अक्षर आकार:

विश्वाकर्मोपनिषत्

vishvAkarmopaniShat

विश्वाकर्मोपनिषत्

अथ विश्वाकर्मोपनिषत् । ज्योतिर्मयं शान्तमयं प्रदीप्तं, विश्वात्मकं विश्वजितन्निरीशम् । अद्यन्तशून्यं सकलैकनाथं, श्रीविश्वकर्माणमहं नमामि ॥ ॐ विश्वकर्मा दिशां पतिः स नः पशून्पातु सोऽस्मान्पातु तस्मै नमः । प्रजापतिकद्रो वरुणोऽग्निर्दिशाम्पतिः स नः पशून्पातु सोऽस्मान्पातु तस्मै नमः ॥ अथ पुरुषो ह वै विश्वकर्मणो कामयत प्रजाः सृजेयेति । विश्वकर्मणः प्राणो जायते मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ विश्वकर्मणो ब्रह्मा जायते । विश्वकर्मणो रुद्रो जायते । विश्वकर्मणो नारायणो जायते । विश्वकर्मणः प्रजापतयः प्रजायन्ते । विश्वकर्मणो द्वादशादित्या रुद्रा वसवः सर्वे देवताः सर्वे ऋषयः सर्वाणि छन्दांसि सर्वाणि भूतानि वा समुत्पद्यन्ते । विश्चकर्मणि प्रवर्धन्ते । विश्वकर्मणि प्रलीयन्ते । ॐ अथ नित्यो देवो एको विश्वकर्मा । यो देवानां नामधारी एक एव विश्वकर्मा । विराट विश्वकर्मा । स्वराड्विश्वकर्मा । सम्राड्विश्वकर्मा । अथ रुद्रो विश्वकर्मा । ब्रह्मा विश्वकर्मा । शिवश्च विश्वकर्मा । विष्णुश्च विश्वकर्मा । शक्रश्च विश्वकर्मा । द्यावापृथिव्यौ च विश्वकर्मा । कालश्च विश्वकर्मा । दिशश्च विश्वकर्मा । दिक्चक्रश्च विश्वकर्मा । अग्निश्च विश्वकर्मा । ऊर्ध्वश्च विश्वकर्मा । अधश्च विश्वकर्मा । अवान्तरश्च विश्वकर्मा । अन्तर्बहिश्च विश्वकर्मा । विश्वकर्मणो निराकृतिः । विश्वकर्मण एवेदं सर्वं यद्भूतं यच्च भव्यम् । निष्कलङ्को निरञ्जनो निर्विकल्पो निराख्यातः ॥ शुद्धाद्वैतैको विश्वकर्मा, न द्वितीयोऽस्ति कश्चित् । य एवं वेद स विश्वकर्मारो भवति ॥ ॐ इत्यग्रे व्याहरेत् । नमेति पश्चात् । विश्वकर्मणेः इति उपरिष्ठात् । ॐ इत्येकाक्षरं नम इति द्वे अक्षरे विश्वकर्मण इति पञ्चाक्षराणि ॥ ॐ॥ विश्वकर्मण इति षडक्षराणि । ॐ नमो विश्वकर्मण इत्यष्टाक्षरं पदं ध्यायेति । अन प्रब्रवस्सर्व आयुरोत । विन्दते प्राजापत्यं रायस्पोषकं गौपत्यम् ॥ ततो अमृतत्त्वमश्नुते । इति एवं वेद । प्रत्यगानन्द ब्रह्म पुरुषं प्रणवस्वरूपम् । अकार, उकारो, मकार इति । तानेकधारममरत्तदेतद्गोमिति । यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् ॥ ॐ नमो विश्वकर्मण इति ममोपासकः सायुज्ये गमिष्यति । तदिदं परं पुण्डरीकं विज्ञान धनम् । तस्मात् तदिदावन्मात्रं ब्रह्मण्यो विश्वकर्मोम् । सर्वभूतस्थमेकं विश्वकर्माणं कारणरूपं मकार परविश्वब्रह्मोम् । पदं विष्टावाख्यमिति तेऽपि विश्वकर्माख्योपनिषदम् । यो ह वै विश्वकर्मण्योपनिषदमधीते । सर्वेभ्यो पापेभ्यो विमुक्तो भवति । स सर्वेभ्यः विमुक्तः सर्वान्कामानवाप्नोति । ब्रह्मत्वं च गच्छति । इत्युपनिषत् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥