अक्षर आकार:

सदानन्दोपनिषत्

Sadananda Upanishad

सदानन्दोपनिषत्

तच्छंयोरावृणीमहे-इति शान्तिः अथैनं सदानन्दः संवर्तो जैगीषव्यश्च नीललोहितं रुद्रमुवाच । भगवन् किमपवर्गं साधयतीति । स एतेभ्यो भगवान् नीललोहितः प्रोवाच । अन्तर्बहिर्धारितं परम्ब्रह्माभिधेयं शाम्भवं लिङ्गम्, आधारे दहरेऽव्यक्ते स्वर्णस्फाटिकवैद्रुमम् । निरन्तरानुसन्धानात् तदन्तर्धारणे विदुः ॥ चतुर्दलं द्वादशारं द्व्यश्रमव्यक्तकं शिवम् । दहरेऽङ्गुष्ठमात्रं तमुमाकान्तमहर्निशम् । अनिराकारमात्मानं धृत्वा यान्ति परं पदम् ॥ परात् परतरो ब्रह्मा तत्परात् परतो हरिः । तत्परात् परतोऽधीशस्तस्मात् स्यादुत्तरः शिवः ॥ जातवेदसमव्यक्तं व्यक्ताव्यक्तं परं सदा । तमात्मस्थं येऽनुपश्यन्ति धीराः । तेषां शान्तिः शाश्वती नेतरेषाम् ॥ अन्तर्धारणशक्तेन ह्यशक्तेन द्विजोत्तमाः । सन्त्कृत्य गुरुणा दत्तं शैवं लिङ्गमुरःस्थले । धार्यं विप्रेण मुक्त्यर्थे शिवतत्त्वविदो विदुः ॥ येनाचिरात्सर्वपापं व्यपोह्य परात्परं पुरुषमुपैति विद्वान् । अस्य मात्रा अकारो ब्रह्मरूप उकारो विष्णुरूपो मकारः कालकालः अर्धमात्रा परमशिवः ओङ्कारो लिङ्गम् ॥ योऽसौ सर्वैषु वेदेषु पठ्यते ह्यज ईश्वरः । तस्मात्तद्धारणादेतल्लिङ्गदेहमलौकिकम् । मृतेऽपि तन्न दह्येत बिले चैतद्विनिक्षिपेत ॥ ने कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः ॥ यो वा स्वहस्तार्चितलिङ्गमेकं परात्पर धारयते नरो वा । तस्यैव लभ्यः परमेश्वरोऽसौ निरञ्जनं साम्यमुपैति दिव्यम् ॥ शिवलिङ्गधरं विप्रं विपन्नं त न दाहयेत् । यदि वा दाहयेत्तस्य ब्रह्महत्या तदा भवेत् ॥ यदिदं लिङ्गं सकळं सकळनिष्कळं निष्कलं च स्थूलं सूक्ष्मं च तत्परं स्थूले स्थूलं सूक्ष्मे सूक्ष्मं कारणे तत्परं च ॥ आत्मानभरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनादेव पाशं दहति मानवः । अन्तर्बहिश्च तल्लिङ्गं विधत्ते यस्तु शाश्वतम् ॥ अविद्याऽऽवरणं भित्त्वा ब्रह्मणः सायुज्यं सलोकतामाप्नोति । तदिदं लिङ्गं प्रीम् । तदिदं ॐ सत्यम् । यो विद्वान् ब्रह्मचारी गृही वानप्रस्थो यतिर्वा सदानन्दोपनिषदं पठति सोऽग्निपूतो भवति । स सत्यपूतो भवति । स्वर्णस्तेयात् पूतो भवति । ब्रह्महत्यायाः पूतो भवति । स सकलभोगभुक् देहं त्यक्त्वा शिवसायुज्यमेति । इत्युपनिषत् ॥ (शैव-उपनिषदः) इति सदानन्दोपनिषत् समाप्ता ।