अक्षर आकार:

पिण्डोपनिषत्

Pind Upanishad

पिण्डोपनिषत्

पितॄणां हंसरूपाणां यन्ता श्रीमज्जनार्दन । भवतापप्रणुत्यर्थं सततं तमहं श्रये ॥ १॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णामेवाशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ ॥ देवता ऋषयः सर्वे ब्रह्माणमिदमब्रुवन् । मृतस्य दीयते पिण्डः कथं गृह्णन्त्य्चेतसः ॥ १॥ भिन्ने पञ्चात्मके देहे गते पञ्चसु पञ्चधा । हंसस्त्यक्त्वा गतो देहं कस्मिँस्थाने व्यवस्थितः ॥ २॥ त्र्यहं वसति तोयेषु त्र्यहं वसति चाग्निषु । त्र्यहमाकाशगो भूत्वा दिनमेकं तु वायुगः ॥ ३॥ प्रथमेन तु पिण्डेन कलनं तस्य सम्भवः । द्वितीयेन तु पिण्डेन मांसत्वक्षोणितोद्भवः ॥ ४॥ तृतीयेन तु पिण्डेन मतिस्तस्याभिजायते । चतुर्थेन तु पिण्डेन अस्थि मज्जा प्रजायते ॥ ५॥ पञ्चमेन तु पिण्डेन हस्ताङ्गुल्यः शिरो मुखम् । षष्ठेन कृतपिण्डेन हृत्कण्ठं तालु जायते ॥ ६॥ सप्तमेन तु पिण्डेन दीर्घमायुः प्रजायते । अष्टमेन तु पिण्डेन वाचं पुष्यति वीर्यवान् ॥ ७॥ नवमेन तु पिण्डेन सर्वेन्द्रियसमाहृतिः । दशमेन तु पिण्डेन भावानां प्लवनं तथा । पिण्डे पिण्डशरीरस्य पिण्डदानेन सम्भवः ॥ ८॥ हरिः ॐ तत्सदित्युपनिषत् ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णामेवाशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इत्याथर्वणीया पिण्डोपनिषत्समाप्ता ॥