अक्षर आकार:

मुक्तिका उपनिषत्

muktikA upaniShad excerpts

मुक्तिका उपनिषत्

Excerpts from MUKTIKAA UPANISHHAD ॥ मुक्तिका उपनिषत् ॥ ऋग्वेदस्य तु शाखाः स्युरेकविंशतिसंख्यकाः । नवाधिकशतं शाखा यजुशो मारुतात्मज ॥ सहस्रसंख्यया जाताः शाखाः साम्नः परंतप । अथर्वणस्य शाखाः स्युः पंचाशद्भेदतो हरे ॥ एकैकस्यास्तु शाखाया एकैकोपनिषन्मता । तासामेकामृचं यश्च पठते भक्तितो मयि ॥ स मत्सायुज्यपदवीं प्राप्नोति मुनिदुर्लभाम् । इयं कैवल्यमुक्तिस्तु केनोपायेन सिद्ध्यति । मांडूक्यमेकमेवालं मुमुक्षूणां विमुक्तये ॥ तथाप्यसिद्धं चेज्ज्ञानं दशोपनिषदं पठ । ज्ञानं लब्ध्वा चिरादेव मामकं धाम यास्यसि ॥ तथापि दृढता नो चेद्विज्ञानस्याञ्जनासुत । द्वात्रिंशाख्योपनिषदं समभ्यस्य निवर्तय ॥ विदेहमुक्ताविच्छा चेदोष्टरशतं पठ । तासं क्रमं सशांतिं च श्रुणु वक्ष्यामि तत्त्वतः ॥ ईशकेनकठप्रश्नमुंडमांडूक्यतित्तिरिः । ऐतरेयं च छांदोग्यं बृहदारण्यकं तथा ॥ ब्रह्मकैवल्यजाबालश्वेताश्वो हंस आरुणिः । गर्भो नारायणो हंसो बिन्दुर्नादशिरः शिखा ॥ मैत्रायणी कौषीतकी बृहज्जाबालतापनी । कालाग्निरुद्रमैत्रेयी सुबालक्षुरिमन्त्रिका ॥ सर्वसारं निरालंबं रहस्यं वज्रसूचिकम् । तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ॥ परिव्राट् त्रिशिखि सीता चूडा निर्वाणमंडलम् । दक्षिणा शरभं स्कंदं महानारायणाव्हयम् ॥ रहस्यं रामतपनं वासुदेवं च मुद्गलम् । शांडिल्यं पैंगलं भिक्षुमहच्छारीरकं शिखा ॥ तुरीयातीतसंन्यासपरिव्रजाक्षमालिका । अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुंडिका ॥ सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् । त्रिपुरातपनं देवीत्रिपुरा कठभावना ॥ हृदयं कुंडली भस्म रुद्राक्षगणदर्शनम् ॥ तारसारमहावाक्यपंचब्रह्माग्निहोत्रकम् । गोपालतपनं कृष्णं याज्ञवल्क्यं वराहकम् ॥ शाट्यायनि हयग्रीवं दत्तात्रेयं च गारुडम् । कलिजाबालिसौभाग्यरहस्यऋचमुक्तिका ॥ एवमष्टोत्तरशतं भावनात्रयनाशनम् । ज्ञानवैराग्यदं पुंसां वासनात्रयनाशनम् ॥ गृहीत्वाष्टोत्तरशतं ये पठंति द्विजोत्तमाः । प्रारब्धक्षयपर्यंतं जीवन्मुक्ता भवंति ते ॥ ऐतरेयकौषितकीनादबिंद्वात्मप्रबोधनिर्वाणमुद्गलाक्षमालिकात्रिपुरासौभाग्य- बह्वृचानामृग्वेदगतानां दशसंख्याकानामुपनिषदां वाङ्मे मनसीति शांतिः ॥ ईशावास्यबृहदारण्यजबालहंसपरमहंससुबालमन्त्रिकानिरालंबत्रिशिखीब्राह्मणमंडलब्राह्म- णाद्वयतारकपैंगलभिक्षुतुरीयातीताध्यात्मतारसारयाज्ञवल्क्यशाट्यायनीमुक्तिकानां शुक्लयजुर्वेदगतानामेकोनविंशतिसंख्याकानामुपनिषदां पूर्णमद इति शांतिः ॥ कठवल्लीतैत्तिरीयकब्रह्मकैवल्यश्वेताश्वतरगर्भनारायणामृतबिंद्वमृतनादकालाग्निरुद्रक्षुरिका- सर्वसारशुकरहस्यतेजोबिंदुध्यानबिंदुब्रह्मविद्यायोगतत्त्वदक्षिणामूर्तिस्कंदशारीरक- योगशिखैकाक्षराक्ष्यवधूतकठरुद्रहृदययोगकुंडलिनीपंचब्रह्मप्राणाग्निहोत्रवराहकलिसंतरण- सरस्वतीरहस्यानां कृष्णयजुर्वेदगतानां द्वात्रिंशत्संख्याकानामुपनिषदां सह नाववत्विति शांतिः ॥ केनच्छांदोग्यारुणिमैत्रायणिमैत्रेयीवज्रसूचिकायोगचूडामणिवासुदेवमहत्संन्यासाव्यक्तकुंडिका- सावित्रीरुद्राक्षजाबालदर्शनजाबालीनां सामवेदगतानां षोडशसंख्याकानामुपनिषदामाप्यायंत्विति शांतिः ॥ प्रश्नमुंडकमांडुक्याथर्वशिरोऽथर्वशिखाबृहज्जाबालनृसिंहतापनीनारदपरिव्राजकसीताशरभ- महानारायणरामरहस्यरामतापनीशांडिल्यपरमहंसपरिव्राजकान्नपूर्णासूर्यात्मपाशुपत- परब्रह्मत्रिपुरातपनदेवीभावनाब्रह्मजाबालगणपतिमहावाक्यगोपालतपनकृष्णहयग्रीव- दत्तात्रेयगारुडानामथर्ववेदगतानामेकत्रिंशत्संख्याकानामुपनिषदां भद्रं कर्णेभिरिति शांतिः ॥