अक्षर आकार:

याजुषी मृत्युलाङ्गूलविद्योपनिषत्

yAjuShI mRityulAngUlavidyopaniShat

याजुषी मृत्युलाङ्गूलविद्योपनिषत्

ॐ सहनाववतु ॥ सहनौभुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शांतिः । शांतिः ॥ शांतिः ॥। ॐ एकदा महाकैलासे सुखासीनं महादेवमुपगम्य प्रणिपत्य भो भगवन् मृत्युलाङ्गूलविद्यामनुब्रूहीत्युवाच वसिष्ठः । अथाह भगवान्महादेवो मृत्युलाङ्गुलविद्यां वक्ष्यामीति । मृत्योस्समयावबोधनात् मृत्युलाङ्गुलमित्युच्यते । अस्याः श्रीमृत्युलाङ्गूलविद्यायाः उलूकनाङ्गनो भगवानृषिः । अनुष्टुप्छन्दः । मृत्युलाङ्गूलो देवता । क्लामित्यादिन्यासाः । ॥ ध्यानम् ॥ नीलपर्वतसङ्काश रुद्रकोपसमुद्भव । कालदण्डधर श्रीमन्वैवस्वत नमोऽस्तु ते ॥ अथातो योगविन्यासो मधुवादिनी अहङ्कारो नाहङ्कारस्य ॥ ऋतँ सत्यं परं ब्रह्म पुरुषं कृष्ण पिङ्गलम् । ऊध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः ॥ लमित्यादिपञ्चपूजा । इयं विद्या सायम्प्रातः सन्ध्ययोरुपस्थानात्पूर्वं विस्तृताङ्गुष्ठतर्जनीमुद्रया सव्यं पाणिं भूमौ विन्यस्य दक्षिणाभिमुखं शिष्टैर्जप्यते । स्वान्त्यकाल ज्ञानमपि सुकरमस्या जपानुष्ठानेन इत्यप्याहुश्च मान्त्रिकाः ॥ ॥ मूलमन्त्रः ॥ ॐ नमो भगवते उमापतये वरवृषभ फेनकपोलाय पशुपतये नमो नमः ॥ इति स्मृते मृत्युलाङ्गूले ब्रह्महाऽब्रह्महा भवति । स्वर्णस्तेयी अस्तेयी भवति । सुरापायी अपायी भवति । गुरुतल्पगामी अगामी भवति । अब्रह्मचारी सुब्रह्मचारी भवति । एकवारेण जपित्वा अष्टोत्तर शतसहस्रलक्ष गायत्री जप फलानि भवन्ति । अष्टौ ब्राह्मणान् सम्यक्ग्राहयित्वा- ब्रह्म लोकमवाप्रोति । यदि कश्चिन्न ब्रूयात् - कुष्ठी कुनखी भवति । दीयमानो न गृह्णीयात् अन्धो भवति । षड्भिर्मासैः प्रमुच्यते । स्त्रीणां योनौ - अहरहः प्रयुञ्जानः सर्वात्पापात्पूतो भवति । मृत्युः प्रीयताम् । मृत्युर्नीलकण्ठः । अपरिमितमायुर्भवति । शतवर्षाणि जीवन्ति । नश्यति मन्त्रो नश्यति तन्त्रो नश्यति यन्त्रः । न च पुनरावृत्या । यदि पुनरावृत्या ऋषीणां कुले महामेधावी भवति । इत्याह भगवान्महादेवो वसिष्ठायेत्युपनिषत् ॥ ॐ सहनाववतु ॥ सहनौभुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शांतिः । शांतिः ॥ शांतिः ॥।