अक्षर आकार:

प्रणवोपनिषत् १

Pranavopanishad 1

प्रणवोपनिषत् १

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥ पुरस्ताद्ब्रह्मणस्तस्य विष्णोरद्भुतकर्मणः । रहस्यं ब्रह्मविद्याया धृताग्निं सम्प्रचक्षते ॥ ओमित्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः । शरीरं तस्य वक्ष्यामि स्थानकालत्रयं तथा ॥ तत्र देवास्त्रयः प्रोक्ता लोका वेदास्त्रयोऽग्नयः । तिस्रो मात्रार्धमात्रा च प्रत्यक्षस्य शिवस्य तत् ॥ ऋग्वेदो गार्हपत्यं च पृथिवी ब्रह्म एव च । अकारस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः ॥ यजुर्वेदोऽन्तरिक्षं च दक्षिणाग्निस्तथैव च । विष्णुश्च भगवान् देव उकारः परिकीर्तितः ॥ सामवेदस्तथा द्यौश्चाहवनीयस्तथैव च । ईश्वरः परमो देवो मकारः परिकीर्तितः ॥ सूर्यमण्डलमाभाति ह्यकारश्चन्द्रमध्यगः । उकारश्चन्द्रसङ्काशस्तस्य मध्ये व्यवस्थितः ॥ मकारश्चाग्निसङ्काशो विधूमो विद्युतोपमः । तिस्रो मात्रास्तथा ज्ञेयाः सोमसूर्याग्नितेजसः ॥ शिखा च दीपसङ्काशा यस्मिन्नु परिवर्तते । अर्धमात्रा तथा ज्ञेया प्रणवस्योपरि स्थिता ॥ पद्मसूत्रनिभा सूक्ष्मा शिखाभा दृश्यते परा । नासादिसूर्यसङ्काशा सूर्यं हित्वा तथापरम् ॥ द्विसप्ततिसहस्राणि नाडिभिस्त्वा तु मूर्धनि । वरदं सर्वभूतानां सर्वं व्याप्यैव तिष्ठति ॥ कांस्यधण्टानिनादः स्याद्यदा लिप्यति शान्तये । ओङ्कारस्तु तथा योज्यः श्रुतये सर्वमिच्छति ॥ यस्मिन् स लीयते शब्दस्तत्परं ब्रह्म गीयते । सोऽमृतत्वाय कल्पते सोऽमृतत्वाय कल्पते ॥ इति ॥ इति प्रणवोपनिषत् समाप्ता ।