शुक्लयजुर्वेदीयसन्ध्या प्रातः-मध्याह्न-सायं
॥ अथ शुक्लयजुर्वेदीयप्रातःसन्ध्याप्रयोगः ॥ ॥ भस्मधारणम् ॥ ॐ अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वꣳ हवाऽ इदम भस्म मनऽ एतानि चक्षूꣳषि भस्मानि ॥ ॥ गायत्रिमन्त्रः ॥ ॐ भुर्भुवःस्वः ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥ धियोयोनः प्प्रचोदयत् ॥ ॐ त्र्यम्बकमित्यस्य वसिष्ठ ऋषिः रुद्रो देवता अनुष्ठुब्छन्दः भस्माभिमन्त्रणे विनियोगः ॥ ॐ त्र्ययम्बकँय्यजामहेसुगन्धिम्पुष्ट्टिवर्द्धनम् ॥ उर्व्वारुकमिव बन्धनान्न्मृत्योर्म्मुक्षीयमामृतात् ॥ ॐ त्र्यायुषमित्यस्य नारायण ऋषिः रुद्रो देवता उषिणक्छन्दः भस्मधारणे विनियोगः ॥ ॐ त्र्यायुषञ्जमदग्ग्नेः कश्श्यपस्यत्र्यायुषम् ॥ यद्देवेषुत्र्यायुषन्तन्नोऽ अस्तुत्र्यायुषम् ॥ ॥ आचमनम् ॥ ॐ केशवाय नमः स्वाहा । ॐ नारायणाय नमः स्वाहा । ॐ माधवाय नमः स्वाहा । ॐ गोविन्दाय नमः । हस्तं प्रक्षाल्य ॥ अथ देवतानमस्कारः ॥ ॐ विष्णवे नमः। ॐ मधुसूदनाय नमः । ॐ त्रिविक्रमाय नमः । ॐ वामनाय नमः । ॐ श्रीधराय नमः। ॐ ऋषिकेशाय नमः । ॐ पद्मनाभाय नमः । ॐ दमोदकराय नमः । ॐ संकर्षणाय नमः । ॐ वासुदेवाय नमः। ॐ प्रद्युम्नाय नमः। ॐ अनिरुद्धाय नमः ॐ पुरुषोत्तमाय नमः । ॐ अधोक्षजाय नमः। ॐ नृसिंहाय नमः । ॐ अच्युताय नमः। ॐ जनार्दनाय नमः। ॐ उपेन्द्राय नमः । ॐ श्रीहरये नमः। ॐ श्रीकृष्णाय नमः । ॥ विनियोगः ॥ ॐ प्रणवस्य परब्रह्म ऋषिः परमात्मा देवता दैवी गायत्री छंदः प्राणायामे विनियोगः ॥ ॥प्राणायामः॥ ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥ धियोयोनः प्प्रचोदयत् ॥ ॐ आपोज्योतीरसोऽमृतं ब्रह्म भूर्भुवःस्वरोम् ॥ एवं पूरकः कुम्भकः रेचकः इति क्रमेण त्रिवारं पठेत् ॥ शिखाबन्धनम् ॥ ॐ मनस्तोक इति मन्त्रस्य कुत्स ऋषिः जगती छन्दः एको रुद्रो देवता शिखाबन्धने विनियोगः ॥ ॐ मनस्तोकेतनयेमानऽआयुषिमानोगोषुमानोऽ अश्श्वेषुरीरिषः॥ मानोव्वीरान्न्रुद्रभामिनोव्वधीर्हवीष्म्मन्तः सदामित्वाहवामहे ॥ ॥अङ्गन्यासः ॥ ॐ विष्णुर्विष्णुः । वाक् वाक् प्राणः प्राणः चक्षुः चक्षुः श्रोत्रं श्रोत्रं नाभिः हृदयं कण्ठेः मुखं शिरः शिखा बाहुभ्यां यशोबलम् ॥ ॥ मार्जनम् ॥ ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ ॐ पवित्रेस्थोव्वैष्णव्यौसवितुर्वः प्रसवऽ उत्त्पुनाम्म्यच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः तस्यते पवित्रपते पवित्र पूतस्य यत्त्कामः पुनेतच्छकेयम् ॥ ॥ सङ्कल्पः ॥ ॐ अत्राद्य महामाङ्गल्यफलप्रदमासोत्तमेमासे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे ममोपात्तदुरितक्षयर्थं ब्रह्मवाप्तये प्रातःसन्ध्योपासनमहं करिष्ये ॥ ॥ भूमिप्रार्थना ॥ ॥ विनियोगः ॥ ॐ पृथिवीत्यस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसने विनियोगः ॥ ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ॥ त्वञ्च धारय मां देवि पवित्रं कुरु चासनम् ॥ ॐ कूर्माय नमः । ॐ शेषाय नमः । ॐ अनन्ताय नमः । ॥ भूतशुद्धिः ॥ ॐ अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः । ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥ अपक्रमन्तु भूतानि पिशाचाः सर्वतोदिशम् । सर्वेषामविरोधेन सन्ध्याकर्म समारम्भे ॥ ॥ मार्जनम् ॥ ॐ भुः पुनातु (शिरसि) ॐ भुवः पुनातु (नेत्रयोः) ॐ स्वः पुनातु (कण्ठे) ॐ महः पुनातु (हृदये) ॐ जनः पुनातु (नाभ्याम्) ॐ तपः पुनातु (पादयोः) ॐ सत्यं पुनातु (पुनः शिरसि) ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥ धियोयोनः प्प्रचोदयत् ॥ (सर्वाङ्गं पुनातु) ॥ करन्यासः ॥ ॐ अङ्गुष्ठाग्रे तु गोविन्दं तर्जन्यां तु महीधरम् । मध्यमायां ऋषिकेशमनामिक्यां त्रिविक्रमम् ॥ कनिष्ठिक्यान्न्यसेद्विष्णुं करमध्ये त् माधवम् । करपृष्ठे हरिं विद्यन्मणिबन्धे जनार्दनम् ॥ ॥ गायत्रीषडङ्गन्यासाः ॥ ॐ भुः हृदयाय नमः । ॐ भुवः शिरसे स्वाहा । ॐ स्वः शिखायै वषट् । ॐ तत्सवितुर्व्वरेण्ण्यं कवचाय हुम् । ॐ भर्ग्गो देवस्य धीमहि नेत्रत्रयाय वौषट्। ॐ धियोयोनः प्प्रचोदयत् अस्त्राय फट् । ॥ प्रणवन्यासाः ॥ ॐ अकारम् नभौ । ॐ उकारम् हृदये । ॐ मकारम् मूर्ध्नि । ॐ भुः पादयोः । ॐ भुवः जान्वोः । ॐ स्वः ऊर्वोः । ॐ महः जठरे । ॐ जनः कण्ठे । ॐ तपः मुखे । सत्यम् शिरसि ॥ ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥ धियोयोनः प्प्रचोदयत् ॥ (सर्वाङ्गे) ॥ गायत्र्यावाहानम् ॥ ॐ गायत्रीं त्र्यक्षरां बालां साक्षसूत्रकमण्डलुम् । रक्तवस्त्रां चतुर्हस्तां हंसवाहन्संस्थिताम् ॥ ब्रह्माणीं ब्रह्मदैवत्यां ब्रह्मलोकानिवासिनीम् । आवाहयाम्यहं देवीमायान्तीं सूर्यमण्डलात् ॥ आगच्छ वरदे देवि त्र्यक्षरे ब्रह्मवादिनि । गायत्रि छन्दसां मातर्ब्रह्मयोनि नमोऽस्तु ते ॥ ॥ अम्बुप्राशनम् ॥ ॥ विनियोगः ॥ ॐ सूर्यश्चमेत्यस्य नारायणः ऋषिः सूर्यो देवता अनुष्टुब्छ्न्दः अम्बुप्राशने विनियोगः ॥ ॐ सूर्यश्चमा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां यद्रात्र्या पापमकार्षं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना रात्रिस्तदवलुम्पतु यत्किञ्चिद्दुरितं मयि इदमहं माममृतयोनौ सूर्य्ये ज्योतिषि जुहोमि स्वाहा ॥ ॥ मार्जनम् ॥ ॥ विनियोगः ॥ ॐ आपोहिष्ठेति तिसृणां सिन्धुद्विप ऋषिः गायात्रिछ्न्दः आपोदेवता मार्जने विनियोगः ॥ ॥ मार्जनम् ॥ ॐ आपोहिष्ठ्ठामयो भुवस्तानऽ ऊर्ज्जेदधातन । महेरणाय चक्षसे ॥ योवः शिवतमोरसस्तस्य भाजयतेहनः । उशतीरिवमातरः ॥ तस्म्माऽ अरङ्ग मामवोयस्य क्षयायजिन्न्वथऽ आपो जनयथाचनः ॥ अघमर्षणम् ॥ ॥विनियोगः॥ ॐ द्रुपादिवेत्यस्य कोकिलराजपुत्र ऋषिः अनुष्ठुब्छन्दः आपो देवता अघमर्षणे विनियोगः॥ ॥ अघमर्षणम् ॥ ॐ द्रुपदादिवमुमुचानः स्विन्नःस्नातोमलादिव ॥ पूतम्पवित्रेणेवाज्ज्यमापः शुन्धन्तुमैनसः ॥ (अनेन मन्त्रेण पापं ध्यात्वा तज्जलं वामतः क्षिपेत्) ॥ अर्घ्यम् ॥ ॐ भुर्भुवःस्वः ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥ धियोयोनः प्प्रचोदयत् ॥ ॐ प्रातः सन्ध्यायां ब्रह्म स्वरूपिणे सवित्रे सूर्यनारायणाय नमः । इदमर्घ्यं दत्तं न मम ॥ (एवम त्रिवारं अर्घ्यं दद्यात्) ॐ असावादित्यो ब्रह्म ॥ सूर्योपस्थानम् ॥ ॐ उद्वयन्तमसस्प्परिस्वः पश्श्यन्तऽ उत्तरम् ॥ देवन्देवत्र सूर्य्य्मगन्न्मज्ज्योतिरुत्तमम् ॥ उदुत्त्यञ्जातवेदसन्देवं व्वहन्ति केतवः ॥ दृशेव्विश्श्वायसूर्य्यम् ॥ ॐ चित्रन्देवानामुदगादनी कं चक्षुर्म्मित्रस्यव्वरुणस्याग्ग्नेः ॥ आप्प्राद्ध्यावापृथिवीऽ अन्तरिक्षꣳ सूर्य्यऽआत्क्मा जगतस्तस्थुषश्च ॥ ॐ तच्चक्षुर्द्देवहितम्पुरस्ताच्छुक्रमुच्चरत् ॥ पश्श्येमशरदः शतञ्जीवेमशरदः शतꣳशृणुयामशरदः शतम्प्रब्ब्रवाम शरदः शतमदीनाः स्यामशरदः शतम्भूयश्श्च्चशरदः शतात् ॥ ॥विनियोगः॥ ॐ तेजोसीत्यस्य परमेष्ठी प्रजापतिरृषिः आज्यं देवता जगती छन्दः यजुर्गायत्र्यावाहने विनियोगः ॥ गायत्र्यावाहनम् ॥ ॐ तेजोसिशुक्क्रमस्यमृतमसिधामनामासिप्प्रियन्देवानामनाधृष्ट्टन्देवयजनमसि ॥ ॥ अथ मुद्रप्रदर्शनम् ॥ ॐ सुमुखं सम्पुटं चैव विततं विस्तृतं तथा । द्विमुखं त्रिमुखं चैवचतुष्पञ्चमुखं तथा ॥ षण्मुखाधोमुखं चैव व्यापकाञ्जलिकं तथा । शकटं यमपाशं च ग्रथितं चोन्मुखोन्मुखम् ॥ प्रलम्बं मुष्टिकं चैव मत्स्यः कूर्मो वराहकम्। सिंहाक्रान्तां महाक्रान्तं मुद्गरं पल्लवं तथा॥ ॥ शापविमोचनम् ॥ ॐ भो गायत्रि देवि त्वं ब्रह्मशापाद्विमुक्ता भव ॥ ॐ भो गायत्रि देवि त्वं वसिष्ठशापाद्विमुक्ता भव ॥ (महामुद्रं (योनिमुद्रां) प्रदर्श्य त्रिवारं मनसि गायत्रीमन्त्रं जपेत्) ॐ भुर्भुवःस्वः ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥ धियोयोनः प्प्रचोदयत् ॥ ॐ भो गायत्रि देवि त्वं विश्वामित्रशापाद्विमुक्ता भव ॥ ॐ भो गायत्रि देवि त्वं शुक्रशापाद्विमुक्ता भव ॥ ॥ अथ गायत्रीध्यानम् ॥ मुक्ताविद्रुमहेमनीलधवलाच्छायैर्मुखैस्त्रीक्षणै र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् । गायत्रीं वरदाभयाङ्कुशकशां शुभ्रं कपालं गुणं शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ ॥ पश्चाद् १०८ वारं गायत्रीमन्त्रं जपेत् ॥ ॐ सुरभिर्ज्ञानं वैराग्यं योनिः शङ्खोऽथ पङ्कजम् । लिङ्गं निर्वाणेति जपेत् ॥ ॥ जपार्णम् ॥ ॐ अनेन प्रातःसन्ध्याङ्गभुतेन यथाशक्ति गायत्रीमन्त्रजपेन गायत्री देवी प्रीयतां न मम ॥ ॥ प्रार्थना ॥ ॐ यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् । तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ उत्तरे शिखरे देवि भूम्यां पर्वतमूर्धनि । ब्रह्मणेभ्योऽभ्यनुज्ञाता गच्छ देवि यथासुखम् ॥ ॥ गोत्रप्रवरोच्चारणपूउर्वकमभिवादनम् ॥ अमुकगोत्रोत्पन्नः अमुकप्रवरान्वितः शुक्लयजुर्वेदान्तर्गतवाजसनेयि माध्यान्दिनीयशाखाध्यायी अमुकशर्माहम् ॥ भो आचार्य ! त्वामभिवादयामि । भो वैश्वानर ! त्वामभिवादयामि । भो सूर्यचन्द्रमसौ ! युवामभिवादयामि । भो मातापितरौ ! युवामभिवादयामि । भो याज्ञवल्क्य ! त्वामभिवादयामि । भो ईश्वर ! त्वामभिवादयामि । ॥ सन्ध्यार्पणम् ॥ ॐ अनेन प्रातः सन्ध्योपासनाख्येन कर्मणा भगवान् ब्रह्मस्वरूपी परमेश्वरः प्रीयतां न मम ॥ ॐ तत्सद् ब्रह्मार्पणमस्तु ॥ (त्रिराचमेत्) ॥ हस्तौ बद्धवा ॥ ॐ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ ॐ विष्णवे नमः । ॐ विष्णवे नमः । ॐ विष्णवे नमः । ॐ तत्सद् ब्रह्मार्पणमस्तु ॥ इति प्रातः सन्ध्याप्रयोगः ॥॥ अथ शुक्लयजुर्वेदीयमध्याह्नसन्ध्याप्रयोगः ॥ ॥ सङ्कल्पः ॥ ॐ अत्राद्य महामाङ्गल्यफलप्रदमासोत्तमेमासे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे ममोपात्तदुरितक्षयर्थं रुद्रावाप्तये मध्याह्नसन्ध्योपासनमहं करिष्ये ॥ ॥सावित्र्यावाहनम् ॥ ॐ सावित्रीं युवतीं शुक्लां शुक्लवस्त्रां त्रिलोचनाम् । त्रिशूलिनीं वृषारूढां रुद्ररूपिणीसंस्थिताम् ॥ रुद्राणीं रुद्रदैवत्यां रुद्रलोकानिवासिनीम् । आवहयाम्यहं देवीमायान्तीं रुद्रमण्डलात् ॥ आगच्छ वरदे देवि त्र्यक्षरे रुद्रवादिनि । सावित्रि छन्दसां मातर्रुद्रयोनि नमोऽस्तुते ॥ ॥ अम्बुप्राशनम् ॥ ॥ विनियोगः ॥ ॐ आपः पुनन्त्विति मन्त्रस्य नारायण ऋषिः आपो देअवता गायात्री छन्दः अम्बुप्राशने विनियोगः ॥ ॥ अम्बुप्राशनम् ॥ ॐ आपः पुनन्तु पृथवीं पृथवीपूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिर्ह्मपूता पुनातु माम् ॥ यदुच्छिष्टमभोज्यं च यद्वादुश्चरितं मम, सर्वां पुनन्तु मामापो सताञ्च प्रतिग्रहꣳस्वाहा ॥ ॥ अर्घ्यम् ॥ (एकवारं गायत्रीमन्त्रेण अर्घ्यं दद्यात्) ॐ आकृष्ण्णेनरजसाव्वर्त्तमानो निवेशयन्नमृतम्मर्त्यञ्च ॥ हिरण्ण्ययेनसवितारथेनादेवोयाति भुवनानिपश्श्यन् ॥ ॐ मध्याह्नसन्ध्यायां रुद्र स्वरूपिणे सवित्रे सूर्यनारायणाय नमः । इदमर्घ्यं दत्तं न मम ॥ ॐ असावादित्यो ब्रह्म ॥ ॥ जपार्णम् ॥ ॐ अनेन मध्याह्नसन्ध्याङ्गभुतेन यथाशक्ति गायत्रीमन्त्रजपेन गायत्री देवी प्रीयतां न मम ॥ ॥ सन्ध्यार्पणम् ॥ ॐ अनेन मध्याह्नसन्ध्योपासनाख्येन कर्मणा भगवान् रुद्रस्वरूपी परमेश्वरः प्रीयतां न मम ॥ ॐ तत्सद् ब्रह्मार्पणमस्तु ॥ त्रिराचमेत् । ॥ इति मध्याह्नसन्ध्याप्रयोगः ॥
॥ अथ शुक्लयजुर्वेदीयसायंसन्ध्याप्रयोगः ॥ ॥ सङ्कल्पः ॥ ॐ अत्राद्य महामाङ्गल्यफलप्रदमासोत्तमेमासे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे ममोपात्तदुरितक्षयर्थं विष्णुवाप्तये सायंसन्ध्योपासनमहं करिष्ये ॥ ॥ सरस्वत्यावाहनम् ॥ ॐ वृद्धां सरस्वतीं कृष्णां पीतवस्त्रां चतुर्भुजाम् । शङ्खचक्रगदापद्महस्तां गरुडवाहिनीम् ॥ वैष्ण्वीं विष्णुदैवत्यां विष्णुलोकनिवासिनीम् । आवाहयाम्यहं देवीमायान्तीं विष्णुमण्डलात् ॥ आग्च्छ वरदे देवि त्र्यक्षरे विष्णुवादिनि । सरस्वति छन्दसा मातार्विष्णुयोनि नमोऽस्तुते ॥ ॥ अम्बुप्राशनम् ॥ ॥ विनियोगः ॥ ॐ अग्निश्चमेत्यस्य नारायणः ऋषिः अग्निर्देवता अनुष्टुब्छ्न्दः अम्बुप्राशने विनियोगः ॥ ॐ अग्निश्चमा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां यदह्ना पापमकार्षं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना अहस्तदवलुम्पतु यत्किञ्चिद्दुरितं मयि इदमहं माममृतयोनौ सत्ये ज्योतिषि जुहोमि स्वाहा ॥ ॥ अर्घ्यम् ॥ (त्रिवारं गायत्रीमन्त्रेण अर्घ्यं दद्यात्) ॐ सायंसन्ध्यायां विष्णु स्वरूपिणे सवित्रे सूर्यनारायणाय नमः । इदमर्घ्यं दत्तं न मम ॥ ॥ जपार्णम् ॥ ॐ अनेन सायंसन्ध्याङ्गभुतेन यथाशक्ति गायत्रीमन्त्रजपेन गायत्री देवी प्रीयतां न मम ॥ ॥ सन्ध्यार्पणम् ॥ ॐ अनेन सायंसन्ध्योपासनाख्येन कर्मणा भगवान् विष्णुस्वरूपी परमेश्वरः प्रीयतां न मम ॥ ॐ तत्सद् ब्रह्मार्पणमस्तु ॥ त्रिराचमेत् । ॥ इति सायंसन्ध्याप्रयोगः ॥