अक्षर आकार:

श्रीरामकृष्ण परमहंसोपनिषत्

Shriramakrishna Paramahansopanishadam

श्रीरामकृष्ण परमहंसोपनिषत्

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ अथ श्रीरामकृष्ण परमहंसोपनिषदं व्याख्यास्यामः । सैषाऽपरोक्षानुभवरूढा साधनप्रधाना च ॥ १॥ निर्गुणं निराकारं च परं ब्रह्म । तदेव भक्तजनानां शीतल भक्तेः प्रभावात् सगुणः साकारः परमेश्वरो भवति हिममिव जलात् शैत्यात् । स एव परमेश्वरो निखिलजगदंतर्यामी च ॥ २॥ राम-कृष्ण-शिव-विष्णु-गाॅडल्लेत्यादि विविधनामभिर्निर्दिष्टं परंतत्त्वमपि स एव । स एव लक्ष्मी-दुर्गा-काली-सरस्वतीत्यादि देवीनामभिरपि निर्दिश्यते ॥ ३॥ व्यवहारदशायां यत्र पुरुषोऽज्ञो द्वैतमिव पश्यति तदा काल्यादि देव्यः परस्यैव ब्रह्मणः शक्तय इति मन्तव्यम् । दाहिकशक्तिर्यथाग्नेः । वस्तुतस्तु तयोरत्यंतमभेदः एव ॥४॥ परमेश्वरदर्शनमेव मानव जीवनस्य चरमोद्देशः । तथैव मुक्तेः साध्यत्वात् । परमेश्वरस्तु द्रष्टुं स्प्रष्टुं च शक्यः । तेन सहालापोऽपि साध्यः । सर्वे धर्माः समानास्तमेव गमयंति च ॥ ५॥ अपि तु मायाजवनिकाच्छन्नः स सुखेन द्रष्टुं न लभ्यः । कामकांचन कामनैव माया । तदपगमे सः स्वयमेवाविर्भवति मेघापायेंऽशुमानिव । ज्ञानमिश्रित भक्तिश्च मायानाशोपायः । स एव सर्वमित्यतो दीनदरिद्ररोग्यज्ञादीनां नारायणदृष्ट्या सेवाऽप्यद्यतनकालेऽ- अनुत्तमोपायश्चित्तशुद्धिद्वारा तं साक्षात्कर्तुम् ॥ ६॥ कथंचित्तं ज्ञात्वा दृष्ट्वा स्पृष्ट्वा भवबन्धनाद्विमुक्ता भवत । विमुक्ता भवतेत्युपनिषत् ॥ ७॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॥ इति स्वामी हर्षानन्दकृत उपनिशत्समाप्ता ॥