अक्षर आकार:

नीलरुद्रोपनिषत् दीपिकासमेता

nIlarudropaniShat with commentary

नीलरुद्रोपनिषत् दीपिकासमेता

ॐ तत्सद्ब्रह्मणे नमः । नारायणविरचितदीपिकासमेता । नीलरुद्रोपनिपदि षोडश्यां खण्डकत्रयम् ॥ श्रुतिरूपेण तं देवं स्तौत्यपश्यमिति क्रमात् ॥ १॥ अस्पर्शयोगमुक्त्वा तत्सम्प्रदायप्रवर्तकं परमगुरुं योगसिद्धिप्रदं नीलरुद्रं स्तौति- ॐ अपश्यं त्वाऽवरोहन्तं दिवितः पृथिवीमवः ॥ अपश्यमस्यन्तं रुद्रं नीलग्रीवं शिखण्डिनम् ॥ दिव उग्रोऽवारुक्षत्प्रत्यष्ठाद्भूम्यामधि ॥ अपश्यमिति । दिवितो दिवः । पृथिवीं भूमिमवोऽवस्तादवरोहन्तं त्वामहमपश्यमिति मन्त्रद्रष्टुर्वचः । अस्यन्तम् । असु क्षेपणे । क्षिपन्तं दुष्टान् । अनेनावतारप्रयोजनमुक्तम् । अयं ब्रह्मणः पुत्रः सनकादिषु सृष्टिमकुर्वत्सु ब्रह्मणः क्रोधादुत्पन्नः कुमारो रुरोद तेनाऽऽश्वास्य रुद्र इति नाम दत्तं तत एकादश स्थाना- न्येकादश नामान्येकादश पत्नीश्च ददौ तत्सृष्टानां रुद्राणामसङ्ख्याततां दृष्ट्वा तं भयात्तपसे न्ययोजयत्स भुवि तपश्चचारेतीतिहासः । शिखण्डिनम् शिखण्डो बर्हचूडयोः इति विश्वः । तयोरन्यतरदस्यास्तीति शिखण्डी तं दिवः सकाशादुग्रो रुद्रोऽवारुक्षदवतीर्णवान् । प्रत्यष्ठात् । प्रतिष्ठां स्थितिं कृतवान् । भूम्यामधि । अधिरीश्वर इत्यधिः कर्मप्रवचनीयः । यस्मादधिकं यस्य चेश्वरवचनमिति सप्तमी । भूमेरीश्वर इत्यर्थः । जनासः पश्यतेमं नीलग्रीवं विलोहितम् ॥ एष एत्यवीरहा रुद्रो जलासभेषजीः ॥ वि तेऽक्षेममनीनशद्वातीकारोऽप्येतु ते ॥ जनास । आज्जसेरसुक् । संवोधने चेति प्रथमा । एत्यागच्छति । न वीरहाऽवीरहा सौम्यः । यद्वाऽवीराणि पापानि हन्त्यवीरहा । एत्याऽऽगत्य वीरान्दैत्यान्हन्तीति वा । जल आसः क्षेपो यासां ता जलासाश्च ता भेषज्यश्च ता एतीत्यन्वयः । जलक्षिप्तानामोषधीनाममङ्गलनाशकत्वं रुद्रसन्निधानादेव । यद्वा समुद्रमथनावसरे समुद्रे क्षिप्तानामोषधीनामुद्भूतं विषं पातुमवतीर्णत्वादेवमुक्तम् । ते तव लोकस्याक्षेमं व्यनीनशत् । अनेन क्षेमकारित्वमुक्तम् । अलब्धलाभो योगस्तत्कारित्वमप्याह । वातीकार इति । वातिः प्राप्तिः । अप्राप्तं प्राप्तं करोतीति वातीकारः सोऽपि ते तवापूर्वलाभकरोऽप्येत्वागच्छतु । योगक्षेमकरोऽभिषेकजले सन्निहितो भवत्वित्यर्थः । मन्त्रलिङ्गादभिषेके विनियोगः । नमस्ते भव भामाय नमस्ते भव मन्यवे ॥ नमस्ते अस्तु वाहुभ्यामुतोत इषवे नमः ॥ भामः क्रोधः । मन्युस्तत्पूर्वावस्था । उतापि । उतेषवे बाणरूपाय । अस्तवे । असु क्षेपणे तवेन्प्रत्ययस्तुमर्थे । अस्तु क्षेप्तुमित्यर्थः । यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे ॥ शिवां गिरित्र तां कृणु मा हिंसीः पुरुषान्मम ॥ कं क्षेप्तुं गिरिशन्तं श्यति श्यन्गीरे श्यन्गिरिश्यन्सम्बन्धसामान्ये षष्ठ्या समासः । तं गिरिशन्तम् । छान्दसो यमलोपः । यद्वा कंशम्भ्ंया वभयुस्तितुतयसः । शमस्यास्ति शन्तो ?? kaMshambhMyA गिरिणा शन्तः सुखी पर्वतोत्पन्नत्वादिषोः । हे गिरित्र गिरिरक्षक तां शिवां कल्याणीं कुरु । शिवेन वचसा त्वा गिरिशाच्छा वदामसि । यथा नः सर्वमिज्जगदयक्ष्मं सुमना असत् ॥ या त इषुः शिवतमा शिवं बभूव ते धनुः । शिवा शरव्या या तव तया नो मृड जीवसे ॥ अच्छा वदामसि । अच्छ निर्मलं वदामः । अच्छशब्दस्य निपातस्य चेति दीर्घः । इदन्तो मसि । इदनर्थको निपातः । अयक्ष्मं नीरोगम् । सुमनाः सुमनस्कम् । असद्भवेत् । लिङर्थे लेट् । तिप् । इतश्च लोपः परस्मैपदेषु । लेटोऽडाटावित्यट् । शरव्या शरसन्धात्री ज्या शरो दध्यग्रबाणयोः इति विश्वः । शरमर्हति यत् । अव्शरस्य चेत्यवादेशः । शरुशब्दाद्वा सिद्धम् । शरुरायुधकोपयोः । उगवादिभ्यो यत् । जीवसे जीवितुं मृड मोदय । यद्वा हे मृड तया तन्वा नोऽस्माञ्जीवसे जीवयसि । या ते रुद्र शिवा तनूरघोरा पापकाशिनी । तया नस्तन्वा शन्तमया गिरिशन्ताभिचाकशत् ॥ असौ यस्ताम्रो अरुण उत बभ्रुर्विलोहितः । ये चेमे अभितो रुद्रा दिक्षु श्रिताः सहस्रशो वैषां हेड ईमहे ॥ १॥ शन्तमया । अतिशयेन शं शन्तमा तया । अभिचाकशत् । कशेर्यङ्लुङन्ताल्लेट्ति- पट् । अतिशयेन प्रकाशयत्विति प्रार्थना । बभ्रूः पिङ्गलो वैषां ह ईडे स्तुतये । ईमहे कामयामहे । विष्णुपक्ष आभीराः ॥ १॥ अदृश्यं त्वाऽवरोहन्तं नीलग्रीवं विलोहितम् ॥ उत त्वा गोपा अदृशन्नुत त्वोदहार्यः ॥ उतो त्वा विश्वा भूतानि तस्मै दृष्टाय ते नमः ॥ गोपा गोपाला अदृशन्नपश्यन् । उदहार्यः पानीयहारिण्यः । विश्वा विश्वानि भूतानि । अदृशन् । योगिनाप्यदृश्यं त्वां कृपयाऽऽविर्भवन्तमादित्यवत्प्रकाशमानं पामरा अपि ददृशुरित्यर्थः । नमोऽस्तु नीलशिखण्डाय सहस्राक्षाय वाजिने ॥ अथो ये अस्य सत्त्वानस्तेभ्योऽहमकरं नमः ॥ वाजिनेऽन्नवते बाणरूपाय वा । सीदन्ति सत्त्वानो गणाः । नमांसि त आयुधायानातताय धृष्णवे । उभाभ्यामकरं नमो बाहुभ्यां तव धन्वने ॥ प्रमुञ्च धन्वनस्त्वमुभयो राज्ञोर्ज्याम् । याश्च ते हस्त इषवः परा ता भगवो वप ॥ नमांसि नमस्काराः । नाऽऽततायानातताय । धृष्णवे प्रगल्भाय । बाहुभ्यां कृत्वा धन्वने नमोऽकरवमित्यर्थः । उभयोररिप्रत्यरिभूतयो राज्ञोर्धन्वनोर्ज्यां परिप्रमुञ्चानाततां कुरु । राज्ञोर्विग्रहे लोकानां क्लेशो भवति ततस्तं शमयेति भावः । हे भगवो यास्ते हल इषवो बाणास्ताः परा वप पराङ्मुखान्मुञ्च । त्वमपि कोपं लोकेषु मा कृथा इति भावः । इन्द्ररूपेण जगद्रक्षेति प्रार्थयते- अवतत्य धनुस्त्वं सहस्राक्ष शतेषुधे । निशीर्य शल्यानां मुखा शिवो नः शम्भुराभर ॥ विज्यं धनुः शिखण्डिनो विशल्यो बाणवाꣳ उत । अनेशन्नस्येषवः शिवो अस्य निषङ्गतिः ॥ अवतत्येति । अधिज्यं कृत्वा । सहस्राक्ष शक्ररूप । शतमिषुधयस्तूणा यज्ञरूपा यस्य तत्सम्बोधनम् । निशीर्य तीक्ष्णीकृत्य मुखा मुखानि नोऽस्माञ्शिवः कल्याणरूपः शम्भुः सुखहेतुः सन्नाभर धारय पोषय । बाणवांस्तूणीरो विशल्योऽस्तु । शल्यरहितो भवतु । वैरिषु हतेषु तत्प्रयोजनाभावात् । अनेशन्नदृभ्या अभूवन् । नशिमन्योरलिट्येत्वमिति वार्तिकेन लुङि पुषाद्यङ्येत्वम् । निषङ्गतिः । निषङ्गः । परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः । अथो य इषुधिस्तवारे अस्मिन्निधेहि तम् ॥ या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः । तया त्वं विश्वतो अस्मानयक्ष्मया परिभुज ॥ विश्वतः सर्वतोऽस्मान्परिवृणक्तु परिवृत्य रक्षतु । अरे सम्बोधने । अथो पश्चाद्रक्षणानन्तरं यस्तवेषुधिरस्मिन्निषुधौ तां हेतिं बाणं निधेहि स्थापय । हे मीढुष्टम मीढवत्तमेत्यर्थः । सेचकतम । अयक्ष्मया सज्जया तया हेत्या परिभुज परिपालय । नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥ ये चामी रोचने दिवि ये च सूर्यस्य रश्मिषु । येषामप्सु सदस्कृतं तेभ्यः सर्पेभ्यो नमः ॥ या इषवो यातुधानानां ये वा वनस्पतीनाम् । ये वाऽवटेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥ २॥ सदस्कृतं गृहं कृतम् । यातुधानानां रक्षसां वनस्पतीनां चेषवः सर्पास्ते हि जनान्दशन्ति । अवटेषु गर्तेषु ॥ २॥ केदाराधीशमहिषस्वरूपं स्तौति- यः स्वजनान्नीलग्रीवो यः स्वजनाꣳ हरिरुत । कल्माषपुच्छमोषधे जम्भयाऽऽश्वरुन्धति ॥ य इति । यः शिवः स्वजनान्भक्तान्प्रति नीलग्रीवः । यश्च स्वजनान्भक्तान्प्रति हरिर्हरितवर्णो भक्तवत्सलो न भवति । महिषस्य हि तादृग्रूपं सम्भवति । यद्वा नीलग्रीवो रुद्रो हरिर्विप्णुश्च भवति । अनेन हरिहरयोरेकरूपतोक्ता । हे ओषधे । अरुन्धति रोधरहिते तं कल्माषपुच्छं कृष्णपाण्डुरपुच्छम् । आशु शीघ्रं जम्भय स्ववीर्येण वीर्यवन्तं कुरुषे । औषधीनां पशुभ्यो बलप्रदत्वात् । कल्माषो राक्षसे कृष्णे कल्माषः कृष्णपाण्डुरे इति विश्वः । केदारेश्वरस्य महिषरूपत्वात्पुच्छवत्ता सम्भवति । बभ्रुश्च बभ्रुकर्णश्चनीलागलशीलाः शिवः । पश्य सर्वेण नीलशिखण्डेन भवेन मरुतां पिता ॥ विरूपाक्षेण बभ्रुणा वाचं वदिष्यतो हतः । सर्वनीलशिखण्डेन वीर कर्मणि कर्मणि ॥ बभ्रुः क्वचिदवयवे पिङ्गलवर्णः । बभ्रुकर्णः पिङ्गलवर्णकर्णः । नीलागलशीलाः शिव इत्यत्र नीलग्रीवश्च यः शिव इति पाठो युक्तः । पितेति । तृतीयार्थे प्रथमा पित्रेत्यर्थः । अथ वाचं वदिष्यतः पिता देहिमात्रस्य जनको ब्रह्मा येनेश्वरेण हतस्तं त्वं पश्येत्यन्वयः । हे वीर कर्मणि कर्मणि विहितनिषिद्धरूपे । इमामस्य प्राशं जहि येनेदं विभजामहे । नमो भवाय नमः शर्वाय नमः कुमाराय शत्रवे ॥ नमो नीलशिखण्डाय नमः सभाप्रपादिने ॥ इमामस्य जनस्य । प्राशं पृच्छतीति प्राट्तां प्राशं प्रच्छिकां वाचम् । जहि वेदविहितं निषिद्धकर्मविषयं संशयं निराकुर्वित्यर्थः । येन कर्मणेदं जगद्विभजामहे कर्मभूमिभोगभूमिरूपेण विभक्तं कुर्महे । कुमाराय कालानभिभूताय स्कन्दरूपाय वा । शत्रवे संहर्त्रे । सभाप्रपादिने सभां प्रपद्यते तच्छील सभाप्रपादी तस्मै सभ्यायेत्यर्थः । यस्य हरी अश्वतरौ गर्दभावभितःसरौ । तस्मै नीलशिखण्डाय नमः सभाप्रपादिने नमः सभाप्रपादिन इति ॥ ३॥ इत्यथर्ववेदे नीलरुद्रोपनिषत्समाप्ता ॥ १८॥ अश्वतरौ ईषदूनमश्वत्वं ययोस्तावश्वतरौ गर्दभादश्वायां जातौ । अभितःसरावभितः सरत इत्यभितःसरौ गर्दभौ वर्तेते । यथा पुरुषोत्तमक्षेत्रस्य नीलमाधवोऽधिष्ठातैवं केदारक्षेत्रस्य नीलरुद्रः । द्विरुक्तिः समाप्त्यर्था ॥ ३॥ नारायणेन रचिता श्रुतिमात्रोपजीविना । अस्पष्टपदवाक्यानां नीलरुद्रस्य दीपिका ॥ १॥ इति नारायणविरचिता नीलरुद्रोपनिषद्दीपिका समाप्ता ॥ २४॥