अक्षर आकार:

मुक्तिकोपनिषत्

MuktikA Upanishad

मुक्तिकोपनिषत्

ईशाद्यष्टोत्तरशतवेदान्तपटलाशयम् । मुक्तिकोपनिषद्वेद्यं रामचन्द्रपदं भजे ॥ हरिः ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ अयोध्यानगरे रम्ये रत्नमण्डपमध्यमे । सीताभरतसौमित्रिशत्रुघ्नाद्यैः समन्वितम् ॥ १॥ सनकाद्यैर्मुनिगणैर्वसिष्ठाद्यैः शुकादिभिः । अन्यैर्भागवतैश्चापि स्तूयमानमहर्निशम् ॥ २॥ धीविक्रियासहस्राणां साक्षिणं निर्विकारिणम् । स्वरूपध्याननिरतं समाधिविरमे हरिम् ॥ ३॥ भक्त्या शुश्रूषया रामं स्तुवन्पप्रच्छ मारुतिः । राम त्वं परमात्मसि सच्चिदानन्दविग्रहः ॥ ४॥ इदानीं त्वां रघुश्रेष्ठ प्रणमामि मुहुर्मुहुः । त्वद्रूपं ज्ञातुमिच्छामि तत्त्वतो राम मुक्तये ॥ ५॥ अनायासेन येनाहं मुच्येयं भवबन्धनात् । कृपया वद मे राम येन मुक्तो भवाम्यहम् ॥ ६॥ साधु पृष्टं महाबाहो वदामि श‍ृणु तत्त्वतः । वेदान्ते सुप्रतिष्ठोऽहं वेदान्तं समुपाश्रय ॥ ७॥ वेदान्ताः के रघुश्रेष्ठ वर्तन्ते कुत्र ते वद । हनूमञ्छृणु वक्ष्यामि वेदान्तस्थितिमञ्जसा ॥ ८॥ निश्वासभूता मे विष्णोर्वेदा जाताः सुविस्तराः । तिलेषु तैलवद्वेदे वेदान्तः सुप्रतिष्ठितः ॥ ९॥ राम वेदाः कतिविधास्तेषां शाखाश्च राघव । तासूपनिषदाः काः स्युः कृपया वद तत्त्वतः ॥ १०॥ श्रीराम उवाच । ऋग्वेदादिविभागेन वेदाश्चत्वार ईरिताः । तेषां शाखा ह्यनेकाः स्युस्तासूपनिषदस्तथा ॥ ११॥ ऋग्वेदस्य तु शाखाः स्युरेकविंशतिसङ्ख्यकाः । नवाधिकशतं शाखा यजुषो मारुतात्मज ॥ १२॥ सहस्रसङ्ख्यया जाताः शाखाः साम्नः परन्तप । अथर्वणस्य शाखाः स्युः पञ्चाशद्भेदतो हरे ॥ १३॥ एकैकस्यास्तु शाखाया एकैकोपनिषन्मता । तासामेकामृचं यश्च पठते भक्तितो मयि ॥ १४॥ स मत्सायुज्यपदवीं प्राप्नोति मुनिदुर्लभाम् । राम केचिन्मुनिश्रेष्ठा मुक्तिरेकेति चक्षिरे ॥ १५॥ केचित्त्वन्नामभजनात्काश्यां तारोपदेशतः । अन्येतु साङ्ख्ययोगेन भक्तियोगेन चापरे ॥ १६॥ अन्ये वेदान्तवाक्यार्थविचारात्परमर्षयः । सालोक्यादिविभागेन चतुर्धा मुक्तिरीरिता ॥ १७॥ सहोवाच श्रीरामः । कैवल्यमुक्तिरेकैव परमार्थिकरूपिणी । दुराचाररतो वापि मन्नामभजनात्कपे ॥ १८॥ सालोक्यमुक्तिमाप्नोति न तु लोकान्तरादिकम् । काश्यां तु ब्रह्मनालेऽस्मिन्मृतो मत्तारमाप्नुयात् ॥ १९॥ पुनरावृत्तिरहितां मुक्तिं प्राप्नोति मानवः । यत्र कुत्रापि वा काश्यां मरणे स महेश्वरः ॥ २०॥ जन्तोर्दक्षिणकर्णे तु मत्तारं समुपादिशेत् । निर्धूताशेषपापौघो मत्सारूप्यं भजत्ययम् ॥ २१॥ सैव सालोक्यसारूप्यमुक्तिरत्यभिधीयते । सदाचाररतो भूत्वा द्विजो नित्यमनन्यधीः ॥ २२॥ मयि सर्वात्मको भावो मत्सामीप्यं भजत्ययम् । सैव सालोक्यसारूप्यसामीप्या मुक्तिरिष्यते ॥ २३॥ गुरूपदिष्टमार्गेण ध्यायन्मद्गुणमव्ययम् । मत्सायुज्यं द्विजः सम्यग्भजेद्भ्रमरकीटवत् ॥ २४॥ सैव सायुज्यमुक्तिः स्याद्ब्रह्मानन्दकरी शिवा । चतुर्विधा तु या मुक्तिर्मदुपासनया भवेत् ॥ २५॥ इयं कैवल्यमुक्तिस्तु केनोपायेन सिद्ध्यति । माण्डूक्यमेकमेवालं मुमुक्षूणां विमुक्तये ॥ २६॥ तथाप्यसिद्धं चेज्ज्ञानं दशोपनिषदं पठ । ज्ञानं लब्ध्वा चिरादेव मामकं धाम यास्यसि ॥ २७॥ तथापि दृढता न चेद्विद्ज्ञानस्याञ्जनासुत । द्वात्रिंशाख्योपनिषदं समभ्यस्य निवर्तय ॥ २८॥ विदेहमुक्ताविच्छा चेदष्टोत्तरशतं पठ । तासां क्रम सशान्तिं च श्रुणु वक्ष्यामि तत्त्वतः ॥ २९॥ ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः । ऐतरेयं च छान्दोग्यं बृहदारण्यकं तथा ॥ ३०॥ ब्रह्मकैवल्यजाबालश्वेताश्वो हंस आरुणिः । गर्भो नारायणो हंसो बिन्दुर्नादशिरः शिखा ॥ ३१॥ मैत्रायणी कौषीतकी बृहज्जाबालतापनी । कालाग्निरुद्रमैत्रेयी सुबालक्षुरिमन्त्रिका ॥ ३२॥ सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् । तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ॥ ३३॥ परिव्राट् त्रिशिखी सीता चूडा निर्वाणमण्डलम् । दक्षिणा शरभं स्कन्दं महानारायणाह्वयम् ॥ ३४॥ रहस्यं रामतपनं वासुदेवं च मुद्गलम् । शाण्डिल्यं पैङ्गलं भिक्षुमहच्छारीरकं शिखा ॥ ३५॥ तुरीयातीतसंन्यासपरिव्राजाक्षमालिका । अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुण्डिका ॥ ३६॥ सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् । त्रिपुरातपनं देवीत्रिपुरा कठभावना । हृदयं कुण्डली भस्म रुद्राक्षगणदर्शनम् ॥ ३७॥ तारसारमहावाक्य पञ्चब्रह्माग्निहोत्रकम् । गोपालतपनं कृष्णं याज्ञवल्क्यं वराहकम् ॥ ३८॥ शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् । कलिजाबालिसौभाग्यरहस्यऋचमुक्तिका ॥ ३९॥ एवमष्टोत्तरशतं भावनात्रयनाशनम् । ज्ञानवैराग्यदं पुंसां वासनात्रयनाशनम् ॥ ४०॥ पूर्वोत्तरेषु विहिततत्तच्छान्तिपुरःसरम् । वेदविद्याव्रतस्नातदेशिकस्य मुखात्स्वयम् ॥ ४१॥ गृहीत्वाष्टोत्तरशतं ये पठन्ति द्विजोत्तमाः । प्रारब्धक्षयपर्यन्तं जीवन्मुक्ता भवन्ति ते ॥ ४२॥ ततः कालवशादेव प्रारब्धे तु क्षयं गते । वैदेहीं मामकीं मुक्तिं यान्ति नास्त्यत्रसंशयः ॥ ४३॥ सर्वोपनिषदां मध्ये सारमष्टोत्तरशतम् । सकृच्छ्रवणमात्रेण सर्वाघौघनिकृन्तनम् ॥ ४४॥ मयोपदिष्टं शिष्याय तुभ्यं पवननन्दन । इदं शास्त्रं मयादिष्टं गुह्यमष्टोत्तरं शतम् ॥ ४५॥ ज्ञानतोऽज्ञानतो वापि पठतां बन्धमोचकम् । राज्यं देयं धनं देयं याचतः कामपूरणम् ॥ ४५॥ इदमष्टोत्तरशतं न देयं यस्य कस्यचित् । नास्तिकाय कृतघ्नाय दुराचाररताय वै ॥ ४७॥ मद्भक्तिविमुखायापि शास्त्रगर्तेषु मुह्यते । गुरुभक्तिविहीनाय दातव्यं न कदाचन ॥ ४८॥ सेवापराय शिष्याय हितपुत्राय मारुते । मद्भक्ताय सुशीलाय कुलीनाय सुमेधसे ॥ ४९॥ सम्यक् परीक्ष्य दातव्यमेवमष्टोत्तरं शतम् । यः पठेच्छृणुयाद्वापि स मामेति न संशयः । तदेतदृचाभ्युक्तम् । विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टीऽहमस्मि । असूयकायानृजवे शठाय मा मा ब्रूया वीर्यवती तथा स्याम् । यमेव विद्याश्रुतमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् । तस्मा इमामुपसन्नाय सम्यक् परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् ॥ १॥ इति ॥ अथ हैनं श्रीरामचन्द्रं मारुतिः पप्रच्छ ऋग्वेदादिविभागेन पृथक् शान्तिमनुब्रूहीति । स होवाच श्रीरामः । ऐतरेयकौषीतकीनादबिन्द्वात्मप्रबोधनिर्वाण- मुद्गलाक्षमालिकात्रिपुरासौभाग्यबह्वृचा नामृग्वेदगतानां दशसंख्याकानामुपनिषदां वाङ्मे मनसीति शान्तिः ॥ १॥ ईशावास्यबृहदारण्यजाबालहंसपरमहंससुबाल- मन्त्रिकानिरालम्बत्रिशिखीब्राह्मणमण्डलब्राह्मणाद्वयतारक- पैङ्गलभिक्षुतुरीयातीताध्यात्मतारसारयाज्ञवल्क्य- शाट्यायनीमुक्तिकानां शुक्लयजुर्वेदगतानामेकोनविंशति- संख्याकानामुपनिषदां पूर्णमद इति शान्तिः ॥ २॥ कठवल्लीतैत्तिरीयकब्रह्मकैवल्यश्वेताश्वतरगर्भ- नारायणामृतबिन्द्वमृतनादकालाग्निरुद्रक्षुरिका- सर्वसारशुकरहस्यतेजोबिन्दुध्यानबिन्दुब्रह्मविद्या- योगतत्त्वदक्षिणामूर्तिस्कन्दशारीरकयोगशिखैकाक्षर- अक्ष्यवधूतकठरुद्रहृदययोगकुण्डलिनीपञ्चब्रह्म- प्राणाग्निहोत्रवराहकलिसन्तरणसरस्वतीरहस्यानां कृष्णयजुर्वेदगतानां द्वात्रिंशत्संख्याकानमुपनिषदां सह नाववत्विति शान्तिः ॥ ३॥ केनछान्दोग्यारुणिमैत्रायणिमैत्रेयीवज्रसूचिकायोगचूडामणि- वासुदेवमहत्संन्यासाव्यक्तकुण्डिकासावित्रीरुद्राक्षजाबालदर्शन- जाबालीनां सामवेदगतानां षोडशसंख्याकाना- मुपनिषदानामाप्यायन्त्विति शान्तिः ॥ ४॥ प्रश्नमुण्डकमाण्डुक्याथर्वशिरोऽथर्वशिखाबृहज्जाबाल- नृसिंहतापनीनारदपरिव्राजकसीताशरभमहानारायण- रामरहस्यरामतापनीशाण्डिल्यपरमहंसपरिव्राजक- अन्नपूर्णासूर्यात्मपाशुपतपरब्रह्मत्रिपुरातपनदेवीभावना- ब्रह्मजाबालगणपतिमहावाक्यगोपालतपनकृष्णहयग्रीव- दत्तात्रेयगारुडानामथर्ववेदगतानामेकत्रिंशत्संख्याकाना- मुपनिषदां भद्रं कर्णेभिरिति शान्तिः ॥ ५॥ मुमुक्षवः पुरुषाः साधनचतुष्टयसम्पन्नाः श्रद्धावन्तः सुकुलभवं श्रोत्रियं शास्त्रवात्सल्य- गुणवन्तमकुटिलं सर्वभूतहितेरतं दयासमुद्रं सद्गुरुं विधिवदुपसंगम्योपहारपाणयोऽष्टोत्तरशतोपनिषदं विधिवदधीत्य श्रवणमनननिदिध्यासनानि नैरन्तर्येण कृत्वा प्रारब्धक्षयाद्देहत्रयभंगं प्राप्योपाधिविनिर्मुक्त- घटाकाशवत्परिपूर्णता विदेहमुक्तिः । सैव कैवल्यमुक्तिरिति । अत एव ब्रह्मलोकस्था अपि ब्रह्ममुखाद्वेदान्तश्रवणादि कृत्वा तेन सह कैवल्यं लभन्ते । अतः सर्वेषां कैवल्यमुक्तिर्ज्ञानमात्रेणोक्ता । न कर्मसांख्ययोगोपासनादिभिरित्युपनिषत् ॥ इति प्रथमोऽध्यायः ॥ १॥ तथा हैनं श्रीरामचन्द्रं मारुतिः पप्रच्छ । केयं वा तत्सिद्धिः सिद्ध्या वा किं प्रयोजनमिति । सहोवाच श्रीरामः । पुरुषस्य कर्तृत्वभोक्तृत्व- सुखदुःखादिलक्षणश्चित्तधर्मः क्लेशरूपत्वाद्बन्धो भवति । तन्निरोधनं जीवन्मुक्तिः । उपाधिविनिर्मुक्त- घटाकाशवत्प्रारब्धक्षयाद्विदेहमुक्तिः । जीवन्मुक्तिविदेहमुक्त्योरष्टोत्तरशतोपनिषदः प्रमाणम् । कर्तृत्वादिदुःखनिवृत्तिद्वारा नित्यानन्दावाप्तिः प्रयोजनं भवति । तत्पुरुषप्रयत्नसाध्यं भवति । यथा पुत्रकामेष्टिना पुत्रं वाणिज्यादिना वित्तं ज्योतिष्टोमेन स्वर्गं तथा पुरुषप्रयत्नसाध्यवेदान्तश्रवणादिजनितसमाधिना जीवन्मुक्त्यादिलाभो भवति । सर्ववासनाक्षयात्तल्लाभः । अत्र श्लोका भवन्ति ॥ उच्छास्त्रं शास्त्रितं चेति पौरुषं द्विविधं मतम् । अत्रोच्छस्त्रमनर्थाय परमार्थाय शास्त्रितम् ॥ १॥ लोकवासनया जन्तोः शास्त्रवासनयापि च । देहवासनया ज्ञानं यथावन्नैव जायते ॥ २॥ द्विविधा वासनाव्यूहः शुभश्चैवाशुभश्च तौ । वासनौघेन शुद्धेन तत्र चेदनुनीयसे ॥ ३॥ तत्क्रमेणाशु तेनैव मामकं पदमाप्नुहि । अथ चेदशुभो भावस्त्वां योजयति संकटे ॥ ४॥ प्राक्तनस्तदसौ यत्नाज्जेतव्यो भवता कपे । शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् ॥ ५॥ पौरुषेण प्रयत्नेन योजनीया शुभे पथि । अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् ॥ ६॥ अशुभाच्चालितं याति शुभं तस्मादपीतरत् । पौरुषेण प्रयत्नेन लालयेच्चित्तबालकम् ॥७॥ द्रागभ्यासवशाद्याति यदा ते वासनोदयम् । तदाभ्यासस्य साफल्यं विद्धि त्वममरिमर्दन ॥ ८॥ सन्दिग्धायामपि भृशं शुभामेव समाचर । शुभायां वासनावृद्धौ न दोषाय मरुत्सुत ॥ ९॥ वासनाक्षयविज्ञानमनोनाशा महामते । समकालं चिराभ्यस्ता भवन्ति फलदा मताः ॥ १०॥ त्रय एवं समं यावन्नाभ्यस्ताश्च पुनः पुनः । तावन्न पदसम्प्राप्तिर्भवत्यपि समाशतैः ॥ ११॥ एकैकशो निषेव्यन्ते यद्येते चिरमप्यलम् । तन्न सिद्धिं प्रयच्छन्ति मन्त्राः संकीर्तिता इव ॥ १२॥ त्रिभिरेतैश्चिराभ्यस्तैर्हृदयग्रन्थयो दृढाः । निःशङ्कमेव त्रुठ्यन्ति बिसच्छेदाद्गुणा इव ॥ १३॥ जन्मान्तशताभ्यस्ता मिथ्या संसारवासना । सा चिराभ्यासयोगेन विना न क्षीयते क्वचित् ॥ १४॥ तस्मात्सौम्य प्रयत्नेन पौरुषेण विवेकिना । भोगेच्छां दूरतस्त्यक्त्वा त्रयमेव समाश्रय ॥ १५॥ तस्माद्वासनया युक्तं मनो बद्धं विदुर्बुधाः । सम्यग्वासनया त्यक्तं मुक्तमित्यभिधीयते । मनोनिर्वासनीभावमाचराशु महाकपे ॥ १६॥ सम्यगालोचनात्सत्याद्वासना प्रविलीयते । वासनाविलये चेतः शममायाति दीपवत् ॥ १७॥ वासनां सम्परित्यज्य मयि चिन्मात्र विग्रहे । यस्तिष्ठति गतो व्यग्रः सोऽहं सच्चित्सुखात्मकः ॥ १८॥ समाधिमथ कार्याणि मा करोतु करोतु वा । हृदयेनात्तसर्वेहो मुक्त एवोत्तमाशयः ॥ १९॥ नैष्कर्म्येण न तस्यार्थस्तस्यार्थोऽस्ति न कर्मभिः । न ससाधनजाप्याभ्यां यस्य निर्वासनं मनः ॥ २०॥ संत्यक्तवासनान्मौनादृते नास्त्युत्तमं पदम् ॥ २१॥ वासनाहीनमप्येतच्चक्षुरादीन्द्रियं स्वतः । प्रवर्तते बहिः स्वाऽर्थे वासनामात्रकारणम् ॥ २२॥ अयत्नोपनतेष्वक्षि दृग्द्रव्येषु यथा पुनः । नीरागमेव पतति तद्वत्कार्येषु धीरधीः ॥ २३॥ भावसंवित्प्रकटितामनुरूपा च मारुते । चित्तस्योत्पत्युपरमा वासनां मुनयो विदुः ॥ २४॥ दृढाभ्यस्तपदार्थैकभावनादतिचञ्चलम् । चित्तं संजायते जन्मजरामरणकारणम् ॥ २५॥ वासनावशतः प्राणस्पन्दस्तेन च वासना । क्रियते चित्तबीजस्य तेन बीजाङ्कुरक्रमः ॥ २६॥ द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने । एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ॥ २७॥ असङ्गव्यवहारत्वाद्भवभावनवर्जनात् । शरीरनाशदर्शित्वाद्वासना न प्रवर्तते । वासनासम्परित्यागाच्चितं गच्छत्यचित्तताम् ॥ २८॥ अवासनत्वात्सततं यदा न मनुते मनः । अमनस्ता तदोदेति परमोपशमप्रदा ॥ २९॥ अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः । गुरुशास्त्रप्रमाणैस्तु निर्णीतं तावदाचर ॥ ३०॥ ततः पक्वकषायेण नूनं विज्ञात वस्तुना । शुभोऽप्यसौ त्वया त्याज्यो वासनौघो निराधिना ॥ ३१॥ द्विविधचित्तनाशोऽस्ति सरूपोऽरूप एव च । जीवन्मुक्तः सरूपः स्यादरूपो देहमुक्तिगः ॥ ३२॥ अस्य नाशमिदानीं त्वं पावने श्रुणु सादरम् ॥ ३३। चित्तानाशाभिधानं हि यदा ते विद्यते पुनः । मैत्र्यादिभिर्गुणैर्युक्तं शान्तिमेति न संशयः । भूयोजन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः ॥ ३४॥ सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते । अरूपस्तु मनोनाशो वैदेही मुक्तिगो भवेत् ॥ ३५॥ सहस्राङ्कुरशाखात्मफलपल्लवशालिनः ॥ ३६॥ अस्य संसारवृक्षस्य मनोमूलमिदं स्थितम् । संकल्प एव तन्मन्ये संकल्पोपशमेन तत् ॥ ३७॥ शोषयाशु यथा शोषमेति संसारपादपः । उपाय एक एवास्ति मनसः स्वस्य निग्रहे ॥ ३८॥ मनसोऽभ्युदयो नाशो मनोनाशो महोदयः । ज्ञमनो नाशमभ्येति मनो ज्ञस्य हि श‍ृङ्खला ॥ ३९॥ तावन्निशीव वेताला वल्गन्ति हृदि वासनाः । एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः ॥ ४०॥ प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः । पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ॥ ४१॥ हस्तं हस्तेन सम्पीड्य दन्तैर्दन्तान्विचूर्ण्य च । अङ्गान्यङ्गैः समाक्रम्य जयेदादौ स्वकं मनः ॥ ४२॥ उपविश्योपविश्यैकां चिन्तकेन मुहुर्मुहुः । न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् ॥ ४३॥ अङ्कुशेन विना मत्तो यथा दुष्टमतङ्गजः । अध्यात्मविद्याधिगमः साधुसंगतिरेव च ॥ ४४॥ वासनासम्परित्यागः प्राणस्पन्दनिरोधनम् । एतास्ता युक्तयः पुष्टाः सन्ति चित्तजये किल ॥ ४५॥ सतीषु युक्तिष्वेतासु हठान्नियमन्ति ये । चेतसो दीपमुत्सृज्य विचिन्वन्ति तमोऽञ्जनैः ॥ ४६॥ विमूढाः कर्तुमुद्युक्ता ये हठाच्चेतसो जयम् । ते निबध्नन्ति नागेन्द्रमुन्मत्तं बिसतन्तुभिः ॥ ४७॥ द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारणः । एकं प्राणपरिस्पन्दो द्वितीयं दृढभावना ॥ ४८॥ सा हि सर्वगता संवित्प्राणास्पन्देन चाल्यते । चित्तैकाग्र्याद्यतो ज्ञानमुक्तं समुपजायते ॥ ४९॥ तत्साधनमथो ध्यानं यथावदुपदिश्यते । विनाप्यविकृतिं कृत्स्नां संभवव्यत्ययक्रमात् । यशोऽरिष्टं च चिन्मात्रं चिदानन्दं विचिन्तय ॥ ५०॥ अपानेऽस्तंगते प्राणो यावन्नाभ्युदितो हृदि । तावत्सा कुंभकावस्था योगिभिर्यानुभूयते ॥ ५१॥ बहिरस्तंगते प्राणे यावन्नापान उद्गतः । तावत्पूर्णां समावस्थां बहिष्ठं कुम्भकं विदुः ॥ ५२॥ ब्रह्माकारमनोवृत्तिप्रवाहोऽहंकृतं विना । सम्प्रज्ञातसमाधिः स्याद्ध्यानाभ्यासप्रकर्षतः ॥ ५३॥ प्रशान्तवृत्तिकं चित्तं परमानन्ददायकम् । असम्प्रज्ञातनामायं समाधिर्योगिनां प्रियः ॥ ५४॥ प्रभाशून्यं मनःशून्यं बुद्धिशून्यं चिदात्मकम् । अतद्व्यावृत्तिरूपोऽसौ समाधिर्मुनिभावितः ॥ ५५॥ ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं शिवात्मकम् । साक्षाद्विधिमुखो ह्येष समाधिः पारमार्थिकः ॥ ५६॥ दृढभावनया त्यक्तपूर्वापरविचारणम् । यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥ ५७॥ भावितं तीव्रसंवेगादात्मना यत्तदेव सः । भवत्याशु कपिश्रेष्ठ विगतेतरवासनः ॥ ५८॥ तादृग्रूपो हि पुरुषो वासनाविवशीकृतः । सम्पश्यति यदैवैतत्सद्वस्त्विति विमुह्यति ॥ ५९॥ वासनावेगवैचित्र्यात्स्वरूपं न जहाति तत् । भ्रान्तं पश्यति दुर्दृष्टिः सर्वं मदवशादिव ॥ ६०॥ वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा । मलिना जन्महेतुः स्याच्छुद्धा जन्मविनाशिनी ॥ ६१॥ अज्ञानसुघनाकारा घनाहंकारशालिनी । पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः । पुनर्जन्माङ्कुरं त्यक्त्वा स्थितिः संभृष्टबीजवत् ॥ ६२॥ बहुशास्त्रकथाकन्थारोमन्थेन वृथैव किम् । अन्वेष्टव्यं प्रयत्नेन मारुते ज्योतिरान्तरम् ॥ ६३॥ दर्शनादर्शने हित्वा स्वयं केवलरूपतः । य आस्ते कपिशार्दूल ब्रह्म स ब्रह्मवित्स्वयम् ॥ ६४॥ अधीत्य चतुरो वेदान्सर्वशास्त्राण्यनेकशः । ब्रह्मतत्त्वं न जानाति दर्वी पाकरसं यथा ॥ ६५॥ स्वदेहाशुचिगन्धेन न विरज्येत यः पुमान् । विरागकारणं तस्य किमन्यदुपदिश्यते ॥ ६६॥ अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥ ६७॥ बद्धो हि वासनाबद्धो मोक्षः स्याद्वासनाक्षयः । वासनां सम्परित्यज्य मोक्षार्थित्वमपि त्यज ॥ ६८॥ मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः । मैत्र्यादिवासनानाम्नीर्गृहाणामलवासनाः ॥ ६९॥ ता अप्यतः परित्यज्य ताभिर्व्यवहरन्नपि । अन्तःशान्तः समस्नेहो भव चिन्मात्रवासनः ॥ ७०॥ तामप्यथ परित्यज्य मनोबुद्धिसमन्विताम् । शेषस्थिरसमाधानो मयि त्वं भव मारुते ॥ ७१॥ अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् । अनामगोत्रं मम रूपमीदृशं भजस्व नित्यं पवनात्मजार्तिहन् ॥ ७२॥ दृशिस्वरूपं गगनोपमं परं सकृद्विभातं त्वजमेकमक्षरम् । अलेपकं सर्वगतं यदद्वयं तदेव चाहं सकलं विमुक्तॐ ॥ ७३॥ दृशिस्तु शुद्धोऽहमविक्रियात्मको न मेऽस्ति कश्चिद्विषयः स्वभावतः । पुरस्तिरश्चोर्ध्वमधश्च सर्वतः सुपूर्णभूमाहमितीह भावय ॥ ७४॥ अजोऽमरश्चैव तथाजरोऽमृतः स्वयंप्रभः सर्वगतोऽहमव्ययः । न कारणं कार्यमतीत्य निर्मलः सदैव तृप्तोऽहमितीह भावय ॥ ७५॥ जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते । विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ ७६॥ तदेतदृचाभ्युक्तम् ॥ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥ ॐ सत्यमित्युपनिषत् । ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ इति मुक्तिकोपनिषत्समाप्ता ॥