अक्षर आकार:

विश्रामोपनिषत्

vishrAmopaniShat

विश्रामोपनिषत्

ॐ पूर्वदले श्वेतवर्णे यदा विश्राम्यते मनः । तदा धैर्यमुदारं च धर्मकीर्तिमतिर्भवेत् ॥ अग्निदले रक्तवर्णे यदा विश्राम्यते मनः । तदा क्रोधश्च कामश्च मन्दबुद्धिर्मतिर्भवेत् ॥ कृष्णवर्णे दक्षिणदले यदा विश्राम्यते मनः । निद्रालस्यभयं देवि मत्सरे च मतिर्भवेत् ॥ नैरृतदले नीलवर्णे यदा विश्राम्यते मनः । तदा क्रोधश्च कामश्च मनोभिन्नमतिर्भवेत् ॥ पश्चिमदले कपिलवर्णे यदा विश्राम्यते मनः । तदा हास्यविनोदौ च उत्साहे च मतिर्भवेत् ॥ श्यामवर्णे वायुदले यदा विश्राम्यते मनः । तदा चिन्तोच्चाटनं च वैराग्ये च मतिर्भवेत् ॥ पीतवर्णोत्तरदले यदा विश्राम्यते मनः । तदा श‍ृङ्गारभोगौ च कल्पनायां मतिर्भवेत् ॥ गौरवर्णेशानदले यदा विश्राम्यते मनः । तदा कृतात्मानं धर्मकीर्तिमतिर्भवेत् ॥ सन्धौ सन्धौ मिश्रितानां यदा विश्राम्यते मनः । तदा देहो गृहं राज्यं निर्दोषा च मतिर्भवेत् ॥ श्यामवर्णे मध्यदले यदा विश्राम्यते मनः । तदा सर्वगुण ज्ञान चैतन्य च मतिर्भवेत् ॥ यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते । ये पठन्ति सदा भक्त्या सायुज्यपदमाप्नुयुः ॥ इति विश्रामोपनिषत् सम्पूर्णा ।