अक्षर आकार:

तुलस्युपनिषत्

tulasyupaniShat

तुलस्युपनिषत्

अध तुलस्युपनिषदं व्याख्यास्यामः । नारद ऋषिः । अथर्वाङ्गिराश्छन्दः । अमृता तुलसी देवता । सुधाबीजम् । वसुधा शक्तिः । नारायणः कीलकम् । श्यामां श्यामवपुर्धरां ऋक्स्वरूपां यजुर्मनसं ब्रह्माथर्वप्राणां कल्पहस्तां पुराणपठितां अमृतोद्भवां अमृतरसमञ्जरीं अनन्तां अनन्तरसभोगदां वैष्णवीं विष्णुवल्लभां मृत्युजन्मनिबर्हिणीं दर्शनात्पापनाशिनीं स्पर्शनात्पावनीं अभिवन्दनाद् रोगनाशिनीं सेवनात् मृत्युनाशिनीं वैकुण्ठार्चनात् विपद्धन्त्रीं, भक्षणात् वयुनप्रदां , प्रादक्षिण्यात् दारिद्र्यनाशिनीं, मूलमृल्लेपनात् महापापभञ्जिनीं घ्राणतर्पणात् अन्तर्मलनाशिनीं य एवं वेद स वैष्णवो भवति । वृथा न छिन्द्यात् । दृष्ट्वा प्रदक्षिणं कुर्यात् । द्वादश्यां न स्पृशेत् । पर्वणि न विचिन्वेत् । यदि विचन्वति स विष्णुहा भवति । श्री तुलस्यै स्वाहा । विष्णुप्रियायै स्वाहा । अमृतायै स्वाहा । श्री तुलस्यै विद्महे विष्णुप्रियायै धीमहि । तन्नो अमृता प्रचोदयात् । अमृतेऽमृतरूपाऽसि अमृतत्वप्रदायिनि । त्वं मामुद्धर संसारात् क्षीरसागर कन्यके ॥ १ श्रीसखि त्वं सदानन्दे मुकुन्दस्य सदा प्रिये । वरदाभयहस्ताभ्यां मां विलोकय दुर्लभे ॥ २ अवृक्षवृक्षरूपाऽसि वृक्षत्चं मे विनाशय । तुलस्यतुलरूपाऽसि तुलाकोटिनिभेऽजरे ॥। ३ अतुले त्वत्तुलायां हि हरिरेकोऽस्ति नान्यथा । त्वमेव जगतां धात्री त्वमेव विष्णुवल्लभा ॥ ४ त्वमेव सुरसंसेव्या त्वमेव मोक्षदायिनी । त्वच्छायायां वसेल्लक्ष्मीः त्चन्मूले विष्णुरव्ययः । समन्ताद् देवताः सर्वाः सिद्धचारणपन्नगाः ॥ ५ यन्मूले सर्वतीर्थानि यन्मध्ये ब्रह्म देवताः । यदय्रे वेदशास्राणि तुलसीं तां नमाम्यहम् ॥ ६ तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे । नमस्ते नारदनुते नारायणमनः प्रिये ॥ ७ ब्रह्मानन्दाश्रुसञ्जाते वृन्दावननिवासिनि । सर्वावयसम्पूर्णे अमृतोपनिषद्रसे ॥ ८ त्वं मामुद्धर कल्याणि महापापाब्धिदुस्तरात् । सर्वेषामपि पापानां प्रायश्चित्तं त्वमेव हि ॥ देवानां च ऋषीणां च पितॄणां त्वं सदा प्रिया ॥ ९ विना श्रीतुलसीं विप्रा येऽपि श्राद्धं प्रकुर्वते । वृथा भवति तच्छ्राद्धं पितॄणां नोपगच्छति ॥। १० तुलसीपत्रमुत्सृज्य यदि पूजां करोति वै । आसुरी सा भवेत्पूजा विष्णुप्रीतिकरी न च ॥ ११ यज्ञं दानं जपं तीर्थं श्राद्धं वै देवतार्चनम् । तर्पणं मार्जनं चान्यन्न कुर्यात् तुलसीं विना ॥ १२ तुलसीदारुमणिभिर्जपः सर्वार्थसाधकः । एवं न वेद यः कश्चित् स विप्रः श्वपचाधमः ॥ १३ इत्याह भगवान् ब्रह्माणं नारायणः ,ब्रह्मा नारदसनकादिभ्यः, सनकादयो वेदव्यासाय, वेदव्यासः शुकाय, शुको वामदेवाय, वामदेवो मुनिभ्यः , मुनयो मनुभ्यः प्रोचुः । य एवं वेद, स स्रीहत्यायाः प्रमुच्यते, स वीरहत्यायाः प्रमुच्यते, स ब्रह्महत्यायाः प्रमुच्यते, स महाभयात् प्रमुच्यते, स महादुःखात्प्रमुच्यते, देहान्ते वैकुण्ठमवाप्नोति वैकुण्ठमवाप्नोति । इत्युपनिषत् । (वैष्णव-उपनिषदः) इति तुलस्युपनिषत् समाप्ता । Kasturi navya sahiti