अक्षर आकार:

सुदर्शनोपनिषत्

Sudarshana Upanishad

सुदर्शनोपनिषत्

यज्ञोपवीती धृतचक्रधारी यो ब्राह्मणो ब्रह्मविद्ब्रह्मविदां मनीषी हिरण्यमादाय सुदर्शनं कृत्वा वह्निसंयुक्तं स्त्रीशूद्रैर्बाहुभ्यां धारयेत् । तस्माद्गर्भेण जायते । ब्राह्मणस्य शरीरं जायते । श्रीविष्णुं सर्वेश्वरं भजन्ति ॥ नासादिकेशपर्यन्तमूर्ध्वपुड्रं तु धाग्येत् । उद्धृतासि वराहेण कृष्णेन शतबाहुना । भूमिर्धेनुर्धरणी लोकधारिणी ॥ मृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् ॥ तस्माद्द्विरेखं भवति । तं देवकीपुत्रं समाश्रये । अग्निना वै होत्रा चक्रं पाञ्चजन्यं प्रतप्तं द्वयोर्भुजयोर्धारयेत् । आत्मकृतमाचरेत् । आचार्यस्य सम्मुखं प्रपद्येत । तस्माद्वैकुण्ठं न पुनरागमनं सालोक्यसामीप्यसारूप्यसायुज्यं गच्छति । य एवं वेद । इत्युपनिषत् (९) ``यज्ञोपवीतोपनिषत्'' इत्याख्यया या पूर्वं प्रकाशिता सैवेयमेतदवधीति विभाव्यताम् । Footnote यजुर्वेदे तृतीयकाण्डे तृतीयप्रश्ने - ``कक्षमुपौषेद्यदि दहति पुण्यसमं भवति यदि न दहति पापसममेतेन''। उष दाहे । उपकक्षं भुजः । ``चरणं पवित्रं विततं पुराणम् । येन पूतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन पूताः । अतिपाप्मानमरातिं तरेम । लोकस्य द्वारमर्चिमत्पवित्रम् । ज्योतिष्मद्भ्राजमान महस्वत् । अमृतस्य धारा बहुधा दोहमानम् । चरणं नो लोके सुधितां दधातु'' । ``पवित्रं ते विततं ब्रह्मणस्पते । प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते । श‍ृतास इद्वहन्तस्तत्समाशत ।'' यो ह वै सुश्लोकमौले धर्माननुतिष्ठमानोऽग्निना चक्रं योऽग्निर्वै सहस्रारस्सहस्रारो नेमिर्नेमिना तप्ततनूस्सायुज्यं सलोकतामाप्नोतीति ॥ चक्रं बिभर्ति वपुषाभितप्तं बलं देवानाममृतस्य विष्णोः । स एति नाकं दुरिता विधूय विशन्ति यद्यतयो वीतरागाः ॥ चमूषच्छ्येनश्शकुनो बिभृत्वा गोविन्दद्रप्स आयुधानि बिभ्रत् (?) । अपामूर्मिं सचमानस्समुद्रं तुरीयं घाम महिषो विवक्ति (?) ॥ शङ्खचक्रोर्ध्वपुण्ड्रादिधारणं स्मरणं हरेः । तदीयाराधनं चैव भक्तिर्बहुविधा स्मृता ॥ पशुपुत्रादिकं सर्वं गृहोपकरणानि च । अङ्कयेच्छङ्खचक्राभ्यां नाम कुर्याच्च वैष्णवम् ॥ पशुर्मनुप्यः पक्षी वा ये च वैष्णवसंश्रयाः । तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम् ॥ दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् । सव्ये तु शङ्खं बिभृयादिति ब्रह्मविदो विदुः ॥ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः । अर्चनीयश्च सेव्यश्च नित्ययुक्तैः स्वकर्मसु ॥ ये कण्ठलयतुलसीनलिनाक्षमाला ये बाहुमूलपरिचिह्नितशङ्खचक्रा । ये वा ललाटफलके लसदूर्ध्वपुण्ड्राः श्रीवैष्णवा भुवनमाशु पवित्रयन्ति ॥ पञ्चार्द्रतत्त्वविदुषां पञ्चसंस्कारसंस्कृतम् । पञ्चावस्थास्वरूपं ते विज्ञेयं सततं विभो ॥ पञ्चसंस्कारयुक्तानां वैष्णवानां विशेषतः । गृहार्चनविधाने न शङ्खं घण्टारवं त्यजेत् । इति । एतदथर्वशिरो योऽधीते य ऊर्ध्वपुण्ड्रं विधिवद्विदित्वा धारयति स वैदिको भवति । स कर्मार्हो भवति । अनेन तेजस्वी यशस्वी ब्रह्मवर्चस्वी भवति । अनेक कायिकवाचिकमानसपातकेभ्यः पूतो भवति । श्रीविष्णुसायुज्यमवाप्नोति । श्रीविष्णुसायुज्यमवाप्नोति । य एवं वेद । इत्युपनिषत् ॥ (वैष्णव-उपनिषदः) इति सुदर्शनोपनिषत् समाप्त ।