अक्षर आकार:

गोष्ठसूक्त

Gosthasukta

गोष्ठसूक्त

सं वो गोष्ह्ठेन सुषदा सं रय्या सं सुभूत्या । अहर्जातस्य यन्नाम तेना वः सं सृजामसि ॥ १॥ सं वः सृजत्वर्यमा सं पूषा सं बृहस्पतिः । समिन्द्रो यो धनञ्जयो मयि पुष्यत यद्वसु ॥ २॥ संजग्माना अबिभ्युषीरस्मिन् गोष्ठे करीषिणीः । बिभ्रतीईः सोम्यं मध्वन्मीवा उपेतन ॥ ३॥ इहैव गाव एतनेहो शकेव पुष्यत । इहैवोत प्र जायध्वं मयि संज्ञानमस्तु वः ॥ ४॥ शिवो वो गोष्ठी भवतु शारिशाकेव पुष्यत । इहैवोत प्र जायध्वं मया वः सं सृजामसि ॥ ५॥ मया गावो गोपतिना सचध्वमयं वो गोष्ठ इह पोषयिष्णुः । रायस्पोषेण बहुला भवन्तीर्जीवा जीवन्तीरुप वः सदेम ॥ ६॥ सन्दर्भ - अथर्ववेद ३.१४