्मन्तो मनोमारुतरंहसः । पार्वत्या रोषसम्भूताः सहस्राणि शतानि च ॥ ८२॥ शक्तिमन्तो धृतिमन्तो ब्रह्मण्याः सत्यसङ्गराः । सर्वकामापहन्तारो द्विषतां च मृधेमृधे ॥ ८३॥ रात्रावहनि दुर्गेषु कीर्तिताः सकलैर्गुणैः । तेषां गणानां पतयः सगणाः पान्तु मां सदा ॥ ८४॥ नारदः पर्वतश्चैव गन्धर्वाप्सरसां गणाः । पितरः कारणं कार्यमाधयो व्याधयस्तथा ॥ ८५॥ अगस्त्यो गालवो गार्ग्यः शक्तिर्धीम्यः पराशरः । कृष्णात्रेयश्च भगवानसितो देवलो बलः ॥ ८६॥ बृहस्पतिरुतथ्यश्च मार्कण्डेयः श्रुतश्रवाः । द्वैपायनो विदर्भश्च जैमिनिर्माठरः कठः ॥ ८७॥ विश्वामित्रो वसिष्ठश्च लोमशश्च महामुनिः । उत्तङ्कश्चैव रैभ्यश्च पौलोमश्च द्वितस्त्रितः ॥ ८८॥ ऋषिर्वै कालवृक्षीयो मुनिर्मेधातिथिस्तथा । सारस्वतो यवक्रीतिः कुशिको गौतमस्तथा ॥ ८९॥ संवर्त ऋष्यश‍ृङ्गश्च स्वस्त्यात्रेयो विभाण्डकः । ऋचीको जमदग्निश्च तथौर्वस्तपसां निधिः ॥ ९०॥ भरद्वाजः स्थूलशिराः कश्यपः पुलहः क्रतुः । बृहदग्निर्हरिश्मश्रुर्विजयः कण्व एव च ॥ ९१॥ वैतण्डी दीर्घतापश्च वेदगाथोंऽशुमाञ्छिवः । अष्टावक्रो दधीचिश्च श्वेतकेतुस्तथैव च ॥ ९२॥ उद्दालकः क्षीरपाणिः श‍ृङ्गी गौरमुखस्तथा । अग्निवेश्यः शमीकश्च प्रमुचुर्मुमुचुस्तथा ॥ ९३॥ एते चान्ये च ऋषयो बहवः शंसितव्रताः । मुनयः शंसितात्मानो ये चान्ये नानुकीर्तिताः ॥ ९४॥ त्रयोऽग्नयस्त्रयो वेदास्त्रैविद्याः कौस्तुभो मणिः ॥ ९५॥ उच्चैःश्रवा हयः श्रीमान् वैद्यो धन्वन्तरिर्हरिः । अमृतं गौः सुपर्णश्च दधि गौराश्च सर्षपाः ॥ ९६॥ शुक्लाः सुमनसः कन्याः श्वेतच्छत्रं यवाक्षताः । दूर्वा हिरण्यं गन्धाश्च वालव्यजनमेव च ॥ ९७॥ तथाप्रतिहतं चक्रं महोक्षश्चन्दनं विषम् । श्वेतो वृषः करी मत्तः सिंहो व्याघ्रो हयो गिरिः ॥ ९८॥ पृथिवी चोद्धृता लाजा ब्राह्मणा मधु पायसम् । स्वस्तिको वर्द्धमानश्च नन्द्यावर्तः प्रियङ्गवः ॥ ९९॥ श्रीफलं गोमयं मत्स्यो दुन्दुभिः पटहस्वनः । ऋषिपत्न्यश्च कन्याश्च श्रीमद् भद्रासनं धनुः । रोचना रुचकश्चैव नदीनां सङ्गमोदकम् ॥ १००॥ सुपर्णाः शतपत्राश्च चकोरा जीवजीवकाः । नन्दीमुखो मयूरश्च बद्धमुक्तामणिध्वजाः ॥ १०१॥ आयुधानि प्रशस्तानि कार्यसिद्धिकराणि च । पुण्यं वै विगतक्लेशं श्रीमद् वै मङ्गलान्वितम् ॥ १०२॥ रामेणोदाहृतं पूर्वमायुःश्रीजयकाङ्क्षिणा । य इदं श्रावयेद् विद्वांस्तथैव श‍ृणुयान्नरः ॥ १०३॥ मङ्गलाष्टशतं स्नातो जपन् पर्वणि पर्वणि । वधबन्धपरिक्लेशं व्याधिशोकपराभवम् ॥ १०४॥ न च प्राप्नोति वैकल्यं परत्रेह च शर्मदम् । धन्यं यशस्यमायुष्यं पवित्रं वेदसम्मितम् ॥ १०५॥ श्रीमत्स्वर्ग्यं सदा पुण्यमपत्यजननं शिवम् । शुभं क्षेमकरं नॄणां मेधाजननमुत्तमम् । सर्वरोगप्रशमनं स्वकीर्तिकुलवर्धनम् ॥ १०६॥ श्रद्दधानो दयोपेतो यः पठेदात्मवान्नरः । सर्वपापविशुद्धात्मा लभते च शुभां गतिम् ॥ १०७॥ ॥ इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि बलदेवाह्निकं नाम नवाधिकशततमोऽध्यायः ॥