अक्षर आकार:

वज्रपञ्जरोपनिषत्

Vajrapanjara Upanishad

वज्रपञ्जरोपनिषत्

सह नाववतु-इति शान्तिः । वज्रपञ्जरेण भस्मधारणं कुर्यात् । वामकरे भस्म गृहीत्वा सद्योजातमिति पञ्चब्रह्ममन्त्रः । त्रियम्बकं जातवेदसे गायत्र्या मानस्तोकैरभिमन्त्र्य मूलेन सप्तवारमभिमत्र्य श्रीविद्येयं शिरसि । ऐं वद वद वाग्वादिनि ह्स्रैः क्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरु । हसकलरी ॐ मोक्षं कुरु कुरु । ह्सौः इति मुखे । ॐ ॐ नमो भगवति ज्वालामालिनि देवदेवि सर्वज्ञानं हारिके जातवेदसि ज्वलन्ति ज्वलन्ति प्रज्वल प्रज्वल ह्रां ह्रीं ह्रूं र र र र ज्वालामालिनि हुं फट् स्वाहा इति हृदये । जलवासिन्यै नमो नाभौ । ह्रीं वह्निवासिन्यै नमो गुह्ये । ॐ सह...नाभ्यादिजान्वन्तम् । ॐ ह्रीं श्रीं पशु हुं फट् स्वाहा जान्वादिपादपर्यन्तम् । ॐ ह्रीं स्फुर स्फुर प्रस्फुर प्रस्फुररूप तट तट चट चट प्रचट प्रचट कह कह वम वम बन्धय बन्धय घातय घातय हुं फट् स्वाहा हत्यघोरेण शिरसि । ॐ वैष्णव्यै नमो हृदये । पुनः अघोरेण पृष्ठे । पुनः सुदर्शनेन जान्वादिनाभ्यन्तम् । पुनः पाशुपतेन पादादिजान्वन्तम् । ह्सौः अ अं क्षं शौः । ॐ ह्रीं क्लीं क्ष्रौं श्रीम् ॥ उग्रं वीरं महाविप्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ श्रीं क्ष्रौं श्रीं ह्रीं ॐ इति दक्षिणबाहौ । ॐ क्षां ॐ नमो भगवते नारसिंहाय ज्वालामालिने तीक्ष्णदंष्ट्राग्निनेत्राय सर्वरक्षोघ्नाय सर्वज्वरविनाशाय सर्वभूतविनाशाय दह दह पच पच रक्ष रक्ष हुं फट् स्वाहा इति वामबाहौ । उत्तिष्ठ पुरुष हरितपिङ्गळ लोहिताक्ष देहि मे दापय स्वाहा । ॐ ह्रीं दुं उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितम् । यदि शक्यमशक्यं वा ते भगवति शमय शमय स्वाहा ॥ मृत्योस्तुल्यं त्रिलोकीं ग्रसितुमतिरसान्निस्सृता किं नु जिह्वा किं वा कृष्णाङ्घ्रिपद्मसृतिभिररुणिता विष्णुपद्याः पदव्यः । प्राप्ताः सन्ध्याः स्मरारेः स्वयमुत नुतिभिस्तिस्र इत्यूह्यमानाः देवैर्देव्यास्त्रिशूलक्षतमहिषजुषो रक्तधारा जयन्ति ॥ इति बडबानलदुर्गामृत्योस्तुल्यवनदुर्गाभिः सर्वाङ्गमुद्धूळयेत् । ततः शेषभस्मनि जलं निक्षिप्य त्रिपुण्ड्रधारणं कुर्यात् । एता एव महाविद्या विभूतेरभिधारणे । कथिताः परमेशानि सतां पूर्वतराघहाः ॥ वज्रपञ्जरनाम्नैव यः कुर्याद्भस्मधारणम् । स सर्वभयनिर्मुक्तः साक्षाच्छिवमयो भवेत् । पूतानि तानि श्रीमन्त्रपवित्रे यानि भस्मनि ॥ दग्धकामाङ्गविभूतित्रैपुण्ड्रितानि कथितानि ललाटपट्टे लोपयन्ति दैवलिखितानि दुरक्षराणि ॥ (शैव-उपनिषदः) इति वज्रपञ्जरोपनिषत् समाप्त ।