अक्षर आकार:

तारोपनिषत्

tAropaniShat

तारोपनिषत्

ॐ नमः शिवाय । अथ हैनां ब्रह्मरन्ध्रे तारिणीमाप्नोति । तारयीतीति तारा । तारा स्यादर्द्वपञ्चाक्षररूपा ब्रह्मविष्णुमहेश्वरसदाशिवबिन्दुमेलनरूपा विद्या । तथा प्रथमं भुवनामुच्चरेत् । व्योमज्वलनेन्दिराकलाबिन्दुमेलनरूपा । ततो वधूमुच्चरेत् । षोडशहलतूर्यस्वरबिन्दुमेलनरूपा । ततः कूर्चम् व्योमषष्ठस्वरबिन्दुमेलनरूपम् । नीलाख्या सरस्वती । इमामधीयानस्तर्कागमपुराणाकाव्यादिवागीश्वरो भवति । तारादिकास्त्रान्ता चेत् तारा भवति । एतस्या ज्ञानमात्रेण जीवन्मुक्तो भवेद् वै । तामेत्य सर्वविद्याज्ञानवान् भवति । वारत्रयं यः पठेत् स सन्यासि शिव इव सर्वदेवमयो भवति । ताररहिता पुनरेकजटा भवति । एतद्रूपामधीयाना समानफलदा । नात्र मित्रामित्रादिविचारणा । सिद्धविद्यानामासां फलं दक्षिणावत् । अथातो मन्त्रान् जलसुद्धिक्षालनाचमनकराक्षतप्रक्षेप- त्रिविधविघ्नोत्सारणभूम्यभिमन्त्रणं जलाभ्युक्षणकुसुमशुद्धियन्त्रनिर्माणरूपानागमवादी लिखेत् । एकलिङ्गे पितृभूमौ चिरशून्यनिर्जने देवालये विजने चतुष्पथे उज्जटे भूधरतटे निर्जने देशे निर्जन देवागरि श्रीफलमूले विजने नदीतीरे चैत्यहट्टे वटाश्वत्थमूले स्वगृहे वा पूजा । पञ्चतत्वविधिना । अक्षोभ्यमुनिरस्यापि छन्दस्तु बृहती कूर्चं बीजं शक्तिर्भुवना वधूः कीलकम् । एकजटा तारिणी वज्रोदकैकोग्रजटा महाप्रतिसरा पिङ्गोग्रैकजटा आभिमुख्येन षडङ्गानि इन्द्रनीलावर्णाभा मूलमन्त्रभाञ्जि मूलाधारनाभिहृदयब्रह्मरनन्ध्रेषु भुवना वधूकूर्चशोषणदहनप्रोत्सारणामृताकृतिमूर्तिर्जननीया तत्वविधिना । सजलप्रावृषेण्यघनराजिनिभाह्यष्टवर्षा पीनोन्नतवक्षोरुहा नानाविधस्त्र्यलङ्कार विराजिता । सर्वा लम्बोदरी भीमा व्याघृत्वगावृता महाचीनगुरुकपालपञ्चमुद्रा विराजिता भीमदंष्ट्रा करालास्या पिङ्लोग्रैकजटा खड्गकर्तृदक्षिणकरयुगा कपालोत्पलवामकारयुगा अक्षोभ्यमौलीन्दुप्रज्वलिता पितृभूमिमध्यस्ठा ध्येया । चित्ततोष्णानन्तरं स्वयम् तारिणीति आत्मभेदतया आत्मनि सन्तोष्य पूर्वमोंकारं तत आकारः परे सुरेखे वज्ररेखे उत्तरे कूर्चं तदन्तास्त्रवह्निजाया । चतुरस्राष्टदलत्रिकोणरूपं यन्त्रम् । लक्ष्मी सरस्वती रतिः प्रीतिः कीर्तिः तुष्टिः शान्तिः सदाशिवश्चात्र गमागमवशात् पुष्पाञ्जलियोगमूलमन्त्ररूपपटलविहितकुसुमपरद्रव्यदानतर्पणम् । नैवेद्यभूतबलिदानादिमुख्यषडङ्गानि । गुरूनपि यथादेशम् । पूर्वादिदिशि गणेशवटुकक्षेत्रपालयोगिन्यः । आग्नेयादिषु शङ्खपाण्डर तारकान् । त्रिकोणेषु बीजत्रयम् । दिशि पद्मान्तकयमान्तकविघ्नान्तकनरान्तकान् । त्रिकोणेषु बीजत्रयम् ब्राह्मी वैष्णवी माहेश्वरी शक्तित्रययुता यथायोग्यं वस्त्रालङ्कार महाशङ्खमालया लक्ष नियमेनानियमेन वा सिद्धविद्यानाम् देवज्ञानप्रकाशकानाम् संज्ञानसङ्कान् । कालिकाविहितानि कल्पानि कुर्यात् । अथ हैनं भगवन्तम् परमेष्ठिनं सनत्कुमारः पप्रच्छ येन सर्वस्य सर्वं भवति तन्मन्त्रम् कथय भगवन् को हि मन्त्राणाम् परमा मन्त्रदेवतानाञ्च दैवतम् किमुतास्य विद्यायुगशोधनं पुत्रपौत्रकवित्वञ्च धनधान्यकवित्वञ्च निर्वाणमोक्षं च लभते बुधः । केन विधिना आराध्यते केन मन्त्रेण सर्वमिति । अथाह भगवान् ब्रह्मा मन्त्राणां परमो मन्त्रस्तारेति परमा तारा सा देवतानाञ्च देवता । सर्वदा स्त्रीषु मध्येषु जपेत् । स्त्रिया योनौ सदा जपेत् । ऋतुमतीं गच्छेत् । तुलसीम् त्यजेत् । एवम् कृत्वा गुरुः शिष्योऽयुतद्वयं निशायाम् एकाकी शून्यगृहे तिमिरालये । तदा सर्वस्य सर्वं तरति यशस्यन्ते नराः । ॐ । इति तारोपनिषत् समाप्ता । ॐ तारायै नमः ।