अक्षर आकार:

संज्ञानसूक्त

sanj~nAnasUkta

संज्ञानसूक्त

॥ ॐ ॥ ॥ अथ संज्ञान सूक्तम् ॥ सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् । देवा भागं यथा पूर्वे संजानाना उपासते ॥ समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् । समानं मन्त्रमभिमन्त्रये वः समानेन वो हविषा जुहोमि ॥ समानी व आकूतिः समाना हृदयानि वः । समानमस्तु वो मनो यथा वः सुसहासति ॥ ऋग्वेद मंडल १०: १९१:२-३-४